चतुश्चत्वारिंशोऽध्यायः

सुव्रत उवाच - 


तं ददर्शाश्रमं कृष्णो दर्शनादेव पावनम् । तपः सिद्धिप्रदं तूर्णं श्रयणीयं मुमुक्षुभिः ।। १ 

यत्रात्मभक्तवात्सल्यादिच्छारूपेण नित्यदा । साक्षात्कृष्णः सन्निहितो भगवान्भवति ध्रुवम् ।। २ 

आर्षभो भरतो यत्र तपश्चक्रे पुरा नृप ! । महापुण्या चक्रनदी परितो यत्र वर्तते ।। ३ 

तत्र स्नत्वा महानद्यां नित्यकर्म विधाय च । स चक्रे मुक्तनाथस्य विष्णोर्दर्शनपूजने ।। ४ 

भरतस्य तपःस्थाने स्वावासमकरोत्ततः । तद्वदाराधनं विष्णोरकार्षीच्च महातपाः ।। ५ 

मृगार्भे दयया तस्य विष्णूपासन आस यः । विघ्नं स्मरंस्तं च मुहुरसङ्गो नित्यमास सः ।। ६ 

सन्त्यक्तबाह्यसङ्गोऽपि पुरञ्चनकथां मुहुः । चिन्तयन्नान्तरस्यापि बुद्धयादेः सङ्गमुज्जहौ ।। ७ 

असङ्गं निर्गुणं शुद्धं प्रकाशं नित्यमक्षरम् । सच्चिद्रूपं स्वमात्मानं मन्यते स्माजमव्ययम् ।। ८ 

तत्रैकेन पदा तिष्ठन्नूर्ध्वबाहुद्वयो जपन् । गायत्रीं वेदजननीं तपोऽतप्यत दुष्करम् ।। ९ 

अर्कमण्डलमध्यस्थं भगवन्तं हिरण्मयम् । शङ्खचक्रधरं देवं दध्यौ हृदि तपश्चरन् ।। १० 

त्रिकालं गण्डकिस्ननं मुक्तानाथस्य पूजनम् । विदधत्प्रत्यहं चक्रे तपः फलदलादिभुक् ।। ११ 

तस्य विप्रबटोर्बाल्ये दृष्ट्वा भूरितरं तपः । विस्मयं प्रापुरत्यर्थं बहवोऽपि तपस्विनः ।। १२ 

किं कायाधव एष किं ध्रुव उत स्कन्दः कुमारोऽथवा ।दत्तो वा ऋभुरेष किन्नु भगवान्नारायणर्षिर्नरः ।।

दुःसाध्यानि नृभिस्तपांसि कुरुते पूर्णेन्दुशान्तद्युति-रित्याश्चर्यवशात्तपस्विमुनिभिस्तेपे तपस्तर्कितः ।। १३ 

तपस्यन्तं च तं दृष्ट्वा तत्स्वरूपविदश्च ये । ते तु ग्लानिं परां प्रापुः स्वप्रेष्ठकृच्छ्रदर्शनात् ।। १४ 

सदा सहचरौ तस्य भक्तिधर्मौ तपःप्रियौ । तपः कुर्वति तस्मिन् स्म तिष्ठतस्तस्य पार्श्वयोः ।। १५ 

ऊर्ध्वबाहोरेकपदा तिष्ठतोऽतिकृशस्य च । भक्तिर्दक्षे वृषो वाम आस्तां भूपातशङ्कया ।। १६ 

निर्दम्भमेव मुनिवदादित्यमुपतिष्ठतः । तुर्मास्यं व्यतीयाय साश्चर्यान्कुर्वतो मुनीन् ।। १७ 

एकादश्यां प्रबोधन्यामथ साक्षाद्दिवाकरः । उपेयायान्तिकं तस्य द्विभुजो दिव्यविग्रहः ।। १८ 

तं विलोक्य निजाभ्याशे साक्षाद्बास्करमागतम् । प्रणम्य साष्टाङ्गमसौ बद्धाञ्जलिपुटोऽब्रवीत् ।। १९ 

