अष्टचत्वारिंशोऽध्यायः

सुव्रत उवाच - 


प्राप्य तं गिरिमारुह्य स ददर्शाद्बुतं विभुः । सिद्धानां नवलक्षाणां स्थानान्यैक्षत सर्वशः ।। १ 

नवलक्षस्थलीष्वग्निज्वाला अपि निरिन्धनाः । शीताम्बूनि च कुण्डानि तासूष्णाम्बूनि च क्वचित् । २

आश्चर्यमिति सम्पश्यन्सिद्धांस्तत्र स्थितानपि । ददर्श सकलान्मुक्तान्दुर्द्दश्यानपि योगिभिः ।। ३ 

नमश्चक्रे स तान्वीक्ष्य ते च तं योगिनां गुरुम् । आनन्दयन्स तान्भक्तांस्तत्रोवास दिनत्रयम् ।। ४ 

ध्यायन्तो वासुदेवं ते तमेव स्फुरितं हृदि । अक्षरे धाम्नि ददृशुर्भूरितेजसमद्बुतम् ।। ५ 

ततस्तमेव निश्चित्य कृष्णं धृतनराकृतिम् । प्रापुस्तपःफलं सर्वे भेजिरे तं ततो नृप ! ।। ६ 

वन्द्यमानोऽथ तैर्भक्तया गजमार्गेण पर्वतात् । उत्तीर्याधः स वडवाकुण्डं हरिरुपाययौ ।। ७ 

तत्र सङ्घं निःसरन्तं भुवो वाय्वग्निपाथसाम् । पश्यन्नुवास साश्चर्यं नीलकण्ठो दिनत्रयम् ।। ८ 

ततो ययावग्निदिशं गङ्गासागरसङ्गमम् । प्राप्य स्नत्वा च तत्रापि स उवास दिनत्रयम् ।। ९ 

समुद्रखाडीमुत्तीर्य नावागात्कपिलाश्रमम् । वृतं परिधिभूतेन सागरेण सुशोभनम् ।। १०

यत्रास्ते भगवान्साक्षात्साङ्खयाचार्यगुरुः स्वयम् । तपस्यन्कपिलो नित्यं त्रिलोक्याः श्रेयसे नृप ! ।११

स्वधर्मज्ञानवैराग्ययोगभक्तिनिरूपकम् । तं तत्रालोक्य परमां प्राप भक्तयात्मजो मुदम् ।। १२ 

ईशवत्सेवमानं स्वं गूढैश्वर्यमपि प्रभुम् । विवेद कपिलः कृष्णं ध्यानेनासीत्ततोऽतिमुत् ।। १३ 

धर्मस्थापन उद्युक्तं स्वेच्छयैव नराकृतिम् । प्रीत्यासिषेवेऽनुदिनमातिथ्येन यथोचितम् ।। १४ 

तपस्विनामतिप्रेष्ठे स्थाने तत्र स वर्णिराट् । मासमेकमुषित्वाथ पुरीमेतां समाययौ ।। १५ 

निवसन्नत्र वर्णीन्द्रः पुरुषोत्तमपत्तने । अब्धौ स्ननं जगन्नाथवीक्षां प्रत्यहृमाचरत् ।। १६ 

इन्द्रद्युम्नसरोमुख्यतीर्थेषु च स आप्लवम् । अत्रत्येषु करोति स्म विधानं तैर्थिकं विदन् ।। १७ 

ततोऽत्र वसतोऽद्राक्षीच्चरतो यूथशः पुरे । असुरान्बहुशो राजन्दम्भभक्तनराकृतीन् ।। १८ 

परस्परस्पृधो मानक्रोधशूरत्वमत्सरैः । उद्वृत्तान्धर्मविमुखान्कामक्रीडनकान् खलान् ।। १९ 

गुरुत्वसाधुताख्यात्यै भूरिदम्भेन बिभ्रतः । शैववैष्णवशाक्तानां बाह्यलिङ्गानि सर्वशः ।। २० 

