सप्तत्रिंशोऽध्याय

राजोवाच - 

ध्यायन्ती भगवन्तं सा भक्तिः सम्प्राप कां गतिं? । ततो हरिश्च किं चक्रे? ब्रूह्येतन्मे महामुने! ।। १

सुव्रत उवाच - 

तस्यां ध्यानस्थितायां तु भूपासीदरुणोदयः । विधातुमाह्निकं कृष्णः स्नत्वाऽग्न्यागारमाविशत् ।। २ 

ददर्श साऽथ ध्यायन्ती हरिं तं हृदयाम्बुजे । आविर्भूतं यथादृष्टं प्रथमाश्रमसंस्थितम् ।। ३ 

प्रसन्नमुखचन्द्राभं वारिजच्छदलोचनम् । भुजं रमणीयाङ्गं श्यामसुन्दरविग्रहम् ।। ४ 

कौपीनाच्छादनं श्वेतमुत्तरीयं च बिभ्रतम् । नक्तकाबद्धकुटिलश्यामसूक्ष्मशिरोरुहम् ।। ५ 

सितयज्ञोपवीतं च करात्तजपमालिकम् । कण्ठस्थसूक्ष्मतुलसीकाष्ठस्रग्द्वयशोभनम् ।। ६ 

भाले कण्ठे च हृदये भुजयोः शोभनानि च । काश्मीरचन्द्रकोपेतान्यूर्ध्वपुण्ड्राणि बिभ्रतम् ।। ७ 

एवं हरिं सा पश्यन्ती पृथक् स्वात्मनमैक्षत । देहेन्द्रियमनःप्राणगुणेभ्यस्तत्प्रकाशकम् ।। ८ 

सन्मात्रं तं ब्रह्मणैक्यमापन्नं ह्यक्षरेण च । सा ददर्श ततस्तस्मिस्तमेव समवैक्षत ।। ९ 

सोऽथ स्वमेव श्रीकृष्णं जानन्तीं निश्चयेन ताम् । तद्रूपं दर्शयामास साश्चर्यं सा तमैक्षत ।। १० 

कोटिकन्दर्पलावण्यं नवीनजलदासितम् । प्रत्यङ्गनिःसरत्कोटिकोटिचन्द्रसमद्युतिम् ।। ११ 

शुद्धहेमाभवसनं रत्नकाञ्चीमनोहरम् । मयूरबर्हमुकुटं मकराकृतिकुण्डलम् ।। १२ 

कण्ठोल्लसत्कौस्तुभं च मुक्ताहारविभूषणम् । वैजयन्तीं स्रजं कण्ठे दधतं च मनोहरम् ।। १३ 

भुजयोः कटके हैमे श्रृङ्खले चाङ्गदे शुभे । दधतं नूपुरे चांघ्रयोः किशोरं चारुलोचनम् ।। १४ 

नटवर्यसमाकल्पं चन्दनेन सुचर्चितम् । पौष्पान्हाराञ्छेखरांश्च बिभ्रतं चावतंसकौ ।। १५ 

द्विभुजं वादयन्तं च मुरलीं मधुरस्वरम् । आश्चर्यदर्शनं तं च दृष्ट्वा हृष्टा ननाम सा ।। १६ 

पुनस्तमथ साऽपश्यद्यथापूर्वमवस्थितम् । वर्णिवेषं स्वतनयं ततो नत्वा नुनाव तम् ।। १७

भक्तिरुवाच - 

यः पातुं सदमर्त्यविप्रवृषगास्तिष्यावृषाढयासुरव्रातेभ्योऽजनि मद्बृहत्करुणया ह्येकान्तधर्मप्रियः ।
मूलाज्ञानतमश्चयार्क! विधृतानेकावतार! प्रभो ! वर्ण्याकल्पवते नमोऽस्तु हरये तस्मै परेशाय ते ।। १८

सर्वंसहावनधनञ्जयगन्धवाहनन्तार्यमाम्बुजहरामृतवाहमित्रे ।
सत्प्रेमवत्युदितसाधुगुणात्मनिष्ठे बुद्धिः सदा त्वयि हरे! मम निश्चलाऽस्तु ।। १९ 

