सप्तचत्वारिंशोऽध्याय

सुव्रत उवाच - 

चातुर्मास्ये व्यतीतेऽथ सिद्धा देशान्तरं ययुः । नारायणोऽपि तैः साकं ययौ राज्ञा समर्चितः ।। १ 

देव्याः समीपे कामाक्ष्याः कञ्चिद्ग्र्राममुपेत्य ते । आरेभिरे बहिर्वाटयां पाकं कर्तुं पृथक् पृथक् ।। २

सिद्धांस्तानागताञ्छुत्वा महाकाल्या उपासकः । तावत्तत्रागमत्कश्चित्तत्रत्यो ब्राह्मणो महान् ।। ३ 

स हि पूर्वं स्वधर्मस्थो निगमोक्तक्रियादरः । विद्वान्स्वदारनिरत आसीच्छीलगुणान्वितः ।। ४ 

स चैकदा शाक्तसङ्गात्कुलार्णवमशेषतः । आगमं वाचयामास सद्यःफलनिदर्शनम् ।। ५ 

तदा तस्य रुचिस्तस्मिन्नासीदुःसङ्गदोषतः । तदुक्ताचारसक्तोऽभूत्कौलसङ्गप्रियस्तथा ।। ६ 

ततस्त्यक्त्वा स्वधर्मादीनासीच्छाक्ताग्रणीश्च यः । सिद्धेश्वराभिमानी स तत्रायात्प्रज्वलन् क्रुधा ।। ७ 

सुरापानमदाघूर्णरक्ताक्षः पललाशनः । कुलाष्टकस्त्रीगुह्याङ्गक्षालनाम्बुपिबः सदा ।। ८ 

दधत्त्रिशूलं हस्ते च लौहं सिन्दूरचन्द्रकम् । विभ्रत्कूर्चे च सिन्दूरं कुलपुष्पाक्तकुङ्कुमम् ।। ९ 

मुण्डमालां महाकालीं स्मरन् कुल्लां मुहुर्हसन् । कुमारीपायुशुद्धयम्बुमार्जिताखिलगात्रकः ।। १० 

पानान्तचर्वितापक्वतिमिदुर्वासिताननः । पिबैक इति विख्यातः शिरोबद्धारुणांशुकः ।। ११ 

वृतः स्त्रीपुरुषैर्ग्राम्यैः स्वशिष्यैश्च स सत्वरम् । तत्राऽगत्याब्रवीत्सिद्धांश्चकितान्स्वेक्षयाऽखिलान् ।। १२

अहो कथं सिद्धसंज्ञां धूर्ता ! बिभृथ दुर्लभाम् । एक एव हि सिद्धोऽस्मि साम्प्रतं भुवि नापरः ।। १३

युष्मादृशा एव मया कृताः शिष्याः सहस्रशः । यैर्मानितं न मद्वाक्यं ते नीताश्च यमालयम् ।। १४ 

तस्माद्यूयं समुत्तार्य धारिता ब्रह्मसूत्रवत् । कण्ठस्रजोऽत्रमच्छिष्या भवताद्यैव भूतये ।। १५ 

अन्यथा वीरपुरुषा मदाज्ञामात्रकाङ्क्षिणः । भक्षयिष्यन्ति वः सर्वाञ्जीवतो विकटाननाः ।। १६ 

तदानीं तेऽखिलाः सिद्धाः प्राग्बहुश्रुततग्दुणाः । प्रत्यक्षं च तमालोक्य वेपन्ते स्म भयाद्बृशम् ।। १७ 

मरिष्यामोऽद्य वोन्मत्ता भविष्यामो हि तद्द्रुतम् । शिष्या अस्य भवेमेति प्रोचुस्ते च परस्परम् ।। १८

कण्ठस्रजस्त्रोटयितुमुद्यतानथ तान्स तु । दृष्ट्वा हरिर्नृप !प्राह सिद्धाः ! किं क्रियते न्विदम् ।। १९ 

