सुव्रत उवाच -
द्वितीयेह्नि चिताभस्म सरय्वां प्राक्षिपन्नृप । अस्थिसञ्चयनश्राद्धं ज्येष्ठः पुत्रश्चकार सः ।। १
आममृत्पात्र एकस्मिन् पयोऽन्यस्मिंस्तु वारि सः । भृत्वान्तरिक्षे निदधौ प्रदोषे प्रेततुष्टये ।। २
प्रेतपिण्डान् दश ददौ नवश्राद्धं स चाचरन् । अष्टादशाऽशीःप्रमुखान् पदार्थांस्तत्र नाऽचरत् ।। ३
दशमेऽह्निसपिण्डाश्च पिण्डदानादनन्तरम् । केशश्मश्रवादिवपने पुराद्बहिरकारयन् ।। ४
तत्र बन्धुजनान्सर्वान्भोजयामास पिण्डदः । देहशुद्धिं विधायाथ चकारैकादशाहिकम् ।। ५
श्रीकृष्णपूजां तत्रादौ कृत्वा श्राद्धं च वैष्णवम् । चकार तर्पणं विष्णोः सामभिर्वैष्णवैः स च ।। ६
श्राद्धान्येकादश ततः पञ्च विष्णुगणस्य च । ब्रह्मादीनां च पञ्चानां चकारेत्थं स षोडश ।। ७
वृषोत्सर्गं ततः कृत्वा महैकोद्दिष्टमेव च । विष्णुमभ्यर्च्योदकुम्भं ददौ सान्नं ससूत्रकम् ।। ८
शय्यां सोपस्करां प्रादात्त्रयोदश पदानि च । विप्रेभ्योऽष्टविधान्येव सह दक्षिणया स च ।। ९
गोरथाश्वमहिष्यादिदानानि प्रददौ तथा । श्राद्धानि षोडश ततस्तन्त्रेणैव चकार सः ।। १०
तत्राद्यं मासिकं श्राद्धं ततोऽसावूनमासिकम् । द्वितीयमासिकं चक्रे ततस्त्रैपक्षिकं नृप ! ।। ११
तृतीयमासिकं चाथ तुर्यमासिकमाचरत् । ततः पञ्चममास्यं च ह्यूनषाण्मासिकं च सः ।। १२
षष्ठमास्यं ततः श्राद्धं चक्रे सप्तममासिकम् । ततोऽष्टमं मासिकं च श्राद्धं नवममासिकम् ।। १३
ततो दशममास्यं च तथैकादशमासिकम् । चक्रे द्वादशमास्यं च स ऊनाब्दिकमन्तिकम् ।। १४
ततश्च भोजयामास स्वज्ञातीन् ब्राह्मणांस्तथा । सपिण्डीकरणश्राद्धं द्वादशेऽह्नि चकार च ।। १५
निःश्वासधेनुं तत्रादात्पिण्डसंयोजनादनु । मोक्षधेनुं च दत्त्वाऽसौ वामदेव्यमगापयत् ।। १६
ब्राह्मणान्भोजयामास दिने तत्र सहस्रशः । चतुर्विधानिसोऽन्नानि स्वज्ञातींश्चेतरानपि ।। १७
त्रयोदशेऽह्नि सम्पूज्य विष्णुं च श्रवणादिकान् । दत्त्वा दानानि बहुधा पाथेयश्राद्धमाचरत् ।। १८
ततः स्नत्वा विशुद्धेऽसौ परिधाय च वाससी । गणेशं पूजयित्वैव कारयामास मङ्गलम् ।। १९
तदा तस्मै धर्मशिष्याः पौराश्च शतशोऽपरे । ददुर्धनं बहुविधं नूतनान्यंशुकानि च ।। २०
तत्रापि भोजयामास दिने विप्रान्सहरुशः । सोऽन्यांश्चागन्तुकांल्लोकान्प्राप्तांश्चान्नार्थिनोऽखिलान् ।। २१
सान्निध्याद्धि हरेस्तस्मिन्नौर्ध्वदैहिककर्मणि । कृतेऽपि मुख्यकल्पेन न्यूनं किमपि नाभवत् ।। २२
रामप्रतापः ससुत इच्छारामश्च सस्त्रियौ । जपतः स्म कृष्णमन्त्रं तौ पितुर्लब्धमन्वहम् ।। २३
हरौ सहोदरेऽथासीत्कृष्णधीर्विस्मृता तयोः । इच्छयैव प्रभोस्तस्य प्रव्रजिष्यत आलयात् ।। २४
कर्मकाण्डपथमित्थमीश्वरो भूतले प्रतिहतं तु नास्तिकैः ।
सम्प्रवर्तयति स स्म भूपते ! तातमेधविधिचारणेन वै ।। २५
।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
धर्मौर्ध्वदेहिकक्रियाविधिनामैकचत्वारिंशोऽध्यायः ।। ४१ ।।