एकपञ्चाशत्तमोऽध्याय

सुव्रत उवाच - 

तत्रोद्धवावतारस्य रामानन्दमुनेर्नृप ! । मुक्तानन्दादयः शिष्याः पञ्चाशत्त्यागिनोऽवसन् ।। १ 

तेषां सुखानन्दनामा साधुः स्ननार्थमागतः । तत्राद्राक्षीद्ध्याननिष्ठं वर्णिनं तमलौकिकम् ।। २ 

ततस्तपस्विप्रवरं तं नमस्कृत्य सोऽब्रवीत् । कुत आगम्यते वर्णिन्कुत्र वा गम्यते त्वया ।। ३

श्रीनीलकण्ठ उवाच - 

उत्तरेभ्यः कोसलेभ्यस्तीर्थानि विचरन्नहम् । यदृच्छयात्राऽगतोऽस्मि कस्त्वं शिष्योऽसि कस्य च ।४

सुखानन्द उवाच - 

श्रीमद्रामानन्दमुनेः ख्यातस्येशतया भुवि । शिष्याः सहस्रशः सन्ति त्यागिनो गृहिणस्तथा ।। ५ 

तत्र ये त्यागिनस्तेषु मुक्तानन्दोऽग्रणीरिह । पञ्चशता मत्प्रमुखैस्त्यागिभिः सह वर्तते ।। ६ 

अत्रागतोऽहं स्ननार्थं विलोक्य त्वां तपोनिधिम् । तवान्तिकमुपेतोऽस्मि दर्शनार्हस्य योगिनाम् ।। ७ 

अस्मज्जयेष्ठसतीर्थ्योऽपि योगपारं गतोऽस्ति हि । तपस्व्यपि कृष्णभक्तस्त्वादृशान् द्रष्टुमिच्छति ।८ 

आज्ञाया स्वगुरोरत्र त्वादृशां सेवनाय वै । सोऽस्माभिर्वर्तते साकं दर्शनार्हश्च देहिनाम् ।। ९ 

देयं स्वदर्शनं तस्मै भवतापि तपस्विना । नागमिष्यसि चेत्तत्र स एवात्रागमिष्यति ।। १०

सुव्रत उवाच -

इत्याश्रुत्य वचस्तस्य वर्णिराट् प्राह तं नृप ! । तीर्थयात्राफलं जानंस्तादृग्योगीन्द्रदर्शनम् ।।११ 

ग्रामं पुरं वापि मुने! प्रविशामि न कर्हिचित् । वृक्षं नवं नवं नित्यं वनेष्वधिवसन्नहम् ।।१२ 

तथापि तादृग्योगीक्षां सर्वतीर्थतपःफलम् । जानामीति त्वया साकमायाम्यद्य तमीक्षितुम् ।।१३

इत्युक्त्वा सद्य उत्थाय साकं तेन तदाश्रमम् । आयात्प्रत्युग्दमं तस्य मुक्तानन्दादयो व्यधुः ।।१४ 

स तांस्ते तं नमस्कृत्य यथोचितमुपाविशन् । सर्वेऽपि सन्तस्तं वीक्ष्य प्रापुराश्चर्यमेव ते ।।१५ 

जाज्वल्यमानं तपसा मनोनयननन्दनम् । पश्यन्तः शान्तमूर्तिं तं बहुधा ते व्यतर्कयन् ।।१६ 

अहो ! तपस्विनो दृष्टा बहवो योगिनो भुवि । ईदृशस्तु न कोऽप्यैक्षि न श्रुतोऽप्यत्र साम्प्रतम् ।१७

क्वेदमुग्रं तपः क्वेदं बालखेलोचितं वयः । ततः साधारणो नायं पुमान् काऽप्यस्ति देवता ।। १८ 

सूर्यश्चन्द्रोऽथवा वह्निः कुमारो वा नराकृतिः । श्रुतो निरन्नमुक्तो वा मूर्तिमत्तप एव वा ।। १९ 

अस्तु यः कोऽपि दिष्टयाद्य दृष्टोऽस्माभिस्तपोनिधिः । सेवयाऽस्यास्मदुपरि श्रीस्वामी तोषमेष्यति ।२० 

इत्थं वदन्तस्ते तस्य परिचर्यां प्रचक्रिरे । मुक्तानन्दः स्वागतादि पृष्ट्वाऽतिथ्यमकारयत् ।। २१ 

वर्णिराजोऽपि तान्साधूत्कलावपि जितेन्द्रियान् । धिया सुशीलान्निश्चित्य स्वसङ्गार्हानमन्यत ।। २२ 

ततो मुक्तानन्दसंज्ञां तं महान्तं परीक्षितुम् । स बहुर्विनयेनैव पृच्छति स्म बुभुत्सुवत् ।। २३

श्रीनीलकण्ठ उवाच - 

महामुनेऽतिसुज्ञोऽसि सम्मतोऽसि सतामपि । पृच्छामि यदहं तस्य कर्तुमुत्तरमर्हसि ।। २४ 

रूपाणि जीवेश्वरयोर्मायाया ब्रह्मणस्तथा । परस्य ब्रह्मणश्चाहं विवित्सामि पृथक् पृथक् ।। २५

