त्रिपञ्चाशत्तमोऽथ्याय

सुव्रत उवाच - 

वसतस्तस्य राजेन्द्र! तत्र सन्मण्डले हरेः । मासाश्चैत्रो व्यतीतोऽपि नागात्स्वामी तु तत्र सः ।। १ 

तदातिचिन्तयास्विन्नस्तद्दिदृक्षाहृतान्तरः । गन्तुं भुजङ्गनगरं हरिरैच्छन्निराशवत् ।। २ 

अत्युत्कण्ठस्ततस्तस्य दर्शनार्थं स वर्णिराट् । मुनिं सदग्रगण्यं तं प्रणम्येदं वचोऽब्रवीत् ।। ३ 

कथं नायाति नः स्वामी पुरेऽस्मिन्भक्तवत्सलः । त्वत्कृता मासमर्यादा व्यतिक्रान्ता महामुने ! ।।४ 

प्रतिबन्धो भवति किं ममादृष्टं तदागमे । अन्यथा स कथं नेयात्स्वतन्त्रो जगतां गुरुः ।। ५ 

अहमेव गमिष्यामि मुने ! तन्निकषाऽधुना । आज्ञा प्रदीयतां मह्यं गन्तुं भुजगपत्तनम् ।। ६ 

इति तद्वाक्यमाकर्ण्य तं तु गन्तुं समुद्यतम् । सद्वाक्यैः प्रीणयन्प्राह मुक्तानन्दमुनिः सुधीः ।। ७ 

वैशाखस्यासिते पक्षे श्रीस्वामी स तु निश्चितम् । आगमिष्यति तर्ह्येव त्वं कुर्यास्तस्य दर्शनम् ।। ८ 

तपःकृशीकृताङ्गेन त्वया गन्तुं न साम्प्रतम् । शक्यं तपस्विप्रवर! ततोऽत्र स्वस्थमावस ।। ९ 

इतो दूरे पुरी सास्ति मध्ये चास्त्यब्धिखाडिका । महती विषमोत्तारा वस सन्मण्डलेऽत्र तत् ।। १० 

अधुना त्वत्सुवृत्तान्तां लिखित्वा पत्रिकामहम् । स्वामिने प्रेषयिष्यामि खेदं किञ्चन मा कृथाः ।११ 

तदुत्तरानुरूपा च त्वया गतिविचारणा । कार्या मतिमतां श्रेष्ठ ! त्वरितो मा भवाधुना ।। १२ 

विना तदाज्ञां तत्पार्श्वे गमने तु तवानघ ! । अभीष्टसुखदं नैव भवितेत्यद्य मा व्रज ।। १३

सुव्रत उवाच - 

एवमाश्वासितस्तेन सोऽवसत्तत्र वर्णिराट् । मुक्तानन्दोऽलिखत्पत्रीमुपविश्य रहः स्थले ।। १४ 

स्वस्ति श्रीमदनेकसग्दुणगणैर्नित्यं महासिद्धिभिर्नानाशक्तिभिरप्युपाश्रितपदं सद्बक्तलक्षैर्नुतम् ।। स्वेच्छाविष्कृतमानुषाकृतिमहं श्री स्वामिनं सग्दुरुंमुक्तानन्दमुनिर्भुजङ्गनगरानन्दं नमामीश्वरम् । १५ 

अत्र त्वत्कृपयैव लोजनगरे नस्त्वत्पदाब्जात्मनां भक्तानां वरिवर्तिसौख्यमथ तल्लेख्यं च यौष्माककम् ।
आज्ञायां तव सर्व एव हि वयं वर्तामहेऽत्र प्रभो ! पत्रप्रेषणकारणं भवति यत्तच्छ्रव्यमेवादरात् ।१६ 

अत्र कश्चन महामुनिवर्यः सङ्गतोऽस्ति खलु कोसलदेशात् । वर्तते धमनिसन्ततदेहो मूर्तिमत्तप इवोत्तमकान्तिः ।। १७ 

नीलकण्ठ इति स प्रथिताख्यो नीलकण्ठसमभूरिविरक्तिः ।
नीलकण्ठसखवत्सकलार्थ्यो नीलकण्ठरिपुदर्पहरेक्षः ।। १८ 

वर्णिवेषधर एष महात्मा ब्रह्मरूपसततस्थितिमाप्तः ।
निर्निमेषनयनः स्थिरगात्रो निष्परिग्रह उदारमतिश्च ।। १९ 

प्राप्त एष च किशोरवयोन्तं पुण्यतीर्थपरिशीलनदक्षः ।
सूक्ष्मवक्रलघुमञ्जुलकेशः स्पष्टकोमलमनोहरवाक्च ।। २० 

स्त्रैणगन्धमपि सोढुमशक्तो मानमत्सरविवर्जितचित्तः ।
न स्पृहां हृदि तु कस्यचिदेष कृष्णमेकमपहाय करोति ।। २१ 

जीर्णवल्कलमृगाजिनवासा मालिकाकर ऋजुक्रिय एषः ।
शिक्षयन्नपि मुनीन्मुनिधर्मान् शिष्यतां भजति नोऽत्र मुनीनाम् ।। २२ 

