पञ्चचत्वारिंशोऽध्याय

राजोवाच - 

हरौ प्रव्रजिते गेहाद्बन्धवस्तस्य सुव्रत ! तस्मिन्विवृद्धप्रेमाणस्तच्चित्ताः किमकुर्वत ।। १ 

श्रृण्वन्कृष्णकथा ब्रह्मन्मधुराश्च मनोहराः । रसज्ञो नैव तृप्यामि यथा मर्त्योऽमृतं पिबन् ।। २

सुव्रत उवाच - 

यदा स भगवान् गेहं त्यक्त्वा प्रव्रजितो नृप ! । तदा तस्य वयस्यास्तं द्रष्टुं तग्दृहमाययुः ।। ३ 

अदृष्ट्वा तत्र ते नद्यां विचिन्वन्ति स्म तं पुरे । तस्योपवेशनस्थानं यद्यत्तत्तद्व्यलोकयन् ।। ४ 

तत्राप्यदृष्ट्वाऽन्यत्रापि ते गवेष्य सुहृत्तमम् । यदा न लेभिरे तर्हि रुदन्तस्तग्दृहं ययुः ।। ५ 

अग्रजं तस्य सङ्गत्य तमुदासीनमास्थितम् । नीलकण्ठो भवद्भ्राता गतः क्वापीति चोचिरे ।। ६ 

तदा रामप्रतापोऽपि गेहे गेहे वने च तम् । तथेच्छाराममुख्याश्च विचिक्युर्बन्धवोऽखिलाः ।। ७ 

साश्रुनैत्राश्च ते सर्वे यदा नैक्षन्त तं क्वचित् । तदानीं त्वग्रजस्तस्य जातश्चिन्तातुरो भृशम् ।। ८ 

हे कृष्ण! हे हरे! बन्धो! हरिकृष्ण! ममानुज! । हे नीलकण्ठ! हे वर्णिन्नित्युचैराजुहाव तम् ।। ९ 

महादुःखाब्धिपतितः शोचन् स्वगृहमेत्य सः । विललापोच्चकैः स्नेहाद्भ्रातर्भ्रातरितीरयन् ।। १० 

हा मां त्यक्त्वा गतः कासौ भ्राता कमललोचनः । तस्य भोजनवेलापि गता नूनं हि नैत्यकी ।। ११ 

क्व गत्वा तस्य वीक्षेयं मुखं चन्द्रमनोहरम् । श्रृणुयां वा क्व गत्वाहं तदीयं वचनामृतम् ।। १२ 

इत्थं स ब्राह्मणः स्नेहादत्यर्थं विललाप ह । चरित्राणि स्मरंस्तस्य निनायाहानि दुःखतः ।। १३ 

इच्छारामादयस्ते च बन्धवो ज्ञातयस्तथा । तमेव नित्यं शोचन्तो निन्युः कृच्छ्रेण वासरान् ।। १४ 

स्त्रियः सुवासिनीमुख्याः शोचन्त्यस्तमहर्निशम् । कृच्छ्रेणैवाहानि निन्युर्हरेरथ कथां श्रृणु ।। १५ 

मुक्तनाथं नमस्कृत्य तत्रत्यांश्च तपस्विनः । ततो विनिर्ययौ प्रातर्वर्णीन्द्रो दक्षिणामुखः ।। १६ 

बहून्यरण्यानि नगान्सरितश्च सरांसि सः । अत्यक्रामदविज्ञाततत्त्वो बालमुनिर्नृप ! ।। १७ 

हिमालयोपत्यकायां विचरन् गहनं महत् । प्राप सिंहैश्च शार्दूलैर्गजैर्मत्तैर्भयङ्करम् ।। १८ 

वराहैर्महिषैः क्रूरैराकीर्णं गवयादिभिः । महीरुहैश्च बहुभिर्महद्बिरतिसङ्कुलम् ।। १९ 

दुःष्प्रवेश्ये मनुष्याणां विचरंस्तत्र गह्वरे । यत्र सायं तत्र वसन्प्राप बुट्टोलपत्तनम् ।। २० 

तत्र राजा पर्वतीयो महादत्ताभिधः सुधीः । आवास्य स्वालयं तं च सिषेवे बहुभावतः ।। २१ 