मन्त्रसिद्धिचमत्कारदर्शनेन पुरौकसः । वशीकृत्य नरान् स्त्रींश्च धर्मान्हापयतो निजान् ।। २१ 

वर्तमाना गुरुत्वेन निःस्पृहा इव बाह्यतः । पुत्रीतुल्याः शिष्यपत्नीर्मुहुः प्रीत्योपगच्छतः ।। २२ 

प्रलोभ्य मायया लोकान् महाफलनिदर्शनैः । गृतो द्रविणं तेभ्यः कांश्चिच्च भयदर्शनैः ।। २३ 

तत्र कांश्चित्तीक्ष्णशस्त्रस्थूलयष्टीस्तथायसान् । दधतश्चिपिटान् स्थूलायतांस्तापससन्निभान् ।। २४ 

अशस्त्रानेव कांश्चिच्च सौम्यवेषान्स ऐक्षत । वीरकृत्यामन्त्रयन्त्रैः प्रच्छन्नं द्रोहिणो नृणाम् ।। २५ 

शैवाञ्छाक्तांस्तत्र वामाध्वगान्कौलागमादिभिः । तन्मूलपद्धतिग्रन्थैः शिवशक्तयर्चने रतान् ।। २६

वैष्णवान्दक्षिणाध्वस्थान्मकारादिमवर्जितान् । एतान् द्वयानपि स्वीयशिष्यस्वाचारवर्तनान् ।। २७ 

सहस्रशो यूथचरान्वीक्ष्यैतान्स्वैकवैरिणः । धरामतिभरां मेने हरिस्तैर्गूढदुष्क्रियैः ।। २८ 

पञ्चरात्रमुषित्वैव ततस्तीर्थान्तरं प्रति । गन्तुकामोऽप्यसावत्र तत्पराभूतयेऽवसत् ।। २९ 

इन्द्रद्युम्नसरस्येव प्रायो वासं स चाकरोत् । सर्वत्र निःस्पृहः शान्तः स्वधर्मं भक्तिमत्यजन् ।। ३०

यथा न विद्युरसुरा आत्मानं निजवैरिणम् । तथा स ववृते तत्र वर्णिराजो नराधिप! ।। ३१ 

पौरास्तं विविदुः कञ्चिन्महान्तं सिद्धयोगिनम् । ततोऽस्य दर्शनं चार्चां चक्रुः प्रतिदिनं जनाः । ३२

तमापृच्छय जना ये ये कार्यं यद्यत्समाचरन् । तेषां तेषामसिध्यत्तत्तदुःसाध्यमपि द्रुतम् ।।३३

सिद्धस्वार्था नरास्तस्य पुरतो द्रविणं भृशम् । निदधुर्वस्रपात्रादि प्रोचुश्चेदं तवेति तम् ।। ३४ 

स तु दृष्टयापि तत्किञ्चिन्न जग्राहातिनिःस्पृहः । अत्याश्चर्यं तदालोक्य विविदुस्ते तमीश्वरम् ।।३५

असुरास्तेऽथ वित्तस्त्रीरसास्वादादिलोलुपाः । दम्भभक्तास्तदुत्कर्षं मात्सर्यान्नैव सेहिरे ।। ३६ 

अपमानं तस्य चक्रुस्तेऽपशब्दमुखा मुहुः ।तस्मिन्मिथ्यापवादं चारोपयामासुरुद्धताः ।। ३७ 

क्वचिद्धयानस्थमुत्तोल्य स्वावासं निन्युरुन्मदाः । बहुधा भर्त्सयामासुस्तत्र ते तं महाव्रतम् ।। ३८ 

केचित्तं निर्दयाः क्रूरा धृत्वा विष्टिमकारयन् । अभाषयंश्च प्रसभं केचित्तं मौनमास्थितम् ।। ३९ 

