सुव्रत उवाच -
इतो ययौ वर्णिराजो दक्षिणां दिशमेकलः । अनृसृतो दिव्यदेहैर्धर्माद्यैः सर्वदैव सः ।। १
गमिष्यन्सेतुबन्धं स आदिकूर्ममुपाययौ । ततो महावने गच्छन्प्राप मानसपत्तनम् ।। २
तत्र राजा सत्रधर्मा दैवीं सम्पदमाश्रितः । तं महापुरुषं ज्ञात्वा वासयामास मानयन् ।। ३
अनाच्छन्नां रहःस्थाने सोऽध्युवास वितर्दिकाम् । राजकीया अनुसवं सेवन्ते स्म तमादृताः ।। ४
जगन्नाथपुरभ्रष्टासुरोक्तस्वजनक्षये । हेतुं विदन्तस्तं दैत्यास्तत्रत्या हन्तुमुद्यताः ।। ५
एकाकिनं तमाज्ञाय निशि वेद्यामवस्थितम् । संहृत्य चक्रुस्तस्मिंस्ते शतशोऽश्माभिवर्षणम् ।। ६
प्रदोषादाप्रभातान्तं चिक्षिपुस्ते महोपलान् । निर्दोषे साधुशीलेऽपि पापनष्टधियो हरौ ।। ७
तद्वेदिमभितस्त्वासञ्छतशो ह्यश्मराशयः । एकोऽप्यश्मा नास्पृशत्तं तदासीदद्बुतं महत् ।। ८
एवं भगवता तेन स्वैश्वर्ये दर्शितेऽपि ते । तद्द्रोहबुद्धिं न जहुरन्तिकागतमृत्यवः ।। ९
अथ व्यर्थप्रयत्रास्ते शस्त्रैस्तद्धननेच्छवः । स्वस्वायुधानि संसाध्य तत्रासन् यूथशोऽखिलाः ।। १०
तदाश्चर्यं नृपः श्रुत्वा प्रातरयात्तदन्तिकम् । पौरा जनाश्च निखिलास्तद्दृष्ट्वा विस्मयं ययुः ।। ११
विस्मितो नृपतिः प्राह प्रह्लादस्य यथा पुरा । रक्षा नृसिंहेन कृता तथा भगवतास्य हि ।। १२
एष एव भवेत्किं वा ? प्रह्लादो भक्तराट् स्वयम् । इत्युक्त्वा तमुवाचासौ तवास्म्यद्यदिनादिति ।१३
ततो हरिर्मुमुक्षुं तं कृष्णाश्रयमकारयत् । यथाविधि तदीयांश्च मुमुक्षून्भूपते ! नरान् ।। १४
ततोऽसुरांस्तांस्तद्दोग्धन्सर्वाञ्ज्ञात्वाऽतिपापिनः । घातयामास भूपालः स्वसैन्यैरतिदारुणैः ।। १५
स्वपापकर्मभिर्नाशं जानंस्तं पापिनां हरिः । तेनार्चितस्ततः प्रायाद्वेङ्कटाद्रिं महीभुजा ।। १६
तत्रस्थस्येक्षणं कृत्वा श्रीविष्णोरगमत्ततः । शिवकाञ्चीं विष्णुकाञ्चीं ततः श्रीरङ्गमाययौ ।। १७
नद्यां स्नत्वा स कावेर्यां तत्प्राक् पुष्पफलानतैः । शोभितायां वाटिकायां समुवास महीरुहैः ।।१८
तत्र मासद्वयं स्थित्वा वैष्णवैः सह संवदन् । स्वप्रतापेन तन्निष्ठदुराचारमहापयत् ।। १९
पराभूय च तत्रत्यानाभिचारिककर्मणः । विप्रादीञ्छतशः कृष्णः स्वप्रतापमपप्रथत् ।। २०
विनष्टमायिकाज्ञानास्तत्प्रतापेन ते ततः । तमेव विष्णुं निश्चित्य भक्तिं तस्यैव चक्रिरे ।। २१