भगिनी तस्य मायाख्या स्नेहेन परिचर्यया । सिषेवे परया भक्तया तमात्मश्रेयसे नृप ! ।। २२ 

तयोः प्रसन्नो भगवान्दत्त्वा संसृतिमोचनम् । ज्ञानं स्वस्य ततः प्रायाद्वनमेव तपःप्रियः ।। २३ 

मुक्तनाथान्निर्गतस्य प्राप्तस्यैतद्वनं हरेः । वसतस्तत्र तत्रास्य कालः संवत्सरोऽत्यगात् ।। २४ 

वने घोरे स विचरन् स्वधर्मं सम्यगाचरन् । महान्तमेकं न्यग्रोधं प्राप्तवान्रम्यदर्शनम् ।। २५ 

तडागेनातिमहता पूर्वे नद्यास्तथोत्तरे । शोभितं च नलस्तम्बैर्महद्बिरभितो वृतम् ।। २६ 

परितो गजयूथैश्च चरद्बिरभिनादितम् । तं पश्यंस्तत्र सोऽपश्यन्महायोगिनमेककम् ।। २७ 

ऐणमासनमासीनं जटायज्ञोपवीतिनम् । साच्छादनं च कौपीनं वसानमपरिग्रहम् ।। २८ 

शालग्रामार्चनं कृत्वा गीतापठन उद्यतम् । गोपालनाम्ना विख्यातं ननाम विनयेन तम् ।। २९ 

योगीन्द्रः सोऽपि तं वीक्ष्य गाढस्नेहमिवादरात् । उत्थाय सद्योऽतिप्रीत्या परिरभ्याप निर्वृतिम् ।। ३०

गाढमित्रे इवोभौ तावास्तामन्योन्यदर्शनात् । उवास तत्र वर्णीन्द्रो योगीन्द्रेणातिमानितः ।। ३१ 

मानयंस्तं गुरुत्वेन बालस्वामी स योगिनम् । अशिक्षत्सकलं योगं योगशास्त्रं तथाखिलम् ।। ३२ 

आदराच्छिक्षयामास यमांश्च नियमान्स तम् । आसनानि विचित्राणि प्राणायामकलास्तथा ।। ३३ 

प्रत्याहारं धारणां च ध्यानं च मनसा हरेः । समाधिमङ्गभूतं स शिक्षयामास चाङ्गिनम् ।। ३४ 

सकृत्प्रोक्तं हि तत्सर्वं कालेनाल्पेन स प्रभुः । यथावदेव जग्राह गुरुं विस्मापयंश्च तम् ।। ३५ 

नेतीं च द्विविधां बस्तिं कौञ्जरीं नौलिकां तथा । शङ्खप्रक्षालनाद्याश्च क्रिया आदावसाधयत् ।। ३६ 

ततः क्रमेण चाष्टाङ्गयोगं स समसाधयत् । गुरूपदिष्टमार्गेण कालेनाल्पेन भूपते! ।। ३७ 

योगशास्त्रं तु निखिलं श्रुतिमात्रेण सोऽग्रहीत् । तेनातिविस्मितो योगी तं मेने कृष्णसन्निभम् ।। ३८ 

स्वस्यातिनिःस्पृहस्यापि तस्मिन्प्रेमातिशायिताम् । दृष्ट्वा मतिमतां श्रेष्ठो मेने तं गुरुमेव सः ।। ३९ 

परस्परं गुरुधियौ सेवमानौ परस्परम् । कन्दमूलफलाहारावूषतुस्तत्र वत्सरम् ।। ४० 

सहमानौ हिमं वातं वर्षं चातपमन्वहम् । स्नतौ त्रिषवणं तीव्रं चक्राते तप एव तौ ।। ४१ 

तदाश्रमसमीपेऽथ घोषो गोपैरकार्यत । महिषीर्गाश्चारयद्बिरायातैश्च यदृच्छया ।। ४२ 

तत्रागत्य प्रतिदिनं शार्दूलाः पञ्चषान् पशून् । अभक्षयंस्ततो गोपा बभूवुः खिन्नचेतसः ।। ४३ 