किञ्चिदन्नमरसं क्व च भुंक्ते क्व पि किञ्चन फलं च दलं वा ।
नीरमात्रमपि च क्वच पीत्वा वर्तते क्वचन वायुमशित्वा ।। २३ 

भैक्षभुक्कतिचिदेष दिनानि क्वापि कर्हिचदयाचिवृत्तिः ।
नक्तभुक्क्वच तृतीयदिनाशी दुश्चरं चरति कर्म मनुष्यैः ।। २४ 

अस्य वास ऋतुषु द्रुममूले षट्स्वपि ध्रुवमभीष्टतरोऽस्ति ।
एष सौधवसतिं तु निजान्तर्वेत्ति बन्दिभवनेन समानाम् ।। २५ 

ग्रीष्म एष उरुधाऽग्निनिषेवी स्थण्डिले स्वपिति चाम्बुदकाले ।
शैशिरे शिशिरतोयनिवासी शोषयत्यविरतं निजदेहम् ।। २६ 

बालखेल उचितं क्व वयो वा दुर्लभा क्व च सुसिद्धदशा वा ।
वीक्ष्य तद्द्वयमपि ध्रुवमस्मिन्संशया बहुविधा हि भवन्ति ।। २७ 

अस्य निर्मलतपोमयधाम्नि ह्यस्मदुग्रतपसां रुचयस्तु ।
व्योममध्यगतभास्करदीप्तौ दीपकान्तिसमतामुपयान्ति ।। २८ 

वेत्ति यः सकलयोगकला वा सोऽपि शिष्यपदवीं भजतेऽस्य ।
कौशलं किमपि कोऽपि नरोऽस्मै नैव दर्शयितुमात्मन ईष्टे ।। २९ 

शास्त्रजालकमनेन कियद्वा सग्दुरोरधिगतं भवतीति ।
निश्चयं तु विदधीत पुमान् यः सोऽत्र कश्चन न भाति पुरे वै ।। ३० 

पश्नमल्पमपि कुर्वति चास्मिन्कुण्ठिता इव धियो विदुषां वै ।
क्षीणतर्कततयः प्रतिवादे शून्यभावमुपयान्ति सभायाम् ।। ३१ 

संशयं कमपि शास्त्रविदापि पृष्ट एव झटिति त्वमिवैषः ।
युक्तियुग्बहुविधोत्तरदानैरेव किं प्रभुरिति प्रवितर्क्यः ।। ३२ 

ध्यानमास्थितवतां च मुनीनां सुस्थिरासनदृढस्थितिभाजाम् ।
मानसं बहिरितः क्व च निर्यद्वेत्त्यसाविव निजान्तरसाक्षी ।। ३३ 

तीक्ष्णदुर्जनवचःशरवृन्दैर्भिद्यते न हृदयं किल चास्य ।
संवृतं दृढतरक्षमया तद्वज्रसारसमतामुपयाति ।। ३४ 

अन्यदुःखलवदर्शनमात्रात्तत्क्षणे द्रवत एव हृदोऽस्य ।
मार्दवस्य कणिका किमु लेभे पद्मकोशनवनीतशिरीषैः ।। ३५ 

साधुता तु निखिला निजदृष्टया वीक्ष्यते मुनिवरेऽत्र यथा वै ।
न श्रुता खलु तथा क्वचनर्षौ त्वां विहाय जनतागुरुमेकम् ।। ३६ 

एतदीयचरितं निखिलं वै वीक्ष्य चेतसि ममेत्यपि भाति ।
अस्मदीयमतिदाढर्यपरीक्षां कर्तुमागत इहास्ति भवान्किम् ।। ३७ 

दर्शनोत्सुकमनास्तवचासावुद्यतोऽपि स मया निषिषेधे ।
प्रेषयेय तमहं तव पार्श्वे साम्प्रतं किमु न वेति तु लेख्यम् ।। ३८ 

इत्येतत्सूचनाहेतोः पत्रमेतद्यथामति ।
लिखितं तद्विलोक्यैष प्रेष्यं शीघ्रं तदुत्तरम् ।। ३९ 

सुज्ञोषु बहुना किं स्याल्लेखनेन ततः प्रभो ! ।
एतावदेव लिखितं कृपा कार्या सदा मयि ।। ४०

सुव्रत उवाच - 

पत्रमित्थं लिखित्वाऽथ वर्णिराजं जगाद सः । स्वामिने लिखितं पत्रं मया त्वमपि तल्लिख ।। ४१ 

पत्रं विलोक्य भवतः शीघ्रमायास्यति प्रभुः । इत्युक्तस्तेन मुनिना सोऽलिखत्पत्रिकां सुधीः ।। ४२ 

उपविश्य रहःस्थले निजोरौ फलके काकुदपत्रकं निधाय ।
स तु दक्षकरात्तलेखनीको लिखति स्मानतकन्धरः सुवर्णम् ।। ४३

।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
मुक्तानन्दलिखितपत्रिकानिरूपणनामा त्रिपञ्चाशत्तमोऽथ्यायः ।। ५३ ।।