चिन्ता कापि न कर्तव्या क्षुद्रोऽयं किं करिष्यति । शिष्यं करोतु मामादावयं युष्मास्ततः परम् ।। २०

आश्वस्ता अपि तेनेत्थं भीताः सिद्धास्तमब्रुवन् । नान्यसिद्धसमो ह्येष हन्याद्यत्त्वामपि क्षणात् ।। २१

पिबैको वर्णिनं दृष्ट्वा स्वकार्ये विघ्नरूपिणम् । दृष्टया करालया पश्यन्नाजुहाव तमन्तिके ।। २२ 

त्यक्त्वा पाकक्रियां सद्यो नीलकण्ठस्तदन्तिकम् । एत्य वीरासनेनैव तत्सन्मुखमुपाविशत् ।। २३ 

तत्पृष्ठतः सिद्धसङ्घास्तन्मुखार्पितदृष्टयः । निषेदुरथ विप्रोऽसौ स्वसामर्थ्यमदर्शयत् ।। २४ 

चिक्षेप मन्त्रितान्माषान् घनपत्रे वटद्रुमे । सोऽभूच्छुष्कः सद्य एव बिभ्युः सिद्धास्तदा भृशम् ।। २५ 

तथाप्यक्षुब्धमनसं सुस्थिरं वीक्ष्यं वर्णिनम् । माषमुष्टिं निचिक्षेप तस्मिन्नाशकरं द्विजः ।। २६ 

तथापि च यथापुर्वं स्थितं तं वीक्ष्य सोऽवदत् । कालभैरवमुष्टया त्वां हिन्मि देवं निजं स्मर ।। २७ 

इत्युक्तवन्तं दुर्बुद्धिं व्यात्तभीषणलोचनम् । वर्णिराट् प्राह का चिन्ता यावच्छक्तयुद्यमं कुरु ।। २८ 

ततो भैरववीरान्स प्रेरयामास तं प्रति । तं द्रष्टुमप्यशक्तास्ते प्रहर्तारं ववल्गिरे ।। २९ 

ततः पपात स क्षोण्यामुद्वमन्रुधिरं मुखात् । मुमूर्च्छ च क्षणान्तेऽथ प्रोत्तस्थौ क्रोधितो भृशम् ।। ३० 

कृत्वोदकेन गण्डूषान्वर्णिनं पुनरब्रवीत् । स्थिरो भवाद्य त्वां घ्नन्ति वीरा बाटुकभैरवाः ।। ३१ 

तदा स प्राह का चिन्ता प्रैरयत्तांस्ततश्च सः । तेऽपि तं नाशकन् द्रष्टुं पेतुः सद्यः प्रहर्तरि ।। ३२ 

पूर्ववत्पतितः सोऽथ पुनरुत्थाय चाब्रवीत् । वीरैरद्य महाकाल्या हन्मि त्वां सुस्थिरो भव ।। ३३ 

इत्युक्त्वा प्रैरयत्तांश्च तेऽपि तद्वीक्षणाक्षमाः । प्रहर्तर्येव न्यपतंस्तत आसीत्स पूर्ववत् ।। ३४ 

पुनः क्षणान्त उत्थाय क्रुद्धः स प्राह वर्णिनम् । वीरैर्हनूमतोऽद्य त्वां घातयामि स्थिरो भव ।। ३५ 

प्रैरयत्तांस्ततो विप्रस्ते तु तं वीक्ष्य मारुतेः । प्रेष्ठं नत्वा परावृत्य विप्रं भूमावपातयन् ।। ३६ 

मुखाद्वमन् स रुधिरं मूर्च्छितोऽतीव विह्वलः । नाशकत्पुनरुत्थातुं कण्ठं तदसवो ययुः ।। ३७ 

विवृत्तनेत्रं पतितं म्रियमाणं विचेष्टनम् । तं तत्सम्बन्धिनो वीक्ष्य विलेपुर्हा हता इति ।। ३८ 

