षट्चत्वारिंशोऽध्यायः

सुव्रत उवाच - 


ततः स वङ्गदेशेषु प्रायात्सीरपुरं बटुः । सिद्धवल्लभनामासीद्राजा यत्रातिधार्मिकः ।।१

तेनातिप्रार्थितोऽवात्सीच्चातुर्मास्यं महामुनिः । तद्दुर्ग एवानुसवं सेव्यमानो हि तेन सः ।।२

गोपालदासनामैकः साधुः शीलगुणान्वितः । सेवायां प्रत्यहं तस्य वर्तते स्मातिभावतः ।।३

सिद्धतामसमन्त्राश्च तत्रान्ये सिद्धसंज्ञाकाः । आसन् सहस्रशः क्षुद्रदेवतोपासका अपि ।।४

तत्रैके वीतरागाख्याः केचिदासंश्च वर्णिनः । एके परमहंसाख्या यतिसंज्ञाश्च केचन ।। ५ 

भैरवोपासकाः केचित्केचित्काल्या उपासकाः । केचिच्च योगिनीभक्ता वीरविद्याविशारदाः ।। ६ 

कौपीनमात्रवसनाः सिद्धास्तत्रापरिग्रहाः । आसन्नेकशतं मुख्यास्तपश्चर्यारता नृप ! ।। ७ 

तान्सुच्छायोज्झिते स्थाने वासयामास भूपतिः । तत्रैवामुं नीलकण्ठं पूजयित्वा न्यवासयत् ।। ८ 

प्रचुराज्यसितोपेतैर्भक्ष्यैर्भोज्यैश्च तान् नृपः । प्रत्यहं तोषयामास तत्तदीप्सितवस्तुभिः ।। ९ 

पट्टकानासनार्थं च ददौ तेभ्यः पृथक् पृथक् । स्वसिद्धतां दर्शयन्तो न्यूषुस्तेऽपि यथासुखम् ।। १० 

तत्तद्दाम्भिकसिद्धत्वं मुमुक्षुं तं धरापतिम् । हरेर्विजिज्ञापयिषोरिच्छयेत्थमभून्नृप ! ।। ११ 

प्रावृट्काले तत्र वृष्टिः प्रतिवर्षाधिकाऽभवत् । आसारैः पीडिता आसंस्ते तु सिद्धाभिमानिः ।। १२ 

घनाघना ददृशिरे स्तनन्तः स्तनयित्नुभिः । भयङ्कराभिर्विद्युद्बिर्भीषणाः सुरवर्त्मनि ।। १३ 

घोरघोषातिवातेन वज्रनिर्घोषणैस्तथा । दिवानिशं चातिवृष्टया खिन्नास्ते सिद्धतां जहुः ।। १४ 

शनै शनैस्ततश्चक्रू रात्रौ रात्रौ पलायनम् । क्वचित्पञ्च क्वचित्सप्त वेपमाना हिमानिलैः ।। १५ 

प्रत्यहं राजभृत्याश्च तच्चर्यां ददृशुः स्थिताः । दिनैः कतिपयैः सर्वे सिद्धाश्चक्रुः पलायनम् ।। १६ 

एकमेवावशिष्टं तं वर्णिराजं नृपः सुधीः । दृष्ट्वा सत्यं तमेवैकं सिद्धं मेने न चापरम् ।। १७ 

अत्यासारातिवाताभ्यामप्यनाकुलमेव तम् । बहुधा मानयामास राजा पौराश्च सर्वशः ।। १८ 

पलायितांस्तु तन्सिद्धान्स्वदुर्गगृहवासिनः । इतरांश्च नृपो मेने ग्राम्यैः साधारणान्किल ।। १९ 

तदा शाक्तादयः सिद्धास्तस्योत्कर्षं विलोक्य ते । अत्यमर्षज्वलग्दात्राश्चक्रुस्तं हन्तुमुद्यमम् ।। २० 

समन्त्रमाषक्षेपाद्यैः स्वेष्टदेवोदितैरपि । अभिचारैश्च तं हन्तुं न शेके कोऽपि मान्त्रिकः ।। २१ 

सर्वे प्रयासा विफलास्तेषां तस्मिन्हि वर्णिनि । शस्त्रघाता इवाकाशे बभूवुर्न्राकृतीश्वरे ।। २२ 

तं तु हन्तुमशक्तैस्तैर्माषमुष्टिर्दुरात्मभिः । साधौ गोपाल दासाख्ये तत्सेविनि निचिक्षिपे ।। २३ 

मृतप्रायस्तदैवाभूल्ललज्जिह्वः स मूर्च्छितः । मुखनिर्यत्फेनजालो निश्चेष्टो न्यपतद्बुवि ।। २४ 

