।। द्विचत्वारिंशोऽध्यायः ।। ४२ ।।

सुव्रत उवाच - 


यथाविधानं संवृत्ते पितुरुत्तरकर्मणि । ऐच्छत्ततः प्रव्रजितुं नीलकण्ठो नराधिप ! ।। १ 

स्नेहं स्वस्मिन्स्वबन्धूनां सखीनां च पुरौकसाम् । सर्वाधिकं स विज्ञाय स्वप्रव्रज्यान्तरायकम् ।। २ 

तच्छान्तये गणाधीशं सर्वविघ्ननिवारणम् । दूर्वादिभिः स सम्पूज्य तुष्टाव प्रयताञ्जलिः ।। ३ 

विघ्नेश ! विघ्नचयखण्डननामधेय ! श्रीशङ्करात्मज ! सुराधिपवन्द्यपाद ! ।
दुर्गामहाव्रतफलाखिलमङ्गलात्मन्विघ्नं ममापहर सिद्धिविनायक ! त्वम् ।।४ 

सत्पद्मरागमणिवर्णशरीरकान्तिः श्रीसिद्धिबुद्धिपरिचर्चितकुङ्कुमश्रीः ।
दक्षस्तने वलयितातिमनोज्ञाशुण्डो विघ्नं ममापहर सिद्धिविनायक ! त्वम् ।।५

पाशाङ्कुशाब्जपरशूंश्च दधच्चतुर्भिर्दोर्भिश्च शोणकुसुमस्रगुमाङ्गजातः ।
सिन्दूरशोभितललाटविधुप्रकाशो विघ्नं ममापहर सिद्धिविनायक ! त्वम् ।।६

कार्येषु विघ्नचयभीतविरिञ्चिमुख्यैः सम्पूजितः सुरवरैरपि मोदकाद्यैः ।
सर्वेषु च प्रथममेव सुरेषु पूज्यो विघ्नं ममापहर सिद्धिविनायक ! त्वम् ।।७

शीघ्राञ्चनस्खलनचुञ्चुरवोर्ध्वकण्ठस्थूलोन्दुरुद्रवणहासितदेवसङ्घः ।
शूर्पश्रुतिश्च पृथुवर्तुलतुङ्गतुन्दो विघ्नं ममापहर सिद्धिविनायक ! त्वम् ।।८

यज्ञोपवीतपदलम्भितनागराजो मासादिपुण्यददृशीकृतऋक्षराजः ।
भक्ताभयप्रददयालयविघ्नराजो विघ्नं ममापहर सिद्धिविनायक ! त्वम् ।।९ 

सद्रत्नसारततिराजितसत्किरीटः कौसुम्भचारुवसनद्वय ऊर्जितश्रीः ।
सर्वत्र मङ्गलकरस्मरणप्रतापो विघ्नं ममापहर सिद्धिविनायक ! त्वम् ।।१०

देवान्तकाद्यसुरभीतसुरार्तिहर्ता। विज्ञानबोधनवरेण्यतमोपहर्ता ।
आनन्दितत्रिभुवनेशकुमारबन्धो! विघ्नं ममापहर सिद्धिविनायक! त्वम् ।।११


सुव्रत उवाच - 

इति संस्तूय विघ्नेशं तं प्रणम्य च भूपते ! । शुचेर्दशम्यां शुक्लायां प्रवव्राज हरिः प्रगे ।। १२ 

अपृष्ट्वैवाग्रजादीन्स्वान्बन्धून् पौरं च कञ्चन । एकाकी निर्ययौ गेहान्नित्युस्ननच्छलेन सः ।। १३ 

उदङ्मुखश्चचालादौ तपश्चर्यासमुत्सुकः । सम्प्राप्य सरयूतीरमतिष्ठद्विजने क्षणम् ।। १४ 

साच्छादनं तु कौपीनमुत्तरीयं मृगाजिनम् । बिभ्रद्दण्डं च पालाशं ब्रह्मसूत्रं सितं तथा ।। १५ 

काण्ठे दधानस्तुलसीकाष्ठजं मालिकाद्वयम् । सचन्द्रकोर्ध्वपुण्ड्रस्य ललाटे लक्षणं तथा ।। १६ 

जटां मौञ्जीं मेखलां च जपमालां कमण्डलुम् । भिक्षापात्रं वस्त्रखण्डं बिभ्रत्पानीयगालनम् ।। १७ 

शालग्रामशिलां बालमुकुन्दं चाल्पसम्पुटे । निधाय वाससाऽवेष्टय कण्ठे बिभ्रदपादुकः ।। १८ 

लघ्वीं च पुस्तिकां सारचतुष्कस्य सुरक्षिताम् । मधूत्थाक्तसुवस्त्राद्यैः स्कन्धे बिभ्रदतिप्रियाम् ।। १९

एवंविधः स्थितो धार्मिरुत्तितीर्षुर्महानदीम् । जनदर्शनभीतश्च तर्याः प्रत्यैक्षतागमम् ।। २० 

