पञ्चपञ्चाशत्तमोऽध्यायः

सुव्रत उवाच -

वाचयामास तत्पत्रद्वयं स मुनिराट् ततः । प्रसन्नोऽभूत्समायातं विदित्वा वर्णिसत्तमम् ।। १ 

स्वस्मिन्भावं तदीयं च तपश्चर्यां च वाचयन् । अभूग्दग्ददकण्ठश्च साश्रुनेत्रो जगग्दुरुः ।। २ 

पत्रवृत्तान्तमखिलं भक्तान्सुन्दरजिन्मुखान् । श्रावयन्सदसि स्वामी प्रशशंस च तग्दुणान् ।। ३ 

ततस्तमाश्वासयितुं मुक्तानन्दाय धीमते । स्वयं लिलेख पत्रं च तत्पत्रोत्तरगर्भितम् ।। ४ 

स्वस्त्यस्तु लोजाख्यपुरे वसद्बयः साधुभ्य आनन्दितदुःखितेभ्यः ।
बृहद्व्रतं चास्तु निरन्तरायं ब्रह्मेति यत्प्राह सनत्सुजातः ।। ५ 

भुजङ्गपुर्यां वसताऽत्र रामानन्देन बह्वी प्रहिता शुभाशीः ।
ग्राह्यास्मदीयं कुशलं च मुक्तानन्देन वेद्यं भगवत्प्रसादात् ।। ६ 

पत्रं त्वया यन्मयरामनाम्ना विप्रेण साकं प्रहितं तदाप्तम् ।
तद्वाचयित्वा निखिलोऽप्युदन्तो मया यथावद्विविदे त्वदीयः ।। ७ 

बुद्धश्च वृत्तान्त उदारबुद्धेस्तत्रागतस्यापि च वर्णिराजः ।
अस्यास्ति वृत्तिः सकलातिमर्त्या ततो न साधारणपूरुषोऽसौ ।। ८ 

श्वेतान्तरीपात्तु निरन्नमुक्तः कश्चिन्मुनीन्द्रो बदरीवनाद्वा ।
यदृच्छया वोऽन्तिकमागतः स्यादिति ध्रुवं मे प्रतिभाति चित्ते ।। ९ 

अतः परं तस्य मनोनुकूला सेवा विधेया सततं भवद्बिः ।
सद्बिः समस्तैः स्वबृहद्द्रतस्य गुप्त्यै ततो योगकलाश्च शिक्ष्याः ।। १० 

नेती च धौतिर्द्विविधा च बस्तिर्नौली क्रियाः कौञ्जरिकादयश्च ।
शरीरशुध्द्यै प्रथमं तु शिक्ष्या अष्टाङ्गयोगश्च ततः क्रमेण ।। ११ 

यमाश्च शिक्ष्या नियमासनानि प्राणोपयामो बहुभिः प्रकारैः ।
प्रत्याहृतिश्चेश्वरधारणा च ध्यानं समाधिश्च तदुक्तरीत्या ।।१२ 

अष्टाङ्गयोगाभ्यसनं विना तु बृहद्व्रतं सिध्द्यति नैव शुद्धम् ।
अतस्तदभ्यासपरैर्भवद्बिः साध्यं तदात्मव्रतरक्षणाय ।। १३ 

ये ब्रह्मचर्यं तु बृहत्स्वरूपं योगेन संसाध्य जितेन्द्रियाःस्युः ।
ब्रह्मात्मना कृष्णमथो भजेयुः प्रोक्तास्त एवोत्तमभक्तसंज्ञाः ।। १४ 

सर्वार्थदस्यास्य बृहद्व्रतस्य सम्पादितस्याप्यवनं विधेयम् ।
कामाख्यशत्रोर्वनिताप्रसङ्गं सर्वात्मना दूरत एव हित्वा ।। १५ 

यो ब्रह्मचर्यं परिपातुमिच्छेत्स बुद्धिपूर्वं वनिता न पश्येत् ।
स्त्रीणां कथा नो श्रृणुयाच्च वार्तास्तासां गुणान् नाप्यगुणान्वदेच्च ।। १६ 

गच्छेन्न योषारमणस्थलं च बालामपीक्षेत धिया न नग्नाम् ।
स्त्रीणां न चित्रं प्रतिमां च पश्येन्न च स्पृशेन्नैव लिखेच्च चित्रम् ।। १७ 

न नर्मवार्ताः क्वचनापि कुर्यात्स्त्रीभिर्न भाषेत च किञ्चनापि ।
स्त्रीभिः सहाध्वन्यपि नैव गच्छेन्न बोधयेत्ताः पुरुषान्तरेण ।। १८ 