सेतुबन्धं ततस्तीर्थं महापातकनाशनम् । प्राप्य स्नत्वाम्बुधौ चक्रे स रामेश्वरदर्शनम् ।। २२
तत्राप्युषित्वा द्वौ मासौ क्षेत्रे तापसवल्लभे । ततः सुन्दरराजाख्यविष्णुमागच्छदेकलः ।। २३
ततो भूतपुरीं गच्छन् प्राप घोरां महाटवीम् । तत्राहानि चलन् पञ्च नान्नं प्रापापि वारि च ।। २४
पञ्चमेऽह्नि प्रदोषेऽसौ कञ्चित्प्राप जलाशयम् । तत्र स्नत्वाऽर्चयामास शालग्रामं स भूपते ! ।।२५
चतस्रो वनशिम्बीश्च भर्जयित्वाऽग्निना ततः । निवेद्य विष्णवे तत्र जघास तपतां गुरुः ।। २६
आद्ययामावधि निशस्तत्र स्थित्वा ततोऽव्रजत् । परेद्यव्याप मध्याह्ने कूपमेकं वनान्तरे ।। २७
ततो निष्कास्य पानीयं स कण्डलुना नृप ! । स्नत्वा वटद्रुमाधस्तान्निषद्याऽह्निकमाचरत् ।। २८
एतस्मिन्नन्तरे तत्र शङ्करौ लोकशङ्करौ । राजंस्तूर्णं समायातौ विचरन्तौ यद्दृच्छया ।। २९
पितरौ जगतः साक्षाद्वरदावाशुतोषणौ । तपःप्रियौ तपः संस्थौ तपस्विजनवल्लभौ ।। ३०
सार्वज्ञयेनैव तं ज्ञात्वा साक्षात्कृष्णं निजेच्छया । नरनाटयं विदधतमाविर्भूतं भुवि स्वयम् ।। ३१
तद्दर्शनमहोत्साहौ तन्नृनाटयानुसारिणौ । नृणां स्वतत्त्वाज्ञानाय धृतकार्पटिकाकृती ।। ३२
जपन्तौ शिवनामानि दम्पती चारुदर्शनौ । आयातां वृषमारूढौ तौ तत्र कृशविग्रहौ ।। ३३
काषायवसनौ तौ च तं दृष्ट्वातितपस्विनम् । उत्तीर्य वृषभात्तूर्णं तं नत्वाऽरान्निषीदतुः ।। ३४
तावत्प्रवासविधिना सन्ध्ये द्वे समुपास्य सः । शालग्रामं पूजयितुमारेभे स्न्पनादिभिः ।। ३५
वेदमन्त्रान् पठञ्छालग्रामं चन्दनपात्रके । निधायाभिषिषेचासौ महाकुण्डयास्तु धारया ।। ३६
प्रस्थपञ्चकमानाम्बू रिक्त आसीत्कमण्डलुः । तथाप्याधारपात्रं तद्यथापूर्वमदृश्यत ।। ३७
एतावत्क्व गतं वारीत्युक्त्वोग्दृह्य तदैक्षत । अच्छिद्रमेव तद्वृष्ट्वा पुनर्भूमौ न्यधारयत् ।। ३८
शालग्रामेण तत्पीतं तृषितेनाम्ब्विति स्वयम् । निश्चित्य तत्तृषाशान्तिमचिकीर्षद्धरिः स्वयम् ।।३९
कुण्डयाम्बु कूपान्निष्कास्य धारयाभिषिषेच तम् । तत्सर्वमपिबत्सोऽपि सोऽपि चक्रे पुनस्तथा ।४०
पपौ तदपि पानीयं शालग्रामस्तदा स तु । हसन्भूयोऽम्बु निष्कास्य धारयैवाभ्यषेचयत् ।। ४१
तदप्यपाद्यदा तर्हि ज्ञात्वातितृषितं हि तम् । कूपमायात्पुनः कुण्डयाः स निष्कासयितुं पयः ।४२
