त्रिचत्वारिंशोऽध्याय

सुव्रत उवाच - 

महानिशायां प्राप्तायां भैरवस्तत्र भूतराट् । आययौ सहसा राजन् ! कृतान्त इव देहिनाम् ।। १ 

पिशाचैर्डाकिनीभिश्च भैरवीयोगिनीगणैः । वृतस्त्रिशूलपाणिश्च जटिलोऽरुणवीक्षणः ।। २ 

दीपिकानां सहस्रेण दृश्यस्तालद्रुमोपमः । व्यात्तास्यस्तीक्ष्ण दंष्ट्रोग्रो मषीवर्णो भयङ्करः ।। ३ 

मनुष्यपशुपक्ष्यादिमांसतृप्तः खरारवः । दन्तान्तरगतांश्चर्वन् पशूञ्जीवत एव च ।। ४ 

रक्ताञ्चितसमग्राङ्गः प्रेतैरनुगतोऽसितैः । स्कन्धासक्ताहृतमृगवराहमहिषादिभिः ।। ५ 

तद्वटद्रुमवाससश्च तद्वनप्राणिभोजनः । विहारार्थं च भक्ष्यार्थं गतः पुनरुपागतः ।। ६ 

तस्य तस्यानुगानां च घोरशब्देन भूरिणा । सन्त्रस्ता दुद्रुवुर्वन्याः शार्दूलाद्या इतस्ततः ।। ७ 

तच्छब्दं मारुतिः श्रुत्वा चक्रे किलकिलध्वनिम् । तत्रसुस्तेन ते सर्वे व्याप्तेन ककुभश्च खम् ।। ८ 

हरिस्तेन जजागार प्रेतपं च ददर्श तम् । तथाप्युनुद्विग्नमनाः स्वस्थस्तस्थौ स निर्भयः ।। ९ 

तं दृष्ट्वा सगणः क्रुद्धो भैरवो भीमदर्शनः । प्राहास्मत्स्थानगं ह्येनं भूत ! भक्षय सत्वरम् ।। १० 

प्रेत ! मारय शूलेन रक्षः ! खादास्य चामिषम् । पिब डाकिनि ! शीघ्रं त्वं कवोष्णं रक्तमस्य च ।। ११

वदन्नित्थं तत्समीपमागतो हन्तुमुद्यतः । गणा जिघृक्षवस्तं च चक्रुर्घोरं रवं मुहुः ।। १२ 

तावत्स्वरूपं जग्राह महागिरिनिभं कपिः । पुच्छेनावेष्टय शतशः पिशाचान्सोऽहनत्पदा ।। १३ 

मृतप्राया बभूवुस्ते किन्तु स्वाशुभकर्मभिः । नारका इव दीर्णाङ्गा न म्रियन्ते स्म भूमिप ! ।। १४ 

भैरवं दृढमुष्टयैव ताडयित्वा महारवम् । चकार भूयः कीशेन्द्रो दर्शयन्विकृताननम् ।। १५ 

उद्वमन्रक्तमास्येन न्यपतत्स हतो भुवि । गण्डशैल इवागेन्द्राच्चूर्णयञ्छतशः स्वकान् ।। १६ 

पुनस्ताडनभीतोऽसौ शनैर्दूरमगात्ततः । दुद्रुवुश्च गणास्तस्य त्रस्ताः सर्व इतस्ततः ।। १७ 

तत्र तत्र निलीयैव तस्थुस्ते सकलां निशाम् । कपीन्द्रोऽस्ति गतो वेति वीक्षमाणाः प्रतिक्षणम् ।। १८

ध्यानस्थितस्तु भगवान् गूढैश्वर्यः स्वमायया । नैवाब्रवीत्किञ्चिदपि व्युत्तस्थौ चारुणोदये ।। १९ 

स्नत्वाह्निकं कुर्वतेऽस्मै फलान्याहृत्य मारुतिः । सुस्वादूनि ददौ जानन्नुपोषणचतुष्टयम् ।। २० 