योगीन्द्रं प्रार्थयामासुस्ततस्ते रक्ष नः पशून् । योगिराज! समर्थोऽसि नाम स्वं सार्थकं कुरु ।। ४४ 

अशक्तः पशुरक्षायां सोऽथ चिन्ताकुलोऽभवत् । ततस्तमाह वर्णीन्द्रश्चिन्तां त्यज महामुने ! ।। ४५ 

शङ्खं वादय तेनैव नायास्यन्त्यत्र हिंसकाः । तव योगप्रतापेन गमिष्यन्त्यद्य ते त्वितः ।। ४६ 

इत्युक्तः सोऽपि योगी तं मानयधर्मनन्दनम् । तदैव कृपया दध्मौ शङ्खं दीर्घनिनादिनम् ।। ४७ 

स नादो यावति क्षेत्रे व्याप्तास्तावति कश्चन । हिंस्रो नायाच्च तन्नस्थो जगामान्यत्र सर्वशः ।। ४८ 

निर्भयं तदभूत्स्थानं साधोस्तस्य प्रसादतः । ऊषुः सुखं सपशवो गोपालाः प्राप्तविस्मयाः ।। ४९ 

स चापि विस्मितो योगी प्रतापं तस्य तं हृदि । नन्नलौकिकं मेने पुरुषं तं नराकृतिम् ।। ५० 

वर्णिराट् निवसंस्तत्र प्रत्यहं शुद्धचेतसा । अध्यायमेकं गीताया द्वितीयं सुविचारयन् ।। ५१ 

स्वरूपमात्मनः शुद्धमसाधारणलक्षणैः । तत्त्वतो निश्चिकायाथ स्वानुभूत्या च बुद्धिमान् ।। ५२ 

प्रत्याहारेणेन्द्रियाणां तथान्तःकरणस्य च । प्राणस्य वृत्तीः सकलास्तस्मिन्मुहुरधारयत् ।। ५३ 

एवमभ्यसतस्तस्य कालेन कियतात्मनि । बभूव ध्यानयोगस्य पक्वता नृपसत्तम ! ।। ५४ 

ततोऽस्य हृदयेऽखण्डमिन्द्रियादिप्रकाशकम् । आत्मज्योतिर्महद्राजन्सर्वकालमदृश्यत ।। ५५ 

एवं विशुद्धमात्मानमक्षरब्रह्मणा सह । ऐक्येन भावयन्नित्यं ब्रह्मभूत इवाभवत् ।। ५६ 

योगमेतं स्वमित्रं तं प्रार्थयन्तमशिक्षयत् । ब्रह्मभूयं गतस्तेन ततो गोपालयोग्यपि ।। ५७ 

वर्णीन्द्रं च हरिं साक्षान्नारायणमृषीश्वरम् । अवैत्तदिच्छयैवासौ भक्तिं तस्मिंस्ततोऽकरोत् ।। ५८ 

दध्यौ तमेव हृदये सिद्धयोगो दृढासनः । अत्यन्तविस्मृतिं प्राप ततोऽसौ वपुषो मुनिः ।। ५९ 

विहाय भौतिकं देहं दिव्यदेहेन सोऽनघ ! । गोलोकं प्रययौ सद्यो हरेस्तस्य प्रसादतः ।। ६० 

वर्णिराजः सिद्धयोगस्ततश्चाकस्मिकक्रियः । सख्युः संस्थाविधिं कृत्वा प्राङ्मुखः प्रययौ ततः ।। ६१ 

अखण्डब्रह्मरूपस्थो नासाग्रस्थिरवीक्षणः । धनुर्मुक्तः शर इव प्रयाति स्माध्वनि द्रुतम् ।। ६२ 

देहानुसन्धानहीनश्चिन्तयन्कृष्णमेकलः । आदिवाराहतीर्थं स प्राप्यावात्सीद्दिनत्रयम् ।। ६३ 

यत्र यत्र स ययौ बटुवर्यस्तत्र तत्र नृपते! जनतायाः । आगतस्य हि गुरोरिव नाकात्तस्य दर्शनमहोत्सव आसीत् ।। ६४

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
योगाभ्यासविधाननामा पञ्चचत्वारिंशोऽध्यायः ।। ४५ ।।