सुव्रत उवाच -
साधवस्ते वर्णिनोऽस्य ध्यानदृक्स्थिरतां सदा । पश्यन्तो विस्मयं प्रापुर्मुक्तानन्द उवाच तम् ।। १
दृक्स्थैर्यं सर्वकालं ते दृश्यते वर्णिसत्तम! । कां देवतां ध्यायसि त्वं वक्तुमर्हसि तत्तु नः ।। २
श्रीनीलकण्ठ उवाच -
श्रीराधिकेशो भगवान् योऽस्ति सर्वेश्वरोऽनघ ! । इष्टदेवः स एवास्ति मम सच्छास्त्रसम्मतः ।। ३
ब्रह्मधर्मशिवादीनां देवानामपि देवता । वराहाद्यवताराणां धर्ता कृष्णः परं बृहत् ।। ४
ध्यायामि तमहं नित्यं पूजयामि च तं मुने ! । कीर्तयामि च तन्नाम यदाहुः कलितारकम् ।। ५
संसारे भ्रमतां पुंसां दुःखितानां स्वकर्मभिः । कृष्णमेकं विना नान्या गतिरस्ति कलाविह ।। ६
श्रीमतोऽस्य गवेन्द्रस्य चरणाम्बुरुहान्मम । अन्यत्राणुरपि प्रीतिः क्वापि नास्त्येव सर्वथा ।। ७
सुव्रत उवाच -
इत्युक्तवन्तं तं ज्ञात्वा कृष्णभक्तं महामतिम् ।प्रीतो मुक्तानन्द ऊचे राजन्भागवतप्रियः ।। ८
मुक्तानन्दमुनिरुवाच -
सर्वे भजामः श्रीकृष्णं वयमप्यधुना भुवि । कृपया सग्दुरोरेव पश्यामो हृदयेऽपि तम् ।। ९
रामानन्दाख्यया लोके प्रसिद्धो ह्युद्धवः स्वयम् । अस्माकं सग्दुरुः सोऽस्ति श्रयणीयो मुमुक्षताम् ।
कृपां स कुरुते यस्मिन्स समाधौ समीक्षते । गोलोकेऽखण्डरासस्थं श्रीकृष्णं मुरलीकरम् ।। ११
भवादृशस्तु ये ब्रह्मन्भक्तिधर्मतपोन्विताः । प्रत्यक्षदर्शनं दत्ते तेभ्यः कृष्णश्च तद्वशः ।। १२
पृथक्तया न पश्यामः श्रीकृष्णात्तं वयं त्विह । यतस्तदात्मना कृष्णः श्रेयसे वर्तते नृणाम् ।। १३
मुमुक्षूणां गुरुत्वं च तस्मिन्नेव हि भूतले ।स्वयं कृष्णेन निहितमस्ति तं जानतात्मवत् ।। १४
अतो गुरुपदं ब्रह्मन्नास्त्यन्यत्र हि साम्प्रतम् । अत्र श्रीमद्बागवतश्लोकौ श्रृण्वादिमाश्रम ! ।। १५
अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् । अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः ।। १६
नोद्धवोऽण्वपि मन्न्यूनो यग्दुणैर्नार्दितः प्रभुः । अतो मद्वयुनं लोकं ग्राहयन्निह तिष्टतु ।। १७
इत्थं प्राह स्वयं कृष्णस्तस्माद्वयमिहानघ ! । तमाश्रितास्तदाज्ञायां स्थिताः कृष्णं भजामहे ।। १८
सुव्रत उवाच -
एवं मुक्तानन्दवचः श्रृण्वतस्तस्य वर्णिनः । पित्रुक्ततग्दुरुत्वादिस्मृतिरासीन्नरेश्वर ! ।। १९
ततः प्रत्यक्षकृष्णस्य कर्तुं दर्शनमुत्सुकः । आसीद्रामानन्दमुनेः कृपां सम्पाद्य सेवया ।। २०
ततः प्रणम्य तं प्रीत्या प्राहाहमपि सन्मते ! । यौष्माकीणो भवामीति शासनीयस्त्वया हितम् ।। २१
यथा च दर्शनं तस्य शीघ्रं मे स्यात्तथा कुरु । इत्युक्त्वा जन्मकर्मादि स्वस्य सङ्क्षेपतोऽवदत् ।।२२