इत्थं ह्युपद्रुतोऽप्यज्ञौर्देहाहंमतिवर्जितः । आत्मनिष्ठो हरिः किञ्चिन्नाखिद्यत निजान्तरे ।। ४० 

साधुतामत्यजन् स्वस्य क्षमाशीलो हरिस्ततः । प्रहसन्नाह तान् राजंस्तदासुर्यजिहीर्षया ।। ४१ 

देहोऽस्ति नश्वरो नूनमात्माऽच्छेद्यादिलक्षणः । अस्तीति वेदशास्त्राणि प्राहुः पूर्वे च साधवः ।। ४२

अतो मानापमानौ मे दैहिकत्वात्समावुभौ । मतौ भक्तिं त्वात्मनैव कुर्वे कृष्णस्य नित्यदा ।। ४३ 

क्रोधस्त्वेष मनुष्याणां शरीरस्थो महान् रिपुः । वर्तते प्रदहन् देहं सुकृतानि च नाशयन् ।। ४४ 

भक्ताः सर्वे यूयमपि भवथातः क्रुधं धिया । भक्तिज्ञानमहाशत्रुं जित्वेष्टं भजतामरम् ।। ४५ 

इत्याश्रुत्य हरेर्वाक्यं तत्र ये दैविका नराः । कुसङ्गाप्तासुरत्वाश्च ते तु तं श्रेयसेऽश्रयन् ।। ४६ 

जात्यासुरास्तु ये तेषु केचित्तद्वचनं नृप ! । युक्तं प्राहुस्तदा त्वन्ये मेनिरे तानपि द्विषः ।। ४७ 

ततोऽभूत्कलहस्तेषामन्योन्यं धर्मवैरिणाम् । महद्वयतिक्रमभ्रष्टबुद्धीनां शस्त्रधारिणाम् ।। ४८ 

मानेर्ष्यामत्सरक्रोधग्रस्तानां वृथा कलिरभूद्बूयांस्तेषामरुणचक्षुषाम् ।। ४९ 

तदा स्वस्थानमागत्य तस्थौ वर्णिवरस्ततः । अनादृतस्ववाक्यानामुच्छेदं पाप्मनां विदन् ।। ५० 

परस्परं ते सङ्गत्य यूथशस्तत्र तत्र च । धोद्भ्रान्ता इवान्योन्यं प्रोचुर्मर्मभिदो गिरः ।। ५१ 

कलहोऽभून्महांस्तेषां मूढानां मायया हरे । अश्रव्यभूरिदुर्वाक्यो घोरदीर्घ महारवः ।। ५२ 

परस्परं भर्त्सयन्तः सद्योऽसीञ्जगृहुश्च ते । केचिच्छक्तीर्धनूंष्येके केचिच्च परशूञ्च्छितान् ।। ५३ 

कुन्तान्केचित्कशाः केचित्खट्वाङ्गानि तथाऽपरे । लोहदण्डान्काष्ठदण्डांश्चिपिटानेव केचन ।५४

सिन्दूराक्तानि जगृहुस्त्रिशूलानि च केचन । भुशुण्डीश्च क्षुरान्केचिदग्निबाणानुपाददुः ।। ५५ 

ततस्ते निर्दयं जघ्नुः परस्परममर्षिणः । शस्त्रैरस्त्रैर्मुष्टिभिश्च यष्टिदण्डद्रुमादिभिः ।। ५६ 

प्रहारशब्दश्च महानासीत्तेषां बलीयसाम् । भेरीपटहतूर्याणां शब्दश्चारभटीयुतः ।। ५७ 

शूराणामपि दुर्दृश्यं तद्युद्धं तुमुलं तदा । बभूवासुरसङ्घानां मत्तानां पललाशनैः ।। ५८ 

तदा महोत्सवो ह्यासीद्बूतानां पललाशिनाम् । कङ्कानां वायसानां च गृध्राणां च शुनामपि ।। ५९ 

