चतुःपञ्चाशत्तमोऽध्यायः

सुव्रत उवाच -


स्वभावगर्भितां पत्रीं वर्णीन्द्रः स यथाऽलिखत् । तथा तां नृपते ! तुभ्यं कथयामि निशामय ।।१ 

स्वस्ति श्रीविलसद्बुजङ्गनगरे राजाधिराजश्रिया जुष्टाङ्घ्र्रिः प्रथयन्भृशं विजयते श्रीकृष्णभक्तिं भुवि ।
नानासग्दुणसन्मणीन्द्ररचिताकल्पो गुरूणां गुरुः स्वेक्षाकृष्टनिजाश्रिताखिलभयः श्रीस्वाम्युदारश्रवाः ।२ 

साक्षादुद्धव एव यस्यनुभृतां निःश्रेयसायावितुं धर्मं चाजयविप्रतश्च सुमतौ जातो ह्ययोध्यापुरे ।
स्वामिंस्तं तु भवन्तमेव शतशो नत्वा निपत्य क्षितौ विज्ञाप्तिं विदधे त्वदेकशरणोऽहं नीलकण्ठद्विजः ।३

विहाय सम्बन्धिजनान्निजानहं निजं च देशं किल कोसलाभिधम् ।
तीर्थानि कुर्वन्निह लोजपत्तने स्थितोऽस्मि सङ्गत्य विभो ! त्वदाश्रितान् ।। ४ 

कृष्णस्य साक्षादहमीक्षणार्थे प्रत्यब्दमेवेह तपान्त आदरात् ।
व्रतं तु मासांश्चतुरः करोमि यद्धारणापारणमित्युदीरितम् ।। ५ 

मासोपवासं विदधे तथोर्जे कृच्छ्राणि वा कर्हिचिदत्र कुर्वे ।
चान्द्रयणं चानघ ! माघमासे पाराककृच्छ्रं च विभो ! तदर्थम् ।। ६ 

एकादशीमुख्यतमाऽस्ति येषां व्रतानि नित्यानि च तानि कुर्वे ।
कृष्णस्य तोषाय न देहदुःखं किञ्चित्स्वचित्ते गणयामि नूनम् ।। ७ 

हित्वैन्द्रियान्पञ्च च शब्दमुख्यान्सुदुस्त्यजानप्यतुलप्रताप ! ।
त्वगस्थिरोषं स्ववपुर्मया वै चक्रे तपोभर्जितरक्तमांसम् ।। ८ 

तद्दर्शनाशामृतवल्लिमेकामालम्ब्य देहेत्वसवश्चलन्ति ।
न त्वन्यदालम्बनमस्ति तेषां यियासतामन्नविहीनदेहात् ।। ९ 

निरन्नदेहेऽस्थिषु वर्तमानाः प्राणामदीयाः प्रणतार्तिहन्तः ! ।
अन्नात्मके ह्यत्र कलौ नराणां कुर्वन्ति वै सत्ययुगभ्रमं तु ।। १० 

अष्टाङ्गयोगाभ्यसनार्जितेन क्रिया ममैश्वर्यबलेन सर्वाः ।
दैह्या भवन्तीति विभो ! विदित्वा कृपां कुरु त्वं मयि कृष्णभक्ते ।। ११ 

पिता च माता मम कृष्ण एव स्वामी च बन्धुश्च गुरुः सुहृच्च ।
तस्मिन्नमम स्नेहभरोऽस्ति पूर्णो ह्यन्यत्र तु स्याद्यदि तत्परत्वम् ।। १२ 

पञ्चेन्द्रियाणां विषयोपभोगप्रदस्य मेऽपि स्वसुहृज्जनस्य ।
कृष्णे न चेत्स्यादनुराग ईशे तं तर्हि जह्यां रिपुवद्धि सद्यः ।। १३ 

स्नेहेन मत्पोषणकारिणोऽपि तातं प्रसूं सोदरमप्यहं स्वम् ।
वीक्षेय चेत्तद्विमुखान्कदाचित्सद्यः प्रजह्यां किमुतान्यबन्धून् ।। १४ 