सहस्रशो जना द्रष्टुं तमागच्छन्नितस्ततः । अप्रतीकारमेवाहुर्नृपाद्यास्तमुपद्रवम् ।। २५ 

सिद्धाख्यांस्तांस्ततो राजा प्राह भो मन्त्रशास्त्रिण ! । उपायः क्रियतामस्य भवद्बिः सिद्धयोगिभिः ।। २६

त ऊचुरप्रतीकार्यो भवत्यस्य ह्युपद्रवः । नीलकण्ठो महान् सिद्धः करोत्वस्य चिकित्सितम् ।। २७ 

मात्सर्यादेवमुक्ते तैरपि राज्ञार्थितः स तु । सद्यस्तत्पार्श्वमागत्य तदवैच्छाक्तदुष्कृतम् ।। २८ 

शनैरवादीत्तत्कर्णे कृष्णस्याष्टाक्षरं मनुम् । तावत्स सहसोत्तस्थौ नृपते! निरुपद्रवः ।। २९ 

विस्मयं परमं प्रापुस्तदा सर्वे जना अपि । साक्षाच्छ्रीकृष्णरूपं तं कृष्णभक्तं च मेनिरे ।। ३० 

येन क्षिप्तो माषमुष्टिः साधावस्मिन्पुमान्स तु । स्वकृतेनाभिचारेण सद्य आसीत्तथाविधः ।। ३१ 

सिद्धास्तस्य प्रतीकारं यावद्बुद्धिबलोदयम् । चक्रुस्तथापि नो शेकुर्गतदर्पास्ततोऽभवन् ।। ३२ 

प्रणम्य वर्णिराजं ते प्रार्थयित्वा च भूरिशः । तदन्तिकमुपानिन्युर्गुणग्रहणशीलिनम् ।। ३३ 

तत्र गत्वा स भगवान् कृपानिधिरुदारधीः । ईक्षयोत्थापयामास सद्यः कण्ठासुमेव तम् ।। ३४ 

ततोऽतिविस्मितैः सिद्धैरर्च्यमानः स तैः पुनः । स्वस्थानमेत्य न्यवसत्स्तूयमानो नृपेण च ।। ३५ 

ततोऽतिविस्मितो राजा ज्ञात्वा साक्षात्तमीश्वरम् । प्राप तच्छिष्यतां प्रीत्या सकलत्रसुतः सुधीः ।।३६

पुरे वित्तादिलोभेन सिद्धास्ते यं यमार्दयन् । स स तस्य प्रतापेन सद्योऽभून्निरुपद्रवः ।। ३७ 

पौरैर्भृशं दीयमानं धनं किमपि नाग्रहीत् । न वस्त्रं वाहनं वापि स तु सर्वत्र निःस्पृहः ।। ३८ 

ततो राज्ञा दीयमानाः स्वर्णमुद्राः सहस्रशः । वस्त्राणि च न सोऽगृाज्जानन्मायामयं हि तत् ।। ३९ 

एतस्मिन्नन्तरे तत्र तैलिङ्गः कश्चन द्विजः । आयान्निःस्वः कुटुम्बी च वेदशास्त्रपुराणवित् ।। ४० 

धार्मिकः स ददौ तस्मै महादानानि भूपतिः । मातङ्गकालपुरुषलवणादीनि भूरिशः ।। ४१ 

विप्रः स गौरवर्णोऽपि महादानप्रतिग्रहात् । कृष्णवर्णोऽभवत्सद्यो लोकेऽपि गर्ह्यतां ययौ ।। ४२ 

तथाविधः स स्वदोषशान्त्यर्थं हरिमेव तम् । लोकप्रसिद्धमाश्रुत्य तमेव शरणं ययौ ।। ४३ 

स दृष्ट्वा दुर्दशां तस्य विप्रस्य करुणानिधिः । कर्णेऽवदत्कृष्णमन्त्रं पापेभ्यो सोऽप्यमुच्यत ।। ४४

सद्यः स पूर्वरूपोऽभूत्तग्दुणानेव वर्णयन् । स्वदेशमगमद्धृष्टो विस्मितो धरणीपते ! ।। ४५ 

अशेषयोगीन्द्रतपस्विसिद्धवीर्याधिकां विभ्रदपीह शक्तिम् ।
अनन्यसिद्धं निजसाधुभावं नोद्रिच्यते स्म प्रथयन् हरिः सः ।। ४६ 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
सिद्धाभिमानिगुरुपराजयनामा षट्चत्वारिंशोऽध्यायः ।। ४६ ।।