।। चत्वारिंशोऽध्यायः ।।

सुव्रत उवाच - 


पितुः शरीरशैथिल्यं दृष्ट्वा पुत्रा विचक्षणाः । आसन्नमृत्युतां तस्य निश्चिक्युर्हृदि भूपते ! ।। १ 

विधिज्ञान्वैदिकान्विप्रान्समाहूय हरिर्द्रुतम् । अन्तकर्मविधिं सर्वं पितरं तैरकारयत् ।। २ 

प्रायश्चित्तं षडब्दं ते देहशुद्धयर्थमादितः । प्रत्याम्नायेन हेम्नाऽशु विधिना तमकारयन् ।। ३ 

पर्षदोऽनुमते तत्र वपनं प्रागकारयन् । शिखाकक्षोपस्थवर्जं स्ननं दशविधं ततः ।। ४ 

पट्टाङ्गनाभिः सहितं रुक्मिण्यादिभिरष्टभिः । कृष्णमष्टदले विप्रा वेद मन्त्रैस्तमार्चयन् ।। ५ 

प्रायश्चित्ताङ्गगोदानं दानानि च ततो दश । गोभूमितिलमुख्यानि विप्रेभ्यस्तमदापयन् ।। ६ 

आमान्नानां तथा प्रस्थान् सहस्रं साज्यदक्षिणान् । अदापयंस्तथोत्क्रान्तिधेनुं वैतरणीं ततः ।। ७ 

ऋणधेनुं पापधेनुं मोक्षधेनुं च तेन ते । अदापयन्मुख्यकल्पमाश्रित्यैव नराधिप ! ।। ८ 

एकदण्डाकृतिश्वासं तं दृष्ट्वाऽथ सुता द्रुतम् । तीर्थोदकेन स्न्पयाञ्चक्रुः साश्रुविलोचनाः ।। ९ 

गोमयेनोपलिप्तायां भुव्यास्तीर्य कुशांस्तिलान् । विकीर्य बहुलांस्तत्रोदक्शिरस्कमसूषुपन् ।। १० 

ततः सङ्कीर्तनं ह्येव नाम्नां कृष्णस्य तेऽखिलाः । चक्रुरुच्चैर्बन्धुजनाः सर्वदुःखापहारिणाम् ।। ११ 

पुरःस्थिते भगवति स्थिरीकृतविलोचनः । धर्मोऽप्यनन्यभावोऽथ जहौ सद्यः कलेवरम् । १२ 

हरेः प्रसादान्निर्मुक्तो दुर्वासः शापबन्धनात् । सद्य एव तनुं दिव्यां प्रपेदे च सुखेन सः ।। १३ 

ततो भक्तयादिभिः साकं कृष्णं तं पुत्ररूपिणम् । सेवमानः सदा तस्य पार्श्व एवावसत्स वै ।। १४ 

परासुं तं विलोक्याथ सुतास्तत्रोचितं व्यधुः । रोदनस्य निषिद्धत्वात्तदानीं धैर्यमास्थिताः ।। १५ 

वपनं कारयित्वा ते सस्नुः शीतोदकेन च । पितृमेधविधानेन तत्कर्माऽचरदग्रजः ।। १६ 

ऊर्ध्वोच्छिष्टादिदोषाणां सर्वथैव ह्यसम्भवात् । प्रायश्चित्तं तन्निमित्तं नाचचार स वै पितुः ।। १७ 

अधिकारस्य सिद्धयर्थं पितुरुत्तरकर्मणि । स्वयं तु कृच्छ्रप्रतिमास्वर्णसङ्कल्पमाचरत् ।। १८ 

घृतेनाभ्यज्य संस्नप्य प्रेतं वसनमेककम् । परिधाप्य सितं नूत्नं प्राग्वदस्वापयच्च सः ।। १९ 

अन्यच्च तादृशं वासस्तमाच्छादयदुत्तमम् । ततश्चन्दनपुष्पस्रग्गुलालादिभिरार्चिचत् ।। २० 

छिद्रेषु सप्तसु स्वर्णखण्डकान् स मुखादिषु । प्रक्षिप्योत्क्रमणश्राद्धं मृतस्थाने चकार च ।। २१ 

शवनाम्ना तत्र पिण्डमपसव्येन स त्वदात् । द्वारदेशे पान्थनाम्ना चैकोद्दिष्टविधानतः ।। २२ 

प्रेतं वंशकटे बद्ध्वा वाससाच्छादितं ततः । पुत्राः सपिण्डाः स्वजनाः प्राचीं निरहरन् दिशम् ।। २३

ज्येष्ठो रामप्रतापस्य नन्दरामाभिधः सुतः । मृत्स्थाल्यां लौकिकं वह्निं गृहीत्वाऽचरदग्रतः ।। २४ 

ददौ पिण्डं तृतीयं च चत्वरे खेचराख्यया । रामप्रतापः प्रेताय विश्रामे भूतसंज्ञाया ।। २५ 