पिशाचानां शाकिनीनां योगिनीनां च रक्षसाम् । भैरवाणां च सर्वेषामस्रपां पलभोजिनाम् ।। ६० 

शिरांसि करवालाद्यैस्तेषां कृत्तानि भूतले । नालिकेरफलानीव पतन्ति स्म सहस्रसः ।। ६१ 

छिन्नाङ्घ्रिमूलाः प्रधने केचिच्छिन्नभुजद्वयाः । पेतुः पृथिव्यां विच्छिन्नसकलाङ्गाश्च केचन ।। ६२ 

दन्तपिष्टाधरोष्ठानि पतितान्यपि भूतले । तेषां शीर्षाणि राजेन्द्र ! दुर्दृश्यान्यभवञ्जनैः ।। ६३ 

असुराणां सहस्राणि दश तस्मिन्दिने नृप ! । शमनातिथितां प्रापुरन्योन्यं निघ्नतां रुषा ।। ६४ 

ततःप्रभृत्यभूद्युद्धं तेषां नित्यं जयाशया । मांसाहारबलिष्ठानां मत्तानां मद्यपानतः ।। ६५ 

क्वचिद्दिने सहस्रे द्वे क्वचित्पञ्चशतानि च । क्वचित्पञ्चसहस्राणि सहस्रं क्वापि ते मृताः ।। ६६ 

द्वे शते क्वापि च शतं पञ्चाशच्च दिने क्वचित् । मृताः परस्पराघातादेवं मासद्वयं ह्यभूत् ।। ६७ 

एवं कृष्णेच्छया राजन्सर्वे धर्मद्रुहोऽसुराः । विनेशुस्तेन सम्प्रापुर्मुदं देवगणा नृप ! ।। ६८ 

छिन्ननासाश्छिन्नकर्णाश्छिन्नहस्ताश्च केचन । संग्रामभीरवश्चैके ततश्चक्रुः पलायनम् ।। ६९ 

देशान्तरस्थितेभ्यस्ते वृत्तमेतदशेषतः । असुरेभ्यो बलिष्ठेभ्य कथयामासुरादितः ।। ७० 

तदा विशेषतः कृष्णे बद्धवैरा जिघांसवः । शस्त्राघातकलाभ्यासे बभूवुस्तत्परा भृशम् ।। ७१ 

मृतेष्वसुरसङ्घेषु धर्मध्रुक्षु हरिस्तदा । अधर्ममूलं नष्टं हीत्येवं मेने निजान्तरे ।। ७२ 

ततः स बोधयित्वैव दैवाञ्जीवांस्तदाश्रितान् । त्याजयित्वा दुराचारं सन्मार्गेऽस्थापयत्पुनः ।। ७३ 

कृष्णभक्तमहिंसादीन्धर्मांस्तेभ्यश्च सोऽखिलान् । उपादिदेश तैः प्रीत्या मानितश्च सुपूजितः ।। ७४

नष्टान्तस्तमसः सर्वे प्रतापेनैव तस्य ते । नारायणं तं निश्चित्य भेजिरे तद्वचःस्थिताः ।। ७५ 

एवं स भगवान्र्राजन्नशस्त्रोऽपि वृषद्रुहः । असुरान्स्वप्रतापेन तमो भास्वानिवाहरत् ।। ७६ 

इत्थं धर्मं च भक्तिं च पोषयन् धर्मनन्दनः । तद्द्रुहश्च जयन्नत्र पुरे मासान्दशावसत् ।। ७७ 

एतश्चरित्रं श्रृणुयाद्धरेर्यः सङ्कीर्तयेद्वा प्रयतः पुमान्सः । 

मुक्तो भवेत्स्वारिविपद्व्रजेभ्यो लभेत चान्ते पदमच्युतस्य ।। ७८ ।।


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथम प्रकरणे उत्कलदेशीयासुरसङ्घपराभवनिरूपणनामाष्टचत्वारिंशोऽध्यायः ।। ४८ ।।