तावत्तत्रासुरः कश्चिदायाद्विकृतविग्रहः । प्रागन्योन्यायुधहतासुरशेषश्च तद्रिपुः ।। २१ 

मृतानामपि स स्वानां प्रियं कर्तुं समुद्यतः । असहायं स्थितं सद्यो नद्यां चिक्षेप तं रुषा ।। २२ 

पतितः स महानद्यां धीरो रक्षन् स्वपुस्तिकाम् । तरति स्मातिभीमां तां यादोभिरतिभीषणैः ।। २३ 

आ रवेरुदयात्तां तु सार्धयामत्रयं तरन् । प्राप पारं ततस्तस्यां योजनत्रितयात्परम् ।। २४ 

यथा स्वमसुरो विद्यान्मृतमित्याचरंस्तथा । उह्यमानो हिकल्लोलैर्निश्चेष्टोऽदृश्यतेव सः ।। २५ 

चेष्टाविरहितत्वात्तं मृतमित्यवगत्य सः । तन्मायामोहितो दैत्यस्ततोऽगादतिहर्षितः ।। २६ 

यत्र तत्र स्थितान् स्वीयांस्तत्स्वकर्मावदच्च सः । केचन्मृतं हरिं तत्र मेनिरे न च केचन ।। २७ 

योगैश्वर्येण कृष्णस्तु न प्राप्तोऽम्बु पराभवम् । ततो ययावुत्तरस्यां कृष्णवर्णं हिमालयम् ।। २८ 

धर्मस्य कुलदेवोऽथ हनूमांश्चिरजीवनः । कृताह्निको हरिं द्रष्टुं देवगेहमुपागमत् ।। २९ 

स हि श्रीरामचन्द्रस्य दृढभक्तोऽनुवासरम् । तद्दर्शनं करोति स्म स्वेष्टदेवं विदन् हि तम् ।। ३० 

अपश्यंस्तत्र तं पुर्यां विविच्य च समन्ततः । अप्राप्य सरयूतीरे मुहूर्तं ध्यानमाचरत् ।। ३१ 

धर्मभक्ती पोषयितुमुच्छेत्तुं तद्विरोधिनः । चरितुं भारते वर्षे निर्गतं तमवैत्ततः ।। ३२ 

विदित्वा तत्स्थितिं तूर्णमुत्प्लुत्य सरयूं ततः । बालरूपधरः कृष्णं प्राप्य नत्वाऽग्रतः स्थितः ।। ३३ 

तमुवाच हरिः प्रीतः प्रणम्याहो कपीश्वर ! । कुलदेवोऽसि नः साक्षात्कुतोऽत्र सहसाऽगतः ।। ३४

घोरारण्यं निर्गतस्य तपांसि तप्तुमिच्छतः । दर्शनं मङ्गलायैव जातं ते मम वाञ्छितम् ।। ३५ 

त्वन्नामोच्चारणादेव गृहाद्ग्रामान्तरं नृणाम् । व्रजतां कार्यसिद्धिः स्यात्तत्साक्षाद्दर्शनात्किमु ।। ३६ 


हनुमानुवाच - 

जानामि त्वामहं साक्षादिष्टदेवं मम प्रभो ! । सीतापतिं रामचन्द्रं पुरेऽत्र वरदं च मे ।। ३७ 

दिने यत्रागतोऽसि त्वं प्रभो ! छुप्पयसः पुरे । ततः प्रभृत्यनुदिनं करोमि तव दर्शनम् ।। ३८ 

नित्यकर्म विधायाद्य सङ्गवान्ते त्वदीक्षणम् । कर्तुं धर्मगृहं यातो न दृष्टस्तत्र वै भवान् ।। ३९ 

ततस्त्वद्ध्यानयोगेन ज्ञात्वा तव चिकीर्षितम् । अत्रागतो दिदृक्षुस्त्वां कृपां कुरु मयि प्रभो ! ।। ४० 

मानुष्यनाटयमासाद्य यन्मां वदसि भक्तवत् । तत्ते शोभनमेवास्ति दास एवास्मि ते त्वहम् ।। ४१ 

साकं त्वयाऽगमिष्यामि यद्याज्ञा तव तर्हि तु । सेवां वने करिष्यामि नित्यं तव तपस्यतः ।। ४२ 


श्रीभगवानुवाच - 

मारुते! भक्तराजं त्वां जानाम्यनुपमं दृढम् । स्मरामि त्वां यदा तर्हि त्वयाऽगम्यं ममान्तिके ।। ४३ 

तीव्रवैराग्ययुक्तस्य ह्युदासीनस्य सर्वतः । साम्प्रतं रोचते नैव सङ्गः कस्यापि मे वने ।। ४४ 

स्वस्थानं याहि यर्हीच्छा तवापि स्यान्मदीक्षणे ।तर्हि ध्यानेन बुध्वा मामुपेया यत्र तत्र भो ! ।। ४५ 


