षट्पञ्चाशत्तमोऽध्यायः

सुव्रत उवाच - 


वर्णिनो वसतस्तस्य योगं शिक्षयतः सतः । तपस्यतो व्यतीयाय तत्र मासस्तु माधवः ।। १ 

अद्य श्वो वा परश्वो वा नूनमायास्यति प्रभुः । इति चिन्तयतस्तस्य शुक्रमासार्धमप्यगात् ।। २ 

ततोऽतिव्याकुलो वर्णी तपश्चिन्तातिकर्शितः । तदागमप्रतीक्षार्तिः स्वास्थ्यं न प्राप किञ्चन ।। ३ 

अथ सोऽपि सतां स्वामी तद्दिदृक्षाहृतान्तरः । भक्तैः कतिपयैः साकमहिपुर्या विनिर्ययौ ।। ४ 

रथं महान्तमारूढो हेमरत्नपरिच्छदम् । पशिः संस्थितान् पौरान्पश्यन्मधुरया दृशा ।। ५ 

सोऽनुयातः पूजिताश्च पौरैः साश्रुबिलोचनैः । भक्तानानन्दयन्मार्गे पिप्पलग्राममाययौ ।। ६ 

नरसिंहाख्यविप्रस्य स्वभक्तस्य स मन्दिरे । तत्र व्यराजद्बगवान्पूज्यमानो निजैर्जनैः ।। ७ 

ततः कुमारजित्संज्ञां दूतं लोजपुरं प्रति । प्राहिणोत्सोऽखिलान्भक्तांस्तत्राकारयितुं निजान् ।। ८ 

तस्मिन्नेव दिने शीघ्रं स लोजपुरमेत्य तान् । प्राह श्रीस्वामिना यूयमाहूताः स्थेति दौत्यकृत् ।। ९ 

श्रुत्वाऽमृतायमानं तद्वचस्तेऽतिमुदं ययुः । अद्यैव चलतेत्याह नीलकण्ठस्तदा वचः ।। १० 

ततो विचार्य ते सन्तः सर्वे निशि विधूदये । प्रययुः पिप्पलग्रामं स्वगुरोर्दर्शनोत्सुकाः ।। ११ 

मुक्तानन्दमुखाः सन्तो भक्तवर्यश्च पर्वतः । देवानन्दः परिव्राट् च भक्ता ज्येष्ठादयस्तथा ।। १२ 

स्वप्रेष्ठदर्शनौत्सुक्यसमाकृष्टान्तरास्तु ते । विचेलुः सत्वरं मार्गे तं लक्षीकृत्य खेटकम् ।। १३ 

अतिकार्श्याच्छरीरस्य नीलकण्ठस्तु वर्त्मनि । शीघ्राञ्चनश्वासपूर्णहृदयो न्यपतत्क्षितौ ।। १४ 

किञ्चिद्यात्वाऽग्रतः पश्चात्तं पश्यन्तोऽग्रगामिनः । ते सन्तः पतितं दृष्ट्वा तदन्तिकमुपाययुः ।। १५ 

पादसंवाहनं चक्रुस्तस्य ते च शनैः शनैः । किञ्चिदाश्वस्तमालोक्य प्रोचुस्ते वर्णिनं वचः ।। १६ 

दिनेऽत्रैवास्ति गन्तव्यः पिप्पलग्राम आशु नः । आश्रयातस्त्वममलामात्मनो योगधारणाम् ।। १७ 

तद्बलेनाध्वनः पारं यास्यस्येव न चान्यथा । इत्युक्तः स तथा चक्रे चचाल पथि सत्वरम् ।। १८ 

भगवन्तं हृदि ध्यायन् धनुर्मुक्तः शरो यथा । स विस्मृतवपुस्तूर्ण सर्वेषामग्रतोऽचलत् ।। १९ 

सन्तस्तमनुधावन्तोऽप्यवापुर्नैव शीघ्रगम् । प्रापुरोजस्वतीसंज्ञां नदीं सर्वेऽपि ते द्रुताः ।। २० 

दक्षिणे पिप्पलग्रामाद्वहन्तीं कलुषोदकाम् । वृष्टयाम्बुपूरितां भीमकल्लोलामति दुस्तराम् ।। २१ 

वर्णिराट् तां समुत्तीर्य सहसैव परं तटम् । अनाकृष्टस्तरङ्गौघैः प्राप सन्मुखवर्त्मना ।। २२ 

अर्वाच्येव तटे तस्थुर्भक्ताः सर्वे तरङ्गिणीम् । नाव्यां भीमां च पश्यन्तो विदित्वा दुस्तरां च ताम् ।२३ 

महताऽथ प्रयासेन कोलमाश्रित्य तेऽखिलाः । तामुत्तीर्य समेत्यामुं पिप्पलग्राममाविशन् ।। २४ 

ज्येष्ठकृष्णद्वादशिकादिने पूर्वा एव ते । नरसिंहद्विजगृहे ददृशुः स्वामिनं निजम् ।। २५ 

गौराङ्गं पुष्टमूर्ति सितवसनधरं स्वास्यमाजानुबाहुं । पद्माक्षं मन्दहासं निजजननिकरैश्चन्दनैः पुष्पहारैः ।।
भक्तया सम्पूज्यमानं सदसि च वितते दिव्यसिंहासनस्थं । स्वीयानानन्दयन्तं परमसुखनिधिस्वामिनं ते प्रणेमुः ।। २६ 

वर्णिराजं विलोक्याऽशु यावदुत्तिष्ठति प्रभुः । साष्टङ्गं प्रणनामासौ तावद्बक्तोत्तमः स तु ।। २७ 

तमुत्थाप्य स बाहुभ्यां परिरभ्य निजान्तिके । उपावेशयदन्यांश्च प्रणतान्सममानयत् ।। २८ 

वर्णीन्द्रः स्वामिनं दृष्ट्वा श्रुतं सद्बयो यथा तथा । निर्वृतं परमामाप प्रेमाश्रुः पुलकाञ्चितः ।। २९ 

निमेषहीनया दृष्टया पश्यन्तं स्वेक्षणे हरिम् । तादृश्यैव दृशाऽपश्यन्मुहूर्तद्वितयं स च ।। ३० 

प्राग्देहभानहीनं च ततः स्वस्थं तमादरात् । पश्यन् पप्रच्छ स स्वामी स्वागतादि यथोचितम् ।। ३१ 

मुक्तानन्दः कथितवांस्तद्दृत्तान्तमशेषतः । यथा ज्ञातं तदा स्वामी वर्णिनं प्रशशंस तम् ।। ३२ 

प्रेम्णा गग्ददकण्ठेन स्तुत्वा तं वर्णिराडपि । प्राहाद्य सफलो जातो मन्मनोरथपादपः ।। ३३ 

साक्षाच्छ्रीकृष्णचन्द्रस्य भुवि भक्तिप्रवर्तकम् । त्वां प्राप्याद्य कृतार्थोऽस्मि नृजन्म फलितं मम ।। ३४ 

प्रसन्नः कारयामास ततस्तस्य च तत्सताम् । यथोचितं स आतिथ्यं सत्फलैः पय आदिभिः ।। ३५ 

प्रेमनिभृतविलोचनाब्जयोः सिद्धयोरमृतसारवाचयोः । वर्णिराजमुनिराजयोस्तदा योग आप जनदर्शनीयताम् ।। ३६ ।। 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
रामानन्दस्वामिसमागमनामा षट्पञ्चाशत्तमोऽध्यायः ।। ५६ ।।