स्पृशेन्न च स्त्रीपरिधार्यवस्त्रं सङ्कल्पनं तद्विषयं न कुर्यात् ।
प्राणान्तकालेऽपि न बुद्धिपूर्वं स्पृशेत्तदङ्गं त्विह कृष्णभक्तः ।। १९ 

स्यात्तत्क्रिया यत्र च यत्र या या कुर्यान्न तां तामपि तत्र तत्र ।
स्त्रीभ्यश्चतुर्हस्तमितान्तरेण गच्छेत्स्वपेन्नैव गृहै सयोषे ।। २० 

इत्थं सदाचारपरस्तु योगी स्यादूर्ध्वरेता विधिमुख्यवन्द्यः ।
एतैरूपायैः स्वबृहद्व्रतं तत् कामाख्यशत्रोः परिरक्षणीयम् ।। २१ 

कुर्याद्य इत्थं न स तूर्जितोऽपि योगी स्वसङ्कल्पवशः प्रसङ्गम् ।
स्त्रीणां करोत्येव ततोऽष्टमात्स्वाद्बृहद्व्रताद्भ्रष्ट उपैति दुःखम् ।। २२ 

क्रोधश्च मानो मदमत्सरौ च लोभस्तथेर्ष्या विविधो रसश्च ।
एतेऽपि योगस्य भवन्ति विघ्नास्त्याज्यास्ततो योगिजनेन दूरात् ।। २३ 

आहारनिद्रे विदधीत युक्ते कार्ष्णश्च योगी व्यसनं तु किञ्चित् ।
सेवेत नैवाथ सुरां च मांसं न च स्पृशेद्रोहधियं त्यजेच्च ।। २४ 

देहेन वाण्या मनसा स हिंसा कार्या न कस्यापि न चात्मनोऽपि ।
स्तेयं च साङ्गर्यकरं च कर्म हितार्थिना योगिजनेन वर्ज्यम् ।। २५ 

एवंविधा ये पुरुषा भवेयुः स्वधर्मनिष्ठा भुवि कृष्णभक्ताः ।
प्रसन्नता तेषु सदा ममास्ति प्रेष्ठास्त एवानघ ! नन्दसूनोः ।। २६ 

तस्मात्सुबुद्धे ! त्वमपि स्वकीयैः साकं सतीर्थ्यैर्मुनिनीलकण्ठात् ।
कृताग्दुरुत्वेन गृहाण योगं वर्तस्व धर्मेषु मयोदितेषु ।। २७ 

तपःकृशस्यास्ययथोपयुक्तैः सेवा विधेयान्नजलादिभिश्च ।
वयोऽवरत्वादिह बालबुद्धिर्न क्वापि कार्या तपसां निधौ च ।। २८ 

द्रागागमिष्यामि निदाघकाले राधे गते पिप्पलनाम्नि खेटे ।
तावद्बवद्बिः स तु सेवनीयो यथा न गच्छेदतिनिःस्पृहोऽसौ ।। २९ 

 
सुव्रत उवाच - 

पत्रोत्तरं लिखित्वेत्थं मुक्तानन्दं प्रति प्रभुः । उत्तरं नीलकण्ठस्य पत्रिकाया लिलेख सः ।। ३० 

स्वस्ति स्ताद्वर्णिराजेऽमृतनिलयमहामुक्तमुख्यातिधाम्ने । तीव्रैः स्वीयैस्तपोभिर्जनहृदि दधते धर्मपुत्रत्वशङ्काम् ।।
रामानन्दस्य वाच्या निगमनिगादिता आशिषो धर्मरक्षा । बह्वयस्तेन त्वयातिप्रमुदितमुनिना श्रेयसे नीलकण्ठ ! ।। ३१ 

पत्रं प्राप्तं त्वदीयं तदुदितमखिलं बुद्धमेवास्ति वृत्तं । देहाचारस्तपस्ते त्विह हि कलियुगे दुश्चरो मर्त्यधर्मैः ।।
वैराग्यं ज्ञानभक्ती दृढतरनियमा धर्मनिष्ठा च शान्तिरे । तत्प्राग्जन्मसिद्धं ह्यधिगतमिह तद्विस्मयो नात्र कार्यः ।। ३२ 

ध्याने यादृशमेव पश्यसि सदा कृष्णोऽस्ति तादृक्तत- । स्त्वं तद्धयानपरश्च सत्सु निवसन्कुर्याः प्रतीक्षां मम ।।
ग्रामे पिप्पलनाम्नि राधविरतौ युष्मत्प्रियाय द्रुतं । ह्यायास्याम्यहमेव तत्र भवताऽगम्यं च सद्बिः सह ।। ३३ 