श्रमखिन्नाखिलाङ्गस्य बह्वहोपोषितस्य च । भक्तिं तां तस्य दृष्ट्वा तौ दम्पती विस्मयं गतौ ।४३
शालग्रामोऽपि भगवान् श्रान्तमाज्ञाय वर्णिनम् ।आसीग्दततृषः सद्यो निजशुश्रूषुवत्सलः ।। ४४
आहृताम्भाः स्ननपात्रं हरिदृष्ट्वाऽथ सोदकम् । ज्ञात्वा गतपिपासं तं चन्दनादिभिरार्चयत् ।।४५
व्यचिन्तयच्च मनसा शालग्रामस्य भूयसी । निवृत्तैव तृषा त्वद्य क्षुन्निवृत्तिः कथं भवेत् ।। ४६
इत्थं विष्ण्वर्थमेवासौ चिन्तयाऽखिद्य दन्तरे ।स्वस्योपवासाः षड् जातास्तदर्थं तु न विव्यथे ।४७
इति व्यवसितं तस्य ज्ञात्वा जायापती उभौ । प्रीतावभूतां नृपते! पुमान् योषामथाब्रवीत् ।। ४८
प्रियेऽस्मै बटवे देहि नैवेद्याय रमापतेः । सक्तूंस्त्वं गोणिकाबद्धाँल्लवणं चापि सत्वरम् ।। ४९
ततः सा ग्रन्थिमुन्मुच्य पेशीस्थं वर्णिने ददौ । सक्तुप्रस्थं स चाऽदात्तान् यावदर्थं हरिर्नृप ! ।।५०
लवणेनाम्बुना मिश्रीकृत्य सक्तून्स विष्णवे । निवेद्यार्चाविधिं तस्य विधिनैव समापयत् ।। ५१
दरिद्रभिक्षुकाकारावपि कान्त्याऽतिमानवौ । तावथापृच्छदानम्य दैवमानुष्यलक्ष्मवित् ।। ५२
आकस्मिकागमौ शान्तौ कौ युवां करुणानिधी । योगिरूपप्रतिच्छन्नौ शिवाविव मनोहरौ ।। ५३
युष्मादृशेक्षणं त्वत्र कान्तारे दुर्लभं खलु । मर्त्यौ तु सर्वथा न स्थः स्वतत्त्वं ब्रूत मामृतम् ।। ५४
तमाहतुस्तौ क्षुन्नृङ्भ्यां ग्लानोऽसि त्वं कृशो भृशम् । वर्णिंस्ततः पिब जलमद्धि विष्णुनिवेदितम् ।५५
ततो वार्ताः करिष्याम इत्युक्तो मानयन्स तौ । सक्तून्प्राश्योदकं पीत्वा निषसाद तदन्तिके ।। ५६
योगी तं प्राह विप्र ! त्वं ब्रह्मचर्यव्रतस्थितिः । तपस्व्यपि जितक्रोधः कृष्णभक्तो महानसि ।।५७
अभाषितचरं तस्मात्वदग्रे नानृतं ब्रुवे । अशेष पुण्यक्षयकृत्तपस्व्यग्रेऽनृतं वचः ।। ५८
शङ्करं मां विजानीहि पार्वत्या सह वर्णिराट् ! । यदृच्छयागतं ह्यत्र दुर्दर्शं तपतामपि ।। ५९
इत्युक्त्वा दर्शयामास स्वरूपं सहसैव सः । साश्चर्यं नीलकण्ठस्तमपश्यद्दिव्यविग्रहम् ।। ६०
कर्पूरगौरमुरुभास्करभासुराङ्गं भस्माङ्गरागरुचिरावयवेक्षणीयम् ।
यज्ञोपवीतवलयायितनागराजं केयूरहारकटिसूत्रपदस्थनागम् ।। ६१
द्वीपिद्विपाजिनसदंशुकयुग्मशोभं प्रोत्फुल्लनीरजनिभाननमन्दहासम् ।
शीतद्युतिद्युतितरम्यविशालभालं चञ्चद्बृहत्पुरटपिङ्गजटाकलापम् ।। ६२
