अष्टत्रिंशोऽध्यायः ।। ३८ ।।

सुव्रत उवाच - 


अथ धर्मः स्वधर्मस्थः साङ्खययोगमुपाश्रितः । सेव्यमानः सुतैर्भेजे कृष्णमेव दिवानिशम् ।। १ 

त्यक्तप्रवृत्तिकर्मासौ विरक्तो विषयेष्वलम् ।जितस्वादो मिताहारो ब्रह्मचर्यव्रते रतः ।। २ 

तपःकृशीकृततनुर्घ्यानयोगबलोर्जितः । पुत्ररूपे भगवति गाढस्न्ग्धिमना अभूत् ।। ३ 

तपोयोगविशुद्धात्मा लक्षणैराङ्गिकैरथ । स्वाप्नैश्चासन्नमृत्युत्वं सोऽवैच्छास्त्रदृशाऽत्मनः ।। ४ 

ततः श्रीमद्बागवतदशमस्कन्धमादरात् । नियमेनापठन्नित्यं चिन्तयन्कृष्णमात्मनि ।। ५ \

प्रतिमासं मासिकानि प्रेमवत्या अकारयत् । तथोनमासिकं श्राद्धं त्रैपक्षं च यथाविधि ।। ६ 

ऊनषाण्मासिकं श्राद्धं ततः षाण्मासिकं नृप ! । सहस्रशस्तत्र विप्रान् यथेप्सितमभोजयत् ।। ७ 

सप्तमे मासिके चासौ भोजयित्वा द्विजोत्तमान् । विसृज्य बुभुजे साकं निजबन्धुजनादिभिः ।। ८ 

ज्वरार्तिरासीन्महती शरीरे तस्य तद्दिने । तदान्तकालनैकटयं विविदे सोऽपि चेतसा ।। ९ 

विहाय सर्वतः सङ्गं कृष्णध्यानपरायणः । एकादश्यां निर्जलायां कृष्णं विप्रैरपूपुजत् ।। १० 

निशि सुप्तेषु सर्वेषु पादसंवाहनं पितुः । कुर्वन् हरिर्जजागार सहजागरणव्रती ।। ११ 

निद्रामलभमानोऽथ ज्वरवेदनया वृषः । समाधिं सहसा प्राप हरेरेवेच्छयाऽनघ ! ।। १२ 

ब्रह्मज्योतिश्चये तत्र विहरन्तं बृहद्वने । यथा पुरैक्षि तं कृष्णं ददर्श मुरलीकरम् ।। १३ 

तद्दर्शनानन्दसमुद्रमग्नः संहृष्टरोमाऽश्रुकलावृताक्षः ।
ससम्भ्रमं दण्डवदानमत्तं तस्थौ ततः प्राञ्जलिरग्रतोऽस्य ।। १४ 

तं वीक्षमाणः सहसा हरिमेवैक्षतात्मजम् । कृष्णतुल्याखिलाकारं वर्णिवेषमवस्थितम् ।। १५ 

अवतीर्णो निजगृहे श्रीकृष्णो हरिसंज्ञाया । अस्तीति तत्क्षणे तस्य स्मृतिरासीन्नराधिप ! ।। १६ 

यावदाश्लिष्यति प्रेम्णा तं तावत्स तिरोदधे । व्युत्थितोऽसौ ददर्शाग्रे निजसेवापरं हरिम् ।। १७ 

तं गाढं स परिष्वज्य पुलकाङ्गोऽश्रुलोचनः । प्रणम्य प्रार्थयामास नृनाठयपिहितैश्वरम् ।। १८ 

 
धर्म उवाच - 

ज्ञातोऽस्यद्य हरे ! मयाऽखिलजगत्स्वामी त्वमेकः । प्रभुर्मत्प्रेष्ठो वरदो जगग्दुरुरजः श्रीकृष्ण एव स्वयम् ।।
भक्ताभीष्टफलप्रदस्तुनुभृतां सेव्यः सदा श्रेयसे ।मायायाः परतः पराय विभवे तस्मै नमस्तेऽस्तु मे ।। १९

स एव कृष्णो भगवांस्त्वमीशः साक्षात्परं ब्रह्म हि निर्गुणं यत् । ऋतं विधातुं निजवाक्यमत्र मत्पुत्रनाटयं धरसि स्वतन्त्रः ।। २०

हरे ! शरीरं खलु पञ्चषैर्मे पतिष्यतीति प्रतिभाति घस्रैः । न तद्बयं किञ्चिदपि स्वचित्ते ममास्ति यत्त्वं दृढमाश्रितोऽसि ।। २१

एकस्तु खेदो हृदि जायते मे कथं सहिष्ये विरहं तवेति । देहान्तराप्तावपि ते वियोगो मा भून्ममेति त्वदहं वृणोमि ।। २२


श्रीभगवानुवाच - 

दिष्टया तात ! त्वया ज्ञातं मत्स्वरूपं यथास्थितम् । ज्ञोयं प्राप्यं च ते किञ्चिन्नावशिष्टमतः परम् ।। २३

हित्वेमं भौतिकं देहं दिव्यदेहेन सर्वदा । मत्पार्श्व एव स्वजनैः साकं स्थास्यस्यसंशयम् ।। २४ 

अतश्चिन्तां विहायैव निःसङ्गो मत्परायणः । विशुद्धेनात्मनि हृदा मद्ध्याननिरतो भव ।। २५ 

 
सुव्रत उवाच - 

एवमुक्तो भगवता सोऽतिहृष्टमना वृषः । नमस्यंस्तं जगादेत्थं विनष्टाखिलवासनः ।। २६ 

प्रतिकर्तुमत्र नहि कोऽपि भवदुपकृतिं विनाञ्जलिम् । प्रभवति तत उरुमोहहरे ! चरणाम्बुजं तव नतोऽस्मि दण्डवत् ।। २७ 

इत्युक्त्वा तमसौ ननाम मुदितः कृष्णं स्वबुद्धिप्रदं तं वर्णो सममानयत्स भगवान्स्वाभाविकप्रश्रयः ।
पुत्रावन्तिक आजुहाव च वृषस्तस्याग्रपश्चाद्बवौ यास्यन् दीर्घपथं प्रदातुममलं तज्ज्ञानचिन्तामणिम् ।२८ 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
धर्मवरप्रदाननामाऽष्टत्रिंशोऽध्यायः ।। ३८ ।।