सप्तपञ्चाशत्तमोऽध्यायः

सुव्रत उवाच - 


स्नत्वा स्वामी प्रदोषेऽथ राधिकाधीशपूजनम् । उपचारैर्महद्बिश्च यथाविधि चकार सः ।। १ 

एकादश्या जागरणं ततः कुर्वन्निजैः सह । स्वामी पुनरपृच्छत्तं तज्µन्मस्थानमादितः ।। २ 

कुलं च पितरौ गोत्रं प्रवरान्देशिकं तथा । वेदं शाखामिष्टदेवं वैराग्यं स्वजनत्यजिम् ।। ३ 

वनवासं तपोभेदान्साङ्गयोगस्य साधनम् । तीर्थयात्रां तत्र तत्र तैर्थिकानां समागमम् ।। ४ 

एतत्पृष्टः स्वामिनाऽसौ यथावत्सर्वमादितः । क्रमेण कथयामास ह्यनुभूतं यथा यथा ।। ५ 

सविस्तरं तद्वृत्तान्तं स श्रुत्वा प्रीतिमान्भृशम् । प्राह त्वमस्मदीयोऽसि वर्णिन् ! धर्मस्य यत्सुतः ।। ६ 

स हि प्रयागे सम्प्राप भक्तया स हि पिता तव । दीक्षां भागवतीं धीमान्मत्त एवाखिलार्थवित् ।। ७ 

मदाज्ञाया कोसलेषु मुमुक्षून्स निजाश्रितान् । उपादिशत्कृष्णभक्तिमहिंसाद्यैर्यमैः सह ।। ८ 

त्वं तु तस्मादपि गुणैरधिकोऽसि महातपाः । अमर्त्यशङ्कां हृदये धत्से स्वं पश्यतां नृणाम् ।। ९ 

 
सुव्रत उवाच - 

अनुग्रहं स्वपितरि श्रुत्वाऽसौ स्वामिनो भृशम् । मुमुदेऽथ गुरुं कर्तुं निश्चिकाय तमेव हि ।। १० 

गुणैः कृष्णसमे ह्यस्मिन्नेव कृष्णोऽस्ति नित्यदा । वशे चास्येति गीः सत्येत्येवं प्राह सतो हरिः ।। ११ 

तत्रोवास सुखेनैव स ततो दृढनिश्चयः । मानितो बहुधा तेन गुरुणेश्वररूपिणा ।। १२ 

आश्चर्यदर्शