एकोनचत्वारिंशोऽध्याय

सुव्रत उवाच - 

तावुपेत्याशु तं नत्वा भ्रातरौ बुद्धिमत्तरौ । निषेदतुस्तं निकषा धर्मः प्रोवाच तौ ततः ।। १ 

श्रृणुतं मद्वचः पुत्रौ ! रहस्यं वच्मि वां हितम् । तच्चावधार्यं हृदये प्रतीतिर्यदि वाचि मे ।। २ 

उपासनां यस्य कुर्मो वयं श्रीराधिकापतेः । स एव हरिनामाऽयं वर्तते सोदरो हि वाम् ।। ३ 

अतोऽद्यदिनतो भक्तिः स्वधर्मेण यमैः सह । निश्छद्माऽस्यैव कर्तव्या स्थेयं वाचि सदाऽस्य च ।। ४

कृष्णार्चायाः प्रतिदिनं यस्याः कुर्मश्च पूजनम् । साप्यस्यैवेति हि ज्ञात्वा पूजनीया यथाविधि ।। ५ 

युवाभ्यामुपदिष्टौ प्राङ्मन्त्रौ कृष्णस्य यौ मया । तावस्यैवेति विज्ञाय जपनीयावभीष्टदौ ।। ६ 

भजतोरादरादेनं मदाज्ञावर्तमानयोः । भविष्यति हि वां श्रेय इहामुत्र च निश्चितम् ।। ७ 

उन्मूलयिष्यति ह्येष कल्यधर्मैधितान्भुवि । असुरान्मानुषाकारानशस्त्रोऽपि मनीषया ।। ८ 

पोषयिष्यति सद्धर्मं ग्लपितं भुवि दुर्जनैः । प्रवर्तयिष्यति कृष्ण भक्तिं चैष विशेषतः ।। ९ 

आचार्यत्वं च युवयोः स्थापयित्वा कुले निजम् । स्वकीयं धाम परमं प्रयास्यति महायशाः ।। १० 

अस्याश्रितास्ततः सर्वे कृष्णस्यास्यैव नित्यदा । प्रतिमां पूजयिष्यन्ति यास्यन्त्येवात्मवाञ्छितम् ।। ११

एतन्निबद्धमर्यादास्थिताश्चास्य समर्चकाः । भक्ताश्चतुर्वर्गसिद्धिं यास्यन्त्येव निजेप्सिताम् ।। १२ 

इत्युक्तवति धर्मे तौ प्रहृष्टौ तत्क्षणे हरिम् । प्रणम्य प्रोचतुः कृष्ण! तव स्वः पाहि नौ सदा ।। १३ 

तावुवाच हरिः प्रीतः कृष्णमेवादराद्युवाम् । भजतं तेन तोक्ष्यामि तिष्ठन्तौ पितृशासने ।। १४ 

ततस्तौ तु तमेव श्रीकृष्णं भेजतुरादृतौ । तज्ज्ञानं त्विच्छया तस्य क्वाचित्कमभवत्तयोः ।। १५ 

हर्युपास्त्युपदेशोऽयमेकादश्या निशोऽन्तिमे । यामे सुताभ्यां धर्मेण कृतोऽथार्कोदयोऽभवत् ।। १६ 

हरिः पप्रच्छ पितरं भ्रात्रादीनां च श्रृण्वताम् । यत्तेऽभीष्टं हृदि स्यात्तद्ब्रूहि कर्तास्म्यहं पितः ।। १७ 

तमुवाच तदा धर्मः पूर्णकामोऽस्म्यहं हरे ! । नास्ति भक्तौ तु ते तृप्तिः कृष्ण ! क्वचन मे हृदि ।। १८ 

देहपातावधि ततः कर्तुमिच्छामि तामहम् । किन्त्वशक्तेन पूजादि कर्तुं शक्यं मया न वै ।। १९ 

अतोऽहं श्रोतुमिच्छामि श्रीमद्बागवतं हरे ! । सार्थं सप्ताहविधिना तत्सम्पादय मे द्रुतम् ।। २० 

इत्यभीष्टं पितुः श्रुत्वा हरिर्हृष्टः प्रशस्य तम् । तदैव कारयामास मण्डपादि यथाविधि ।। २१ 

रामप्रतापेन तत आनयामास वैष्णवम् । यथोक्तलक्षणं विप्रं पौराणिकमुरुश्रुतम् ।। २२ 

आपद्धर्मानुसारेण धर्मः कृत्वाऽथ नैत्यकम् । विधिं विधिज्ञो विदधे पुराणश्रवणस्य च ।। २३ 

प्रत्यक्षकृष्णेऽपि सति मर्यादास्थापनाय सः । प्रातिष्ठिपत्कृष्णमूर्तिं सप्ताहावधि पौरटीम् ।। २४ 

आदौ निर्विघ्नतासिद्धयै समभ्यर्च्य गणाधिपम् । कुलदेवं मारुतिं च ततः कृष्णमपूपुजत् ।। २५ 

गायत्रीकृष्णमन्त्राणां जपार्थं ब्राह्मणान्विदः । वव्रे पञ्चैव तेभ्योऽदाद्वासोभूषासनादि च ।। २६ 

वृतास्ते तज्जपं चक्रुः सप्ताहानि यथाविधि । धर्म उच्चासने विप्रं तमुपाविविशत्ततः ।। २७ 

आदौ श्रीमद्बागवतं सम्पूज्य ब्राह्मणं ततः । पुपूज व्यासनाम्नैव श्रोतृविप्रांस्ततश्च सः ।। २८ 

ज्वरार्तिरपि मन्दाऽसीत्तस्य धर्मदृढस्थितेः । दिवा पुराणं शुश्राव समाधिं निशि चाप सः ।। २९ 

यथाविधि कथां नित्यं श्रृण्वतोऽस्य दिनानि षट् । ययुश्चतुर्थ्यां भृगुजे प्रातस्तामसमापयत् ।। ३० 

सम्पूज्य वाचकं तस्मै स्वर्णमुद्रासहस्रकम् । ददौ भूषाश्च वासांसि हैमं सिंहं च गां शुभाम् ।। ३१ 

रामप्रतापमुख्यैस्तं गीतवादित्र निःस्वनैः । सहैव प्रापयामास हयारूढं स्वकेतनम् ।। ३२ 

वृतेभ्यो ब्राह्मणेभ्योऽथ ददावुत्तमदक्षिणाम् । होमं तु देशकालज्ञो जपात्मकमकारयत् ।। ३३ 

पूर्वा एव मिष्टान्नैस्तर्पयामास वाडवान् । विसर्जयामास च तान् दत्त्वा भोजनदक्षिणाम् ।। ३४ 

ज्वरार्तिरासीदधिकाऽथ तस्य रामप्रतापादिषु भुक्तवत्सु ।
शीघ्रं ततस्ते स्वजनाश्च सर्वे निषेदुरेत्यान्तिक एव तस्य ।। ३५ 

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे धर्मकृतपुत्रोपदेश श्रीमद्बागवतसप्ताहश्रवणकथननामैकोनचत्वारिंशोऽध्यायः ।। ३९ ।।