मद्वीक्षोत्सुकतास्ति तेऽतिशयिता जानामि तत्कारणं । मार्गः साम्प्रतमस्ति दुर्गमतरः कङ्कादिधाटीभयात् ।।
नागन्तव्यमिहात एव भवता मय्यस्ति चेदिज्यधी- । स्तर्ह्येतन्मम मानयंश्च वचनं योगं सतः शिक्षयेः ।। ३४ 

औत्सुक्यं भवतो मदीक्षणकृते यादृग्भवत्यन्तरे । तादृग्मेऽपि तवेक्षणाय भवतीत्येवं त्वया बुद्धयताम् ।।
आयास्यामि ततो द्रुतं च भवता स्थेयं स्वधर्मे सदा । त्वादृग्धार्मिकभक्तसङ्गममहं याचे यशोदासुतात् ।। ३५ 

ये स्युर्धर्मपरायणा भुवि जनास्तेऽतिप्रियाः सन्ति मे । तेषां दूरगतो न कर्हिचिदहं तल्लग्नचित्तत्वतः ।।
सन्तस्त्वादृश एव मे बहुमता यत्पादवारि ध्रुवं । तीर्थेभ्योऽपि नृणां विशुद्धिमधिकां स्पृष्टं विधत्ते द्रुतम् ।। ३६ 

भोजयन्ति भुवि पूजयन्ति वा ये तु साधुपुरुषान्भवादृशान् । तैश्चराचरमिदं सदैवतं पूजितं च बहुधा सुभोजितम् ।। ३७
प्रीतिरस्ति मम सत्सु यादृशी तादृशी तु न निजेऽपि चात्मनि । सन्त एव हृदयं भवन्ति मे कृष्णभक्तिरसिकाश्च धार्मिकाः ।। ३८ 

खेदितव्यमत एव न त्वया वीक्षणाय मम यत्समागमः ।
आवयोर्झटिति सम्भविष्यति ग्राम एव ननु पिप्पलाह्वये ।। ३९ 

आगमोऽत्र भवता विनाज्ञाया नैव कार्य इति मेऽनुशासनम् ।
स्वेच्छयैव यदि वागमिष्यसि प्राप्स्यसे न हि सुखं तदेप्सितम् ।। ४० 

दर्शनप्रियतया मम त्वया मन्निदेशमतिलङ्घय सर्वथा ।
नागमोऽत्र तु विधेय आदरः सत्सुकार्य उरुधा मदात्मसु ।। ४१ 

क्षीणमेव नितरां वपुर्निजं येन चोग्रतपसा क्षयं व्रजेत् ।
तादृशं तु न तदाचरेः पुनर्धर्मसाधनमिहास्ति यद्वपुः ।। ४२ 

पातितेऽतितपसातिदुर्बले दुर्लभे नरकलेवरे पुनः ।
ज्ञानभक्तितपसां न जायते साधनं च निजधर्मवर्त्मनः ।। ४३ 

तात! मद्वचनतो निजं वपुः पोषयेर्मम हिताय सर्वथा ।
भूरि कार्यमपि मामकं त्वया साधनीयमिह वर्तते यतः ।। ४४ 


सुव्रत उवाच -

लिखित्वा पत्रिकामित्थं रामानन्दमुनिर्नृप ! ।मुद्रयित्वा ददौ तस्मै मयरामाग्रजन्मने ।। ४५ 

गृहीत्वोत्तरपत्रीं तां स च विप्रवरः पुनः । प्रायाल्लोजपुरं तूर्णं सप्तमेह्नि तदाप च ।। ४६ 

तत्र पत्रं स तत् प्रादान्मुक्तानन्दाय वाडवः । सोऽपि साकं वर्णिनैव वाचयामास तन्मुनिः ।। ४७ 

स्वामिनो मानयन्नाज्ञां तत्रोवास ततो हरिः । अशिक्षन्त मुदा सन्तस्तस्माद्योगकलाश्च ते ।। ४८ 

स शिक्षयामास यथोपदेशं तान् योगमष्टाङ्गमशेषमेव । तेऽप्यल्पकालेन गुरोः प्रसादात्तस्यैव तत्सिद्धदशामवापुः ।। ४९ 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे रामानन्दलिखितपत्रिकानिरूपणनामा पञ्चपञ्चाशत्तमोऽध्यायः ।। ५५ ।।