हरिः कृताह्निकस्तस्य प्रशंसन्नुपकारिताम् । भुक्त्वा तानि जलं पीत्वा गन्तुमैच्छत्ततोऽग्रतः ।। २१ 

हनूमन्तं परिष्वज्य बालमूर्तिधरं ततः । प्राह रक्ष्या वयं काले त्वयाऽसि कुलदेवता ।। २२ 

मारुतिस्तमुवाचाथ मा मां मोहय मायया । दासोऽस्मि तव हे राम! धर्मनन्दन ! मां स्मरेः ।। २३ 

उक्त्वेत्थमन्तर्धिमगात्प्रीतः पवननन्दनः । उदङ्मुखो हरिः प्रायात्प्राणिश्रेयस्कृदीक्षणः ।। २४ 

यत्र रात्रिः पतेन्मार्गे तत्रैवोवास निर्भयः । यथालब्धफलान्नादि भुञ्चानः क्व प्युपावसन् ।। २५ 

दिनैः कतिपयैः श्यामं तं व्यतीत्य हिमालयम् । अग्रे श्वेतं तमेवाद्रिं ददर्श गगनस्पृशम् ।। २६ 

रौप्यवर्णं द्रुमैर्हीनं पशुपक्ष्यादिवर्जितम् । विचित्रधातुखनिभिर्युक्तं विततकन्दरम् ।। २७ 

तपस्विजनसंसेव्यं सेवितं देवतागणैः । क्वचिच्च हेमवर्णं तं ददर्श गिरिमद्बुतम् ।। २८ 

उपत्यकास्वेव चरंस्तस्यासावेकदा नृप ! । विस्मृताध्वा नदीं काञ्चित्प्राप तत्पादनिःसृताम् ।। २९ 

तां क्वचिज्जानुदघ्नोदां क्वाप्यगाधजलां हरिः । प्रतिपूरं तरन् यातो ददर्शाग्रे नगद्वयम् ।। ३० 

एकस्तस्याः पश्चिमे च प्रागेकश्चोन्नतो गिरिः । तयोरन्तर्नदीमूलमवैक्षत महागुहाम् ।। ३१ 

ततोऽध्वानं स नापश्यत्सूर्यश्चास्तमुपागमत् । अथ प्राक्पर्वते कश्चित् पुमान् दृष्टोऽमरोपमः ।। ३२ 

स हि मूर्तो हिमगिरिस्तं कञ्चित्सिद्धयोगिनम् । दैवादमार्गगं ज्ञात्वा तत्र मार्गमदर्शयत् ।। ३३ 

प्रविश्यास्यां गुहायां त्वं नद्यामेव व्रजच्छनैः । अग्रे वर्त्म प्राप्स्यसीति तमुक्त्वाऽभूत्तिरो नगः ।। ३४ 

तच्छ्रुत्वा प्रचलंस्तेन पथा भूरितमोभृता । निशः प्रथमयामान्ते बहिर्मार्गमवाप सः ।। ३५ 

तत्रगाधजलो दृष्टो हदस्ते नातिविस्तृतः । तटे तस्यावसत्तां तु निशां क्षुधित एव सः ।। ३६ 

प्रातस्ततः प्रचलितस्तृतीयेऽह्नि महापथम् । प्रापेत्थं स व्यतीयाय दुर्गस्थानानि भूरिशः ।। ३७ 

इत्थं ह्यमानुषकृतिर्नृप ! वर्णिराजः पश्यन्नुमाजनयितुः स विचित्रशोभाम् ।
प्रापाश्रमं कतिपयैर्दिवसैर्मनोज्ञां ब्रह्मात्मजस्य पुलहाख्यमुनेः प्रसिद्धम् ।।३८

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
भैरवगणपराजयपुलहाश्रमागमननिरूपणनामा त्रिचत्वारिंशोऽध्यायः ।।४३।।