जय! जय! जगदात्मन्भास्कराहस्कर! त्वं सकलनिगममूर्ते! ब्राह्मणाराधनीय ! ।
भृशतमसि निमग्नं त्वां विना जीवलोकं सुखयितुमिह को वा शक्नुयात्तन्निरस्य ।। २० 

जगदवननिरोधोत्पत्तिहेतुस्त्वमीशो हरिहरविधिमूर्तिः सर्वलोकप्रकाशः ।
अभिमतफलदातोपासकेभ्यः कृपालो! नमनपरनृणामप्यामयौघं निहंसि ।।२१

अनलहिमकराद्याः सन्ति तेजस्विनो ये त इह भवत एव प्राप्य तेजश्चरन्ति ।
तव वरद! किलैतन्मण्डलं प्राप्नुयुर्ये पुनरिह भववार्धौ ते न मज्जन्ति मुक्ताः ।। २२ 

इह तव किरणस्यास्यैककस्यापि तेजः सहितुममृतपेष्वप्यण्डकोशे न कोऽपि ।
प्रभवति किमु तर्हि ब्रह्मणस्तेंऽशुमालिन् ! सकलकिरणतेजस्तं नमामीश्वरं त्वाम् ।।२३

चिरमिह मम चित्तेऽभीप्सितं दर्शनं ते दुरितनिचयमूलोत्कृन्तनं प्राप्य चाद्य ।
उदय इव सुधांशोरर्णवस्यातिहर्षो हृदयकुहरमध्ये माति नैवाब्जबन्धो!।।२४


सुव्रत उवाच - 

इति स्तुवन्तं तं प्राह सूर्यनारायणो वचः । हरे! तुभ्यं प्रसन्नोऽस्मि वरं मद्वरयेप्सितम् ।। २५ 

ततो हरिर्ययाचे तं वरं स्वस्याभिवाञ्छितम् । भगवन्! यदि तुष्टोऽसि तर्हि देहि मदीप्सितम् ।। २६ 

तमोपहस्त्वमेवेति तमः सर्वं ममान्तरम् । हर्तुमर्हसि देवेश! दुःखसंसृतिकारणम् ।। २७ 

कामः क्रोधश्चलोभाद्या इन्द्रियाणि च वर्णिनः । महारयः सन्ति तेभ्यस्त्वया कार्यं ममावनम् ।। २८ 

तपःस्थैर्यमकामत्वं सर्वेन्द्रियजयस्तथा । नैष्ठिकब्रह्मचर्याद्या गुणाः स्युः सर्वदा मयि ।। २९ 

यदा यदा स्मरेयं त्वामहं स्वहृदये प्रभो ! । तदा तदेदृशेनैव त्वया देयं स्वदर्शनम् ।। ३० 

एतावदेव मेऽभीष्टं देह्यन्यन्मायिकं त्वहम् । सुखं किमपि नेच्छामि त्वत्तो मायाविमोचकात् ।। ३१ 


सुव्रत उवाच - 

ओमित्युक्त्वा ततः सूर्यस्तं प्रणम्याब्रवीद्वचः । साक्षात्कृष्णस्त्वमेवासि जानामीति हरे! हृदि ।। ३२ 

तथापि नरनाटयेन मामित्थं याचसि प्रभो! । यान् याचसि गुणांस्ते तु सन्ति सिद्धाः सदा त्वयि ।। ३३

त्वद्बक्तेष्वपि ते कृष्ण ! त्वत्प्रतापाद्बवन्ति हि । किं पुनस्त्वयि कल्याणसग्दुणाकर ईश्वरे ।। ३४ 

इत्युक्त्वा हरिमानम्य प्रीतः सोऽन्तर्दधे रविः । हरिशर्मा प्रीतमनास्तपश्चर्यां समापयत् ।। ३५ 

तत्क्षेत्रमाहात्म्यमतिप्रशंसंस्तूर्णं तपःसिद्धिविधातृतादि ।
सन्मानितो भूरि तपस्विवर्यैरुवास तद्द्वादशिकादिनं सः ।। ३६ 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
सूर्यनारायणप्रसादननामा चतुश्चत्वारिंशोऽध्यायः ।। ४४ ।।