वीरासनेन पुरतो धरणौ निषण्णं कौशासने स्तिमितदृक्रितयं स्थिराङ्गम् ।
वामे करे निजजनाभयदानमुद्रां दक्षेऽपि दोषणि च बिभ्रतमक्षमालाम् ।। ६३
पार्श्वे च वाम उमया स्थितया त्रिलोकीसाध्वीगणार्चितपदाम्बुजयाऽतिभक्तया ।
सद्वीजनेन परिसेवितमात्मनिष्ठं नन्दीश्वरादिगणमण्डलनूयमानम् ।। ६४
ब्राह्मीं बुभुत्सुभिरुशन्मतिभिश्च विद्यां क्रौञ्चारिनारदसनन्दनमुख्यविप्रैः ।
नम्रैः सिताञ्जलिपुटद्वितयैः सहर्षं सम्प्रेक्ष्यमाणकरुणाक्षिकटाक्षपातम् ।। ६५
तं वीक्ष्य साक्षाच्छिवमेव वर्णी प्रणम्य बद्धाञ्जलिरश्रुनेत्रः ।
तुष्टाव राजञ्जगतामधीशं रोमाञ्चिताङ्गः प्रणयेन नम्रः ।। ६६
श्रीनीलकण्ठ उवाच -
सदाशिवं शाश्वतमीशितारं प्रशान्तमाशापतिमण्डलेशम् ।
ब्रह्मादिदेवार्चितपादपद्मं श्रीशङ्करं त्वामहमानतोऽस्मि ।। ६७
सर्वेश्वरं सर्वगुणाधिवासं देवं महादेवमुदारकीर्तिम् ।
विद्यातपोयोगकलानिधानं श्रीशङ्करं त्वामहमानतोऽस्मि ।। ६८
सकालमायायमभीतिभङ्गं जगज्जनित्राणविनाशहेतुम् ।
प्रचेतसां देशिकमाप्तकामं श्रीशङ्करं त्वामहमानतोऽस्मि ।। ६९
महाविषत्रातसमस्तलोकं मृत्युञ्जयं मर्त्यजनाशुतोषम् ।
भस्मावशेषीकृतकामदेहं श्रीशङ्करं त्वामहमानतोऽस्मि ।। ७०
अशेषविद्यागममन्त्रमूलं वैराग्यवेगोज्झितसर्वभोगम् ।
मुमुक्षुभिर्मुक्तजनैश्च सेव्यं श्रीशङ्करं त्वामहमानतोऽस्मि ।। ७१
गङ्गाधरं चान्धकदैत्यनाशं कैलासनाथं सुखितात्मदासम् ।
पापोच्चयोन्मूलननाममात्रं श्रीशङ्करं त्वामहमानतोऽस्मि ।। ७२
श्रीविश्वनाथं कृतकाशिवासं प्रमीतकर्णोदिततारकं च ।
भवोद्धृतानेकमहाघिजीवं श्रीशङ्करं त्वामहमानतोऽस्मि ।। ७३
देवादिसङ्कष्टहरं हराख्यं श्रीपार्वतीप्राणपतिं पुरारिम् ।
वृषध्वजं मङ्गलमूर्तिमीशं श्रीशङ्करं त्वामहमानतोऽस्मि ।। ७४
सुव्रत उवाच -
इति स्तुत्वा शिवं भक्तया प्रणम्य च स धर्मभूः । तुष्टाव जगदम्बां च दुर्गां दुर्गतिनाशनीम् ।।७५
श्रीनीलकण्ठ उवाच -
मातः! शिवे ! मङ्गलवृन्ददात्रीं सर्वेश्वरीं चाखिललोकधात्रीम् ।
महासतीं शङ्करशक्तिमाद्यामुमामहं त्वां प्रणमामि देवीम् ।। ७६
सुरेन्द्रमुख्यामरकष्टदातुर्विनाशयित्रीमसुरव्रजस्य ।
सदैव सर्वामरसौख्यदात्रीमुमामहं त्वां प्रणमामि देवीम् ।। ७७
निशुम्भशुम्भासुरदर्पहन्त्रीं निजाश्रितापन्निचयापहन्त्रीम् ।