सुव्रत उवाच - 

इत्युक्तस्तेन हनुमांस्तदेकान्तिकभक्तराट् । तदिङ्गितज्ञाः सहसा तं प्रणम्य तिरोऽभवत् ।। ४६ 

क्वचित्क्वचित्तदीक्षायै वनमभ्येत्य दूरतः । प्रणम्य तं तिरोधत्ते क्वचित्तिष्ठति चाग्रतः ।। ४७ 

घोरेऽरण्ये क्वचित्तं च समाधिस्थमवेत्य सः । भूतहिंस्रादितो रक्षां करोत्येवाभितश्चरन् ।। ४८ 

गते मरुत्सुते सोऽथ मासेनैव महाव्रती । प्रापद्धिमगिरिं कृष्णं व्यतीत्य बहुशोऽटवीः ।। ४९ 

उपत्यकायां तस्याद्रेर्दिनैः कतिपयैरसौ । भूरिव्यालमृगाकीर्णं प्रविवेश महावनम् ।। ५० 

सिंहैर्व्याघ्रैर्वराहैश्च महिषैश्च महागजैः । गवयै रुरुभिश्चैव व्याप्तं कस्तूरिकामृगैः ।। ५१ 

बहुपुष्पफलानम्रनानाभूरुहजातिभिः । सरिद्बिश्च सरोभिश्च युक्तं नानापतत्रिमिः ।। ५२ 

अतीव सुकुमाराङ्गो वन्यकन्दफलाशनः । निरुपानत्पदो धीरो बालोऽपि हिंस्रनिर्भयः ।। ५३ 

आत्मदर्शी दीर्घदर्शी कुशाग्रमतिरस्मयः । विचचार वने तत्र स्वधर्मं परिपालयन् ।। ५४ 

वनवासं दुःखरूपमपि गेहसुखाधिकम् । मनुत्ते स्म विरक्तत्वाद्ग्राम्यसौख्यभृशारुचिः ।। ५५ 

भरताख्यानपाठाद्यैः प्राप्तासङ्गमतिर्हरिः । पुलहस्याश्रमे कर्तुं तपांसि भृशमुत्सुकः ।। ५६ 

एकदा विस्मृताध्वाऽसौ दिशमाबध्य सञ्चलन् । अलब्धफलतोयादिर्व्यत्यक्रामद्दिनत्रयम् ।। ५७ 

तुरीयेऽह्नि निरन्नत्वाच्चरतः शिथिलं वपुः । धरण्यां न्यपतत्तस्य वाताहत इव ध्वजः ।। ५८ 

स मुहूर्तं तथाभूतः शनैरुत्थाय लोचने । उन्मील्य सर्वतः पश्यन् नदीं दूरादवैक्षत ।। ५९ 

शनैश्चलन्नवापत्तां हिमवत्पादनिःसृताम् । आपद्धर्मानुसारेण तत्र नैत्यकमाचरत् ।। ६० 

पपौ तोयं ततस्तस्याः प्राप किञ्चन निर्वृतिम् । तत्तीरस्थवटाधस्ताद्विशश्राम स भूपते ! ।। ६१ 

स्वप्रेष्ठस्य हरेः कृच्छ्रं वनवाससमुद्बवम् । अशक्नुवन्निव द्रष्टुं विवेशाम्बुनिधिं रविः ।। ६२ 

सोऽथसायंतनीं सन्ध्यामुपासामास दर्शयन् । प्राप्तानां तीव्रवैराग्यं नैष्ठिकानां स्थितिं प्रभुः ।। ६३ 

अन्धकारो महानासीत्तत्र कृष्णाष्टमीनिशि । नादृश्यन्ताभ्रसन्तत्या छन्नान्यृक्षाणि चानघ ! ।। ६४ 

शिवा घूकाश्च शार्दूलाः शब्दयन्त इतस्ततः ।भ्रमन्ति स्म च झिल्लीनां शब्दास्तीक्ष्णाश्च जज्ञिारे ।। ६५ 

आसन्घनरवा भीमाः सहैव स्तनयित्नुभिः । परितः प्रस्फुरन्ति स्म विद्युतश्च मुहुर्मुहुः ।। ६६ 

भूतावल्यो भ्रमन्त्यश्च दूराद्ददृशिरे मुहुः । भयङ्करैव सा रात्रिर्धीराणामप्यभून्नृप! ।। ६७ 

हरिस्तु राधापतिमेव चित्ते दृढासनः स्वं परिचिन्तयानः । प्रापत्समाधिं गतभीः प्रशान्त आसीद्वपुर्भानविहीनवत्सः ।। ६८ 

तत्राजगाम सहसा धृतसूक्ष्मरूपस्तदर्शनोत्सुकमनाः पवनाङ्गजन्मा ।
नत्वा तमाश्रितसमाधिमवेक्ष्य तत्तु स्थानं भयङ्करमवेत्य स तत्र तस्थौ ।।६९

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
हरिप्रव्रज्यायां हिमाद्रिविचरणनामा द्विचत्वारिंशोऽध्यायः ।। ४२ ।।