पञ्चाशत्तमोऽध्यायः

सुव्रत उवाच -


अन्तर्हिते शङ्करेऽथ स्वस्यातिप्रियदर्शने । नीलकण्ठस्ततोऽगच्छत्स्मरन् भूतपुरीं स्म तम् ।। १ 

तत्र रामानुजाचार्यप्रतिमायाः स दर्शनम् । पूजनं च विधायागादुर्गां कन्याभिधां ततः ।। २ 

ततो ययौ वर्णिराजः पद्मनाभं जनार्दनम् । आदिकेशवनामानं ततो विष्णुमुपाययौ ।। ३ 

असुराणां सहस्रे द्वे तत्रास्तां शस्त्रधारिणाम् । ते तत्रत्यनृपेणैव निहते तज्जिघांसुनी ।। ४ 

मानसे पत्तने पूर्वं क्ष्माभुजा सत्रधर्मणा । निहता असुरा यद्वत्तथा राज्ञाऽत्र धर्मिणा ।। ५ 

मलयाख्यं ततः प्रायान्नानाद्रुमसमाकुलम् । नारायणः कुलगिरिं तीर्थयात्रापरायणः ।। ६ 

पञ्चाहानि गिरौ तत्र साक्षिगोपालदर्शनम् । कुर्वंश्चन्दनवृक्षाणां ससर्पाणां वनेऽवसत् ।। ७ 

चन्द्रभागानदीतीरे पुण्डलीकपुरं ययौ । तत्र श्रीविठ्ठलस्यासौ चक्रे श्रीभर्तुरीक्षणम् ।। ८ 

नद्यां स्ननं विठ्ठलस्य दर्शनं गुणकीर्तनम् । कुर्वन् प्रतिदिनं तत्र द्वौ मासौ न्यवसद्धरिः ।। ९ 

दैवा जीवाः सहस्रे द्वे तत्र चक्रुस्तदाश्रयम् । हित्वा दुःसङ्गजं दोषं भेजुस्तं तद्वचःस्थिताः ।। १० 

श्रीविठ्ठलं ततो नत्वा परिष्वज्य च भक्तितः । स्तुवंस्तत्क्षेत्रमाहात्म्यं दण्डकारण्यमाययौ ।। ११ 

कुर्वन्प्रदक्षिणां तस्य नासिकाख्यां पुरं ययौ । दर्शनं त्र्यम्बकेशस्य कृत्वाऽगात्तपतीं नदीम् ।। १२

ततः स नर्मदायात्रां कृत्वोत्तीर्य महीं नदीम् । तीर्त्वा साभ्रमतीं प्रायाद्बीमनाथाख्यशङ्करम् ।। १३ 

गोपनाथमुपेत्याथ पञ्चतीर्थीं समाचरन् । नीलकण्ठ उपेयाय मकरालयपत्तनम् ।। १४ 

एवं तीर्थानि विचरन्सद्धर्मं परिपालयन् । अधर्मसर्गं तीर्थस्थमुच्चखान निजौजसा ।। १५ 

पाषण्डिनो गुरूञ्जित्वा वादैः सच्छास्त्रसम्मतैः । मुमुक्षून्रक्षितांस्तेभ्यो मोचयामास संसृतेः ।। १६ 

तपश्च ब्रह्मचर्यादीन्नियमानाचरन् स्वयम् । त्यागिनां तैर्थिकानां च स्थितिरीतिमदर्शयत् ।। १७ 

शान्तस्तितिक्षुरेकाकी निःस्पृहो निष्परिग्रहः । कौपीनमात्रवसनो मृगाजिनधरो जटी ।। १८ 

अनावृताङ्गः सर्वेषु ऋतुष्वपि दिवानिशम् । बहिर्ग्रामाद्द्रुमाधस्ताद्वसन् ग्रामे तु न क्वचित् ।। १९ 

नित्यं त्रिषवणस्नयी त्रिकालं कृष्णपूजकः । पञ्चाध्याय्याः पूजनान्ते पाठं कुर्वन्दिनेदिने ।। २० 

प्राणायामांस्त्रिकालं च कुर्वन्नानासनानि च । स्वेच्छया हिमकालेऽपि सेवमानो न चानलम् ।। २१

अखण्डं स्वस्वरूपस्थो निर्निमेषविलोचनः । त्वगस्थिशेषगात्रश्च भूयो धमनिसन्ततः ।। २२ 

देहानुसन्धानहीनः शर्कराकण्टकादिषु । निरुपानच्चलन्मार्गे न पृच्छन्वर्त्म कञ्चन ।। २३ 

घोरेष्वरण्येषु चरन् पर्वतेषु च निर्भयः । सिंहव्याघ्रोरगाद्यैश्च कुत्राप्यक्षतविग्रहः ।। २४ 

सकृदश्नन् क्वचिच्चान्नं फलं मूलं च वा दलम् । तिष्ठन्निरशनः क्वापि नीराहारश्च कुत्रचित् ।। २५ 

दिनानि कतिचित्तिष्ठन्प्राश्यैव पवनं सकृत् । क्वाप्ययाचितवृत्तिश्च कृच्छ्रव्रतपरः क्व चित् ।। २६ 

विरक्तो रमणीयेषु विषयेष्वपि पञ्चसु । स्त्रीणां त्वसहमानश्च गन्धमात्रमपि ध्रुवम् ।। २७ 

एकादशीषु सर्वासु हरेर्जन्मदिनेषु च ।नान्नगन्धग्रहः सोऽभूदूर्ध्वरेता जितेन्द्रियः ।। २८ 

तपस्विनस्त्यागिनोऽन्ये तं दृष्ट्वातितपस्विनम् । स्वयं तथा कर्तुकामास्तत्सङ्गं केऽप्यकुर्वत ।। २९ 

देहाभिमानजातेन देहदुःखेन पीडिताः । तत्समीपे न ते स्थातुं शेकिरे मानिनोऽपि च ।। ३० 

त्रिरात्रं पञ्चरात्रं वा कृत्वा तस्य समागमम् । पालयन्ते स्म ते केचिद्दशरात्रं च केचन ।। ३१ 

मनुष्यैर्दुष्कराणीत्थं तपांस्याचरतो वने । चरतः सप्त वर्षाणि मासश्चौको ययुर्हरेः ।। ३२ 

विक्रमादित्यभूपस्य षट्पञ्चाष्टैकसम्मिते । शकस्य वर्तमानेऽब्दे दक्षिणायनगे रवौ ।। ३३ 

संवत्सरे च शुक्लाख्ये नभः कृष्णेऽग्निभूतिथौ । पुरं लोजाभिधं प्राप काले सङ्गव एव सः ।। ३४ 

पुराद्वहिस्तत्र स वापिकायामुपाविशद्वर्णिवरो मुहूर्तम् । वृन्दावनेन्दुं हृदि चिन्तयानो निजेष्टदेवं नृप! राधिकेशम् ।। ३५ 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे लोजपुरागमननामा पञ्चाशत्तमोऽध्यायः ।। ५० ।।