ततस्तमग्रजन्मानं मानयन्स सदग्रणीः । उवाच त्वं हि धन्योऽसि कुरुषे सार्थकं जनुः । २३
साम्प्रतं सग्दुरुः स्वामी त्वास्ते भुजगपत्तने । द्वित्रैर्मासैरिह पुनः समायास्यति निश्चितम् ।। २४
भवेत्तद्दर्शनेच्छा चेदस्मद्वचसि सर्वथा । विश्वस्य निवसात्रैव तावदत्रत्यवर्णिवत् ।। २५
ततः स न्यवसत्तत्र सद्बिर्मानित आदरात् । तस्यागमं प्रतीक्ष्यैव स्वधर्मं पालयन्नृप ! ।। २६
निर्मानः स सिषेवे तांस्तत्रत्यान्साधुवर्णिनः । पत्रकाष्ठकरीषाद्यानयपाकक्रियादिभिः ।। २७
आर्तानां सेवनं चासौ सदन्नौषधवारिभिः । पादसंवाहनाद्यैश्च तत्रत्यानां मुदाचरत् ।। २८
तस्य साधुगुणान् दृष्ट्वा दुष्प्रापान्प्रयतैरपि । स्वगुराविव तस्मिंस्ते बभूवुः स्न्ग्धिचेतसः ।। २९
सोऽपि साधून्सेवमानो धर्मं भक्तिं च न त्यजन् । तप एवाचरन्नित्यमुद्धवेक्षोत्कमानसः ।। ३०
निवसन्भगवांस्तत्र गूढैश्वर्यो नृनाटयधृत् । तेषां स्वस्मिन् स्नेहवृद्धिः स्याद्यथा ववृते तथा ।। ३१
क्वचित् क्वचिन्निजैश्वर्यं किञ्चित्किञ्चिददर्शयत् । नरासाध्यां साधुतां च कला योगस्य दुष्कराः ।३२
ध्यायन्तो विजने कृष्णं सन्तः केचिद्धृदम्बुजे । हरिं तमेव ददृशुस्तेजःस्थं दिव्यविग्रहम् ।। ३३
रामानन्दस्वरूपं च तमेव हृदि केचन । तमेव स्फुरितं सन्तो यथादृष्टं व्यलोकयन् ।। ३४
क्वचित्तं हृदये दृष्ट्वा वर्णिरूपं क्षणान्तरे । तमेव ददृशुः सन्तो नारायणमृषिं पुनः ।। ३५
अलौकिकत्वमित्थं ते तस्य दृष्ट्वा तमीश्वरम् । मेनिरेऽथ नृनाटयेन तस्य तद्विस्मृतिं ययुः ।। ३६
केषाञ्चिद्ध्यानकालेऽथ बलात्कृष्णे स योजितम् । मनोऽन्यत्र व्रजदृष्ट्वा दूरस्थस्तानबोधयत् ।। ३७
तेनातिविस्मितास्ते च तत्स्वरूपस्य निश्चयम् । कर्तुं न शक्ता नृपते तमसेवन्त देववत् ।। ३८
क्वचिन्नेतीं क्वचिद्धौतिं क्वचिद्वस्त्यादिकाः क्रियाः । साश्चर्ये ददृशुस्ते च तस्य स्वेषां सुदुष्कराः ।३९
प्राणायामप्रभेदांश्च शून्यकेन सहैव तान् । क्वचित्स दर्शयामास योगिनामपि चित्रदान् ।। ४०
एकैकाङ्गे क्वचित्तस्य समाधौ प्राणधारणम् । विलोक्य साधवस्ते तं विविदू राजयोगिनम् ।। ४१
या या काचित्क्रिया तस्य तपश्चर्यादिका नृप ! । सा सा चित्रावहैवासीद्दुष्करत्वान्नृणां भुवि ।। ४२
अलौकिकक्रियोऽप्येवं स साधुगुणमाश्रितः । दासवत्साधुसेवायामवर्तत सतां प्रियः ।। ४३
समागतानन्नसत्रे तत्र सोऽभ्यागतानपि । तत्तदीप्सितदानेन तर्पयामास सर्वशः ।। ४४
तपान्त आसारसहो हिमर्तौ पाथः स्थितिः पञ्चतपा निदाघे ।
वसंश्च तत्रोग्रतपाः स इत्थं विस्मापयामास तपस्विनस्तान् ।। ४५ ।।
।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे रामानन्दस्वामिगुरुत्वनिरूपणनामा द्विपञ्चाशत्तमोऽध्यायः ।। ५२ ।।