चलन्ति स्माग्रतो वृद्धाः कनिष्ठाः पथि ताननु । स्त्रियस्तु चत्वरान्तं तमनुव्रज्य ययुर्नदीम् ।। २६ 

श्मशाने शवमास्थाप्य चितास्थानेऽग्रजः सुतः । स प्रेताय ददौ पिण्डं विधिवत्साधकाख्यया ।। २७

कृतायां संस्कृतभुवि तुलस्यश्वत्थचन्दनैः । चितायां स्थापिते वह्नौ क्रव्यादेऽथ जुहाव तम् ।। २८ 

स्न्पितं घृतलिप्तं तमेक वस्त्रमवाङ्मुखम् । हुत्वाऽर्धदग्धे तस्मिश्च सतिलाज्याहुतीर्ददौ ।। २९ 

पुत्रादयस्ततो गाढं रुरुदुस्तत्र बन्धवः । दग्धप्रायेऽथ तस्मिंस्ते ह्युत्तस्थुः सशुचो नृप ! ।। ३० 

अपश्यन्तश्चिताभूमिं पुरस्कृत्य कनीयसः । सरयूं ते ययुः सर्वे स्मरन्तस्तं महानदीम् ।। ३१ 

तत्र प्रक्षाल्य वासांसि तान्येव परिधाय च । शिखामुन्मुच्य सस्नुस्ते वृद्धपूर्वं प्रविश्य ताम् ।। ३२ 

सकृन्निमज्ज्यैत्य तटं प्राचीनावीतिनश्च ते । तत्राचम्य शिखां बद्ध्वादक्षाग्रानाददुः कुशान् ।। ३३ 

ददुर्जलाञ्जलींस्त्रींस्त्रीन्प्रेतायापाङ्मुखाश्च ते । पितृतीर्थेन सतिलान् वदन्तो गोत्रनामनी ।। ३४ 

पुत्राः सपिण्डाश्च तथा सोदका इतरेऽपि च । ददुर्दाघाञ्जलीनित्थं तस्मै सम्बन्धिनो नराः ।। ३५ 

पुनः स्नत्वाऽथ वासांसि परिधायेतराणि ते । उपाविशन्नदीतीरे शोकव्याकुलितान्तराः ।। ३६ 

शोकापनोदं बहुधा चक्रुस्तेषां पुरौकसः । वृद्धा धीराः पुराणज्ञा नृपते ! प्राङ्निदर्शनैः ।। ३७ 

कनीयसः पुरस्कृत्य तत ईयुर्गृहाञ्छनैः । अपश्यन्तः पराक् सर्वे पङ्क्तीभूता अधोमुखाः ।। ३८ 

स्नत्वा स्त्रियस्तु शोकार्तास्तेषामग्रत आलयम् । आययुर्मिलिताः सर्वा रुदन्त्यस्ते च ता अनु ।। ३९ 

विदश्य निम्बपत्राणि द्वारि स्थित्वा ततोऽनलम् । वृषभादींश्च संस्पृश्य विविशुस्ते निकेतनम् ।। ४० 

आश्वास्य रुदतः पुत्रान् सपिण्डाद्यास्ततो नराः । स्वं स्वं गृहं ययुः सर्वे ताः स्त्रीश्चाश्वास्य तत्स्त्रियः ।। ४१

शोधयित्वा गृहं पुत्रा ब्रह्मचर्यपरायणाः । दशाहमासताक्षारलवणाशाश्च भूशयाः ।। ४२ 

सन्त्यक्तसर्वभोगाश्चहास्यहर्षादिवर्जिताः । प्रत्यहं भगवग्दीतां शुश्रुवुश्च दिनात्यये ।। ४३ 

दशाहानि सपिण्डाश्च सोदकास्तु दिनत्रयम् । पालयामासुराशौचमस्पृशन्तोऽन्यमानवान् ।। ४४ 

गोत्रसम्बन्धरहिता अपि शिष्याश्च तस्य ये । आशौचं पालयामासुः पक्षिणीं सर्व एव ते ।। ४५ 

अर्घ्यान्तां मानसीं सन्ध्यां कुशवारिविवर्जिताम् । चक्रुस्तेऽर्घ्यं तु प्रत्यक्षं ददुः सूर्याय सूतके ।। ४६ 

कृष्णपूजां हृदा चक्रुर्द्दशा तत्प्रतिमेक्षणम् । विदधुस्तत्र ते नित्यं वैश्वदेवं तु नाचरन् ।। ४७ 

वर्णिव्रतस्थो निजनित्यकर्म हरिस्तु सर्वं विधिवच्चकार । पाकं स्वहस्तेन पृथग्विधाय स्वानस्पृशन्वै बुभुजेऽनुघस्रम् ।।४८ 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
धर्मदेहोत्सर्गे तद्दाहविधिनामा चत्वारिंशोऽध्यायः ।। ४० ।।