एकान्तधर्मधर! धीर! वराभयाङ्कपाणेऽघसङ्घदवदावसमाभिधान ! ।
अघ्न्याधरामरधरामरसाधुरक्षे बुद्धिः सदा त्वयि हरे! मम निश्चलाऽस्तु ।। २० 

पाषण्डषण्डपरिखण्डनपण्डित! श्रीगोलोकधामगमितामितभक्तजीवे ।
भक्तेप्सिताखिलपुमर्थवितानकल्पे बुद्धिः सदा त्वयि हरे! मम निश्चलाऽस्तु ।२१

हिंसाविहीनमखवर्तन! दैवपित्र्यकृद्धर्मवेदनविरागगभक्तिबोधे ।
शुद्धे बृहद्व्रतमहाव्रतशान्तदान्ते बुद्धिः सदा त्वयि हरे! मम निश्चलाऽस्तु ।।२२

सच्छास्त्रसंश्रय ! जितेन्द्रिय ! सत्य ! सत्यसङ्कल्प ! माधव ! हरिद्विजसाधुपूजे ।
श्राद्धे समाधिमतियोगकलाप्रवृत्तौ बुद्धिः सदा त्वयि हरे ! मम निश्चलाऽस्तु ।२३ 

दम्भात्त्वैदिकपथासुरदेशिकक्ष्मापालोच्छिदेऽरुणमुखाशयनोदहेतो ! ।
विश्वासुभृत्करुणतापितृभावभाजि बुद्धिः सदा त्वयि हरे ! मम निश्चलाऽस्तु ।२४

ऐश्वर्यसारविनयप्रतिभानवद्यविद्यातपोनयसदाग्रहदानिताढये ।
नानासुलक्षणविलक्षितसौम्यमूर्ते ! बुद्धिः सदा त्वयि हरे ! मम निश्चलाऽस्तु ।२५ 

पूर्णेन्दुनिन्दिवदनाम्बुजपत्रनेत्रे वासोविभूषणसुवेषसुदर्शनीये ।
मन्दस्मितेक्षणहृताखिलजीवदैन्ये बुद्धिः सदा त्वयि हरे! मम निश्चलाऽस्तु ।।२६

सुव्रत उवाच - 

इति संस्तुवती कृष्णं तत्समाहितमानसा । विलीनमूलमाया सा विररामाचलस्थितिः ।। २७ 

पपात देहस्तर्ह्येव नैवाबुध्यत तं तु सा । सद्यो दिव्यतनुं प्राप जनादृश्यां यथा पुरा ।। २८ 

तयैव स्वपतिं प्रेम्णा सेवमाना निरन्तरम् । श्रद्धादिभिः सहावात्सीद्विमुक्ता ब्रह्मशापतः ।। २९ 

विक्रमार्कशकस्याब्दे वसुवेदगजेन्दुभिः । प्रमिते वर्तमाने च भास्करे नीचराशिगे ।। ३० 

ऊर्जे मासि सिते पक्षे दशम्यां मन्दवासरे । विहाय भौतिकं देहं भक्तिः सिद्धदशां ययौ ।। ३१ 

परिवेष्टयस्थितास्तां च तदा तद्बन्धवोऽखिलाः । विसंज्ञां नष्टनाडीं च दृष्ट्वाऽजानन्मृतेति ते ।। ३२ 

रुदन्ति स्म भृशं तर्हि तत्पुत्रा ज्ञातिबान्धवाः । आश्वासयत्तान्धर्मस्तु लौकिकीं दर्शयन् गतिम् ।। ३३ 

यथाशास्त्रं यथावित्तमौर्ध्वदैहिककर्म सः । कारयामास धर्मज्ञास्तस्या ज्येष्ठेन सूनुना ।। ३४ 

कृष्णस्तु तस्यां नृप! दिव्यदेहमुपागतायां निजमातृभावम् ।
चक्रे सुधीः स्वाग्रजयोषितायां तां मानयन्नेव सदाऽनुवृत्त्या ।। ३५

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे प्रेमवत्या
दिव्यगतिप्राप्तिनामा सप्तत्रिंशोऽध्यायः ।। ३७ ।।