रुदन्तस्ते नीलकण्ठं प्रणमन्तः पुनः पुनः । ऊचुः स्वामिन्दयां कृत्वा जीवयैनं त्वमीश्वरः ।। ३९ 

ईदृग्विगर्हितं कर्म पुनर्नायं करिष्यति । इत्युक्त्वा भूरिशो द्रव्यं निदधुस्तत्पदान्तिके ।। ४० 

आमान्नानि च सिद्धेभ्यः सर्वेभ्यः शोभनान्यदुः । ततो दयालुर्भगवान् कृपयैव तमैक्षत ।। ४१ 

तावत्स सद्य उत्थाय प्रणनाम तमादरात् । नैवं पुनः करिष्यामीत्युक्त्वागात्सान्वयो गृहम् ।। ४२ 

सिद्धास्ते प्राणदातारं तं ज्ञात्वा जगदीश्वरम् । सविस्मयं प्रणम्यैव प्रापुस्तच्छिष्यतां नृप ! ।। ४३ 

कृत्वा पाकं ततः सर्वे भोजनं च विधाय ते । तां रात्रिमूषुस्तत्रैव भजन्तो राधिकापतिम् ।। ४४ 

भग्नमानः पिबैकस्तु पादाहत इवोरगः । क्रोधाग्निदह्यमानाङ्गो नैव प्राप स निर्वृतिम् ।। ४५

कालभैरवमभ्यर्च्य महामांसैर्महानिशि । सुरां रक्तं पाययित्वा वर्णिनं हन्तुमैरयत् ।। ४६ 

करालवदनो नग्नो रक्ताक्षो मुक्तमूर्धजः । सोऽञ्जनाद्रिनिभः शूलं बिभ्रद्धरिमुपाययौ ।। ४७ 

तदन्तिके तु संस्थातुमशक्तो दूर एव सः । तस्थौ तं च स दृष्ट्वापि न बिभाय जहास च ।। ४८ 

उषःकालावधि क्रूरः स तस्थावथ वर्णिराट् । स्नतुं गच्छन्नालुलोके तमूर्ध्वकरशूलिनम् ।। ४९ 

तद्दृष्टया वेपमानाङ्गो भैरवोऽपि स तद्बयात् । चक्रे पलायनं तूर्णं हनिष्यन्प्रेरकं द्विजम् ।। ५० 

पलायमानं तं प्राह वर्णिराट् स कृपानिधिः । मावधीर्ब्राह्मणं तं त्वं तदन्नादा यतो वयम् ।। ५१ 

इत्युक्तः सोऽपि तद्वाक्यं प्राह विप्रमुपेत्य तम् । तदातिविस्मितः सोऽपि मेने साक्षात्तमीश्वरम् ।। ५२ 

अपकारं प्रकुर्वन्तमात्मानमुपकारिणि । धिक्कृत्य तस्य शिष्यत्वं प्राप्तवान्नृपसत्तम ! ।। ५३ 

ततोऽभवद्यथापूर्वं धर्मनिष्ठश्च पापभीः । वेदबाह्याञ्जहौ सद्यो ग्रन्थान्कौलागमादिकान् ।। ५४ 

श्रीमद्बागवतं गीतां प्रोक्तां भगवता च सः । पठञ्छृण्वन्राधिकेशं भेजे भक्तया विदन् हि तम् ।। ५५ 

देशान्तरे विचरितुं सिद्धानाज्ञाप्य तानथ । एकाक्येव हरिः प्रायान्नवलक्षाभिधं गिरिम् ।। ५६ 

इत्थं मानुषनाटनं स विदधद्बूपातिमर्त्यक्रियः कुर्वन्नुत्खननं महागुरुगताधर्मान्वयस्यौजसा ।
धर्मज्ञानविरागयोगसहितां श्रीकृष्णभक्तिं परां भूमौ सम्प्रथयंश्चचारसमुदे श्रीनीलकण्ठोऽस्तु नः ।। ५७

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
शाक्तपिबैकपराजयनामा सप्तचत्वारिंशोऽध्यायः ।। ४७ ।।