श्रीविष्णुकार्योद्यतयोगमायामुमामहं त्वां प्रणमामि देवीम् ।। ७८
सुरारिनाशार्थमनेकशक्तीरुत्पादयन्तीममरेन्द्रपक्षाम् ।
महामृधाविष्कृतभूरिहस्तामुमामहं त्वां प्रणमामि देवीम् ।। ७९
सुरापलस्वार्चकसर्ववर्णशीर्षच्छिदाक्रोधकरालवक्राम् ।
अभीष्टदात्रीं व्रजकन्यकानामुमामहं त्वां प्रणमामि देवीम् ।। ८०
दाक्षायणीं रूपधरां युगादौ सतीं ततः श्रीगिरिराज पुत्रीम् ।
साध्वीव्रतत्राणपरामनादिमुमामहं त्वां प्रणमामि देवीम् ।। ८१
नरामरैर्दुष्करमुग्रमादौ तपश्चरन्ती गिरिशप्रसत्त्यै ।
न पत्रमप्याद इति ह्यपर्णामुमामहं त्वां प्रणमामि देवीम् ।। ८२
प्रसूं गणेशस्य सदैव सेवापरायणामम्ब! महेश्वरस्य ।
अमङ्गलघ्नीं निजसेवकानामुमामहं त्वां प्रणमामि देवीम् ।। ८३
सुव्रत उवाच -
इति स्तुत्वैवोपरतं वर्णिनं तावुमाशिवौ । ऊचतुर्नौ वरं वर्णिन् ! वरयत्वं निजेप्सितम् ।। ८४
श्रीनीलकण्ठ उवाच -
यदि प्रसन्नौ भवथो जगतः पितरौ युवाम् । यच्छतं तर्हि वैराग्यं दृढं सांसारिकेषु मे ।। ८५
उमामहेश्वरावूचतुः -
व्रियते यत्त्वया वर्णिंस्तत्तु सिद्धं सदा त्वयि । तथापि तद्विशेषेण भविष्यति महामुने! ।। ८६
नारायण ऋषिः साक्षादसि त्वं बदरीपतिः । मानुष्यनाटयं विदधद्वर्तसेऽत्रेति विद्ध वै ।। ८७
नमोस्तु जगदीशाय नरनारायणाय ते । सहार्जुनाय कृष्णाय धर्मसंस्थापनाय च ।। ८८
त्वं हि साक्षात्परंब्रह्म क्षराक्षरपरं विभु । अनेककोटिब्रह्माण्डोदयस्थित्यन्तकारणम् ।। ८९
गोलोकाधिपतिर्दिव्यवृन्दावनविहारकृत् । अखण्डरासलीलस्त्वं राधिकारमणः स्वयम् ।। ९०
कल्यधर्मासुरगुरुपाषण्डोपद्रुतं प्रभो ! । सद्धर्मं पातुमत्रत्वमाविर्भूतो दयानिधिः ।। ९१
निमित्तीकृत्य दुर्वासःशापं नारायणात्मना । भक्तौ जातोऽसिधर्मात्त्वं हरिर्भक्तविपद्धरः ।। ९२
भाव्यानामिह लोकानां कलौ संसृतिमुक्तये । कीर्तनश्रवणार्हाणि चरित्राणि करोषि वै ।। ९३
अद्यत्वद्दर्शनेन स्वः परमानन्दनिर्वृत्तौ । आवां त्वदीयभक्तिस्थौ सदा त्वद्दर्शनोत्सुकौ ।। ९४
सुव्रत उवाच -
इति शिवश्च शिवा प्रणिगद्य तं प्रहसिताननपद्ममृषीश्वरम् ।
तदवलोकनहर्षभृतान्तरौ नृप ! तिरोदधतुः सहसा ततः ।। ९५
।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
महाटव्यामुमामहेश्वरदर्शनं नामैकोनपञ्चाशत्तमोऽध्यायः ।। ४९ ।।