सुव्रत उवाच - 

सूक्ष्मं प्रश्नमिति पृष्टः स मुनिस्तेन वर्णिना । यथाश्रुतं गुरुमुखात्तथोवाच तदुत्तरम् ।। २६

मुक्तानन्दमुनिरुवाच - 

स्थूलादिदेहत्रितयमानखादाशिखं च यः । व्याप्येन्द्रियान्तःकरणैः करोति विविधाः क्रियाः ।। २७ 

अजो नित्यः शाश्वतश्च निरंशश्च प्रकाशकः । सोऽच्छेद्यादिगुणो ज्ञोयो जीवात्मा वर्णिसत्तम ! ।। २८

देहत्रये विराडादौ व्याप्योत्पत्तिस्थितिक्षयान् । करोति जगतां यस्तु सर्वज्ञो ज्ञोय ईश्वरः ।। २९ 

जन्मक्षेत्रं च जीवानामनादिश्चिज्जडात्मिका । तमोमयी हरेः शक्तिः कार्यकारणरूपिणी ।। ३० 

गुणत्रयात्मिका चाजा या चोक्ताऽज्ञानसंज्ञिाका । सा मायेति त्वया ज्ञोया यां तरन्त्याश्रिता हरेः ।।३१

सत्यं ज्ञानमनन्तं च पूर्णं चाखण्डमक्षरम् । धाम यद्वासुदेवस्य मूर्तं चामूर्तमुच्यते ।। ३२ 

शुद्धं नित्यं चाविकारि मायादीनां प्रकाशकम् । तद्ब्रह्मेति विजानीहि सर्वाधारतया मतम् ।। ३३ 

नारायणो वासुदेवः स्वतन्त्रः स्वप्रकाशकः । आनन्ददिव्यमूर्तिश्च विष्णुः कृष्णोऽच्युतोऽव्ययः ।३४ 

सर्वज्ञाः सत्यसङ्कल्पः सर्वकर्मफलप्रदः । अन्तर्यामी सर्वशक्तिसेवितः परमेश्वरः ।। ३५ 

सर्वत्रैवान्वितः शक्तया व्यतिरिक्तः स्वतः स्थितः । नियन्ता कालमायादेः सर्वकारणकारणम् ।३६ 

परमात्मेति यत्प्राहुस्तत्परंब्रह्म कथ्यते । उपासनीयं सर्वेषामेतदेव मुमुक्षताम् ।। ३७ 

इत्युत्तरं मया प्रोक्तं यथामति यथाश्रुतम् । व्याख्यानं विस्तरेणास्य जानात्यस्मग्दुरु प्रभुः ।। ३८ 

रूपाण्येतानि च स्वामी स तु प्रत्यक्षमीक्षते । मुमुक्षुभ्यः स्वौजसा च तानि दर्शयतेऽपि सः ।।३९

सुव्रत उवाच -

इत्युक्त्वा विररामासावौद्धवीयाग्रणीर्मुनिः । सोऽपि तद्वचनं श्रुत्वा प्रसन्नो वर्णिराडभूत् ।। ४० 

ऋजुं निष्कपटं साधुं तं निश्चित्याब्रवीच्च सः । त्वयोत्तरं यथार्थं वै मुने ! कृतमसंशयम् ।। ४१ 

बहुभ्यः शास्त्रविद्बयोऽपि पृष्टमेतन्मया पुरा । केनापि नेदृशं युक्तं कृतमुत्तरमस्य तु ।। ४२ 

यूयं महान्तः सर्वे स्थ यथाशास्त्रोक्तलक्षणाः । सन्तोऽद्य वो दर्शनेन ममानन्दो महानभूत् ।। ४३ 

मुक्तानन्दोऽथ तं प्राह मयाप्यत्र सहस्रशः । दृष्टास्तपस्विनः ख्यातास्त्वादृशस्तु न कश्चन ।। ४४ 

ईदृक्प्रश्नं विधातुं च बोद्धुं वापि तदुत्तरम् । तवैव बुद्धिर्योगीन्द्र ! सर्वोपर्यद्य वर्तते ।। ४५ 

नीलकण्ठोऽथ तान्साधून् साधुलक्षणशालिनः । ज्ञात्वा दिनानि कतिचित्सेव्यमान उवास तैः ।४६ 

तं कोऽपि ब्रह्मविद्यायाः प्रश्ने प्रश्नोत्तरेऽपि वा । नातिचक्राम मतिमान् प्राकृते संस्कृते तथा ।।४७ 

दृष्ट्वातिमानुषीं बुद्धिं तेऽपि सर्वे विचक्षणाः । साधारणां नरधियं तस्मिन्नैव हि चक्रिरे ।। ४८ 

अलब्धपारास्ते सर्वे साश्चर्यं तस्य वर्णिनः । नराकृतेर्भगवतः शुश्रूषामेव चक्रिरे ।। ४९ 

श्रृण्वन्कथाः पुण्यतमाः स नित्यं रासेश्वरीप्राणपतेर्मनोज्ञाः ।
सद्भ्योऽतिभावेन सदा स्थिराक्षस्तत्रापि भूपाल ! तपश्चकार ।। ५०

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे मुक्तानन्दादिसाधुसमागमनामैकपञ्चाशत्तमोऽध्यायः ।। ५१ ।।