ब्रूया यदि त्वं निजबन्धुवर्गत्यागे भवेद्दोष इतीह वच्मि ।
तद्बक्तिहीना निजबन्धवोऽपि प्राचीनभक्तैर्बहुभिः प्रहाताः ।। १५ 

विभीषणो भ्रातरमप्यहासीत्प्रसूं स्वकीयां भरतश्च तद्वत् ।
कुलं जहौ स्वं विदुरोऽपि भक्तः सर्वान्स्वबन्धूनपि चर्षिपत्न्यः ।। १६ 

श्रीकृष्णसङ्गप्रतिषेधकर्तृन् गोप्यो जहुः स्वांश्च पतीनपीश! ।
कृच्छ्रेण लब्धं तनयं च वेनं त्यक्त्वा नृपोऽङ्गोऽपि जगामदावम् ।। १७ 

इत्यादयः सन्ति विभो ! ह्यनेके तद्बक्तिहीनस्वजनत्यजोऽत्र ।
नैवापकीर्तिः क्वचनापि तेषां लोके च शास्त्रेऽपि च कीर्तिरस्ति ।। १८ 

ईदृक्सतां वर्त्म भवत्यनादि कृष्णे मयाऽतश्च तदीयभक्ते ।
विधीयते प्रेम विमुक्तिहेतुर्नान्यत्र तु क्वापि पदार्थ ईश ! ।। १९ 

सन्तोऽत्र ये सन्ति च तावकीना निवृत्तिनिष्ठा मम ते तु पूज्याः ।
सर्वस्वमेते च भवन्ति मे वै माहात्म्ययुक्तत्परभक्तिबोधाः ।। २० 

येषां न तस्मिन्निह भक्तिभाजां सङ्गोऽस्ति तान्वेद्मि नरानहं तु ।
अनश्वकौलेयकषण्डतुल्यान् यद्वीक्षणेनापि भवेद्धि दोषः ।। २१ 

सक्तास्तु ये वैषयिकेऽत्र सौख्ये निद्राभयक्रोधषडूर्मिजुष्टाः ।
तेषां नराणां च विभो! पशूनां वीक्षे विशेषं नहि कञ्चनापि ।। २२ 

नृजन्म देवास्त्रिदशालये यत्स्तुवन्ति तत्तेषु न किञ्चिदस्ति ।
तद्बक्तियुन्जन्म नृजन्म देवस्तुत्यर्हमस्तीत्यहमीश ! जाने ।। २३ 

तद्बक्तिहीनः कुलरूपकीर्तिनानागुणैश्वर्ययुतोऽपि यस्तम् ।
अन्तर्विषं वीक्षणमात्ररम्यं फलं गवाक्ष्या इव लक्षयामि ।। २४ 

अल्पोऽपि तद्बक्तिगुणो नराणां ग्राह्यान्करोत्येव गुणानशेषान् ।
सुसंस्कृतान्वाऽक्षिवमत्र शाकान् हेया भवन्तीतरथा तु ते वै ।। २५ 

तद्दास्यहीनः स्वतपोबलेन ब्रह्मादिलोकानपि चेत्प्रयायात् ।
तत्रापि कालाद्बयमस्ति तस्य नानन्तसौख्यं त्विति वेदसिद्धम् ।। २६ 

ब्रह्मेशशक्रा अपि सिद्धिभाजो ब्रह्मैक्यनिष्ठाश्च शुकादयोऽस्य ।
कुर्वन्ति भक्तिं ननु मानहीना यथेतरे संसृतिमुक्तिकामाः ।। २७ 

तस्मिन् गुणाः सन्ति हि तादृशा वै भक्तिं यथामुक्तिजुषोऽपि कुर्युः ।
राधारमाद्या अपि शक्तयस्तं भजन्ति सम्राजमिव स्वदास्यः ।। २८ 

अल्पाश्च जीवा अपि तस्य भक्तया भवन्ति नूनं गतकालभीकाः ।
विना तु तां ब्रह्ममुखेश्वराणामप्यस्ति कालाद्बयमेव भूरि ।। २९ 

माहात्म्यमीदृग्भुवि तस्य सद्बयः सच्छास्त्रतश्चाहमवेत्य भक्तिम् ।
तत्रैव कुर्वे विदधत्तपांसि भक्तप्रियोग्राणि विहाय तन्द्राम् ।। ३० 

प्रत्यक्षवीक्षामनवाप्य तस्य न स्वास्थ्यमाप्नोमि तदुत्कचेताः ।
अत्रत्यसद्वाक्यगुणावबद्धो वर्ते प्रतीक्ष्यागमनं तवैव ।। ३१ 

कीर्तिं विना तस्य मनोज्ञागानं विचित्रपद्यानि च लोकशब्दाः ।
तदेकचित्तस्य ममेश ! कर्णे तिग्माग्रशूलत्वमिहोपयान्ति ।। ३२ 

स्त्रियः सुरूपा अपि यातुधानीसमा हि मे दृष्टिपथं प्रपन्नाः ।
अङ्गारवत्तस्य सुपुष्पमाला भवन्ति कण्ठं च ममोपपन्नाः ।। ३३ 

श्रीखण्डकाश्मीरजकेसरादिविलेपनं मे शितिपङ्कतुल्यम् ।
तच्चिन्तनैकात्मरतेर्मुनीन्द्र ! प्रासादवर्योऽपि वनायते मे ।। ३४ 

घनानि सूक्ष्माणि सदंशुकानि व्यात्तास्य कृष्णाहिसमानि देव ! ।
विचित्रभोज्यानि विषोपमानि भवन्ति मे तद्विरहातुरस्य ।। ३५ 

यत्किञ्च लोके सुखहेतुरुक्तं तद्वस्तु मे दुःखमयं हि भाति ।
तस्यावलोकं भगवन्नलब्ध्वा प्राप्तोऽस्मि चोन्मत्तदशामहं वै ।। ३६ 

मनोरथस्यास्य फलोपलब्धिस्त्वदङ्घ्रिसंसेवनमन्तरेण ।
कथञ्चनापीह भवेन्न मे वै कलौ त्वमेवासि जगग्दुरुर्यत् ।। ३७ 

अतः कृपामाशु विधाय तावत्स्वदर्शनं देयमुदारकीर्ते ! ।
यावन्न देहो निपतेन्मदीयो दयानिघे! स्वाश्रितजीवबन्धो ! ।। ३८ 

 
सुव्रत उवाच - 

पत्रमित्थं नीलकण्ठो लिखित्वा भक्तिभावतः । मुक्तानन्दाय मुनये ददाति स्म जनाधिप ! ।। ३९ 

स्वपत्रं तस्य पत्रं च सोऽप्येकीकृत्य बुद्धिमान् । संवाल्य मुद्रयित्वा च नामोपर्यलिखग्दुरोः ।। ४० 

मयरामाख्यविप्रेण साकं तत्प्रैषयत्ततः । स्वभावाच्छीघ्रगतिना सदर्थं तु विशेषतः ।। ४१ 

भुजङ्गनगरं प्राप्य सप्तमेऽहनि स द्विजः । गृहे गाङ्गेयभक्तस्य तं ददर्श जगग्दुरुम् ।। ४२ 

भक्तानानन्दयन्तं नवनलिनदलव्यायताक्षिद्वयं तं ।गौराङ्गं पुष्टगात्रं शशधरवदनं श्रीमदाजानुबाहुम् ।।
वस्त्रे श्वेते वसानं कुटिलितभृकुटिं मन्दहासं प्रसन्नं ।शोणाम्भोजन्मराजन्मृदुलपदयुगं स प्रणम्यार्पयत्तत् ।। ४३ 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे श्रीनीलकण्ठलिखितपत्रिकानिरूपणनामा चतुःपञ्चाशत्तमोऽध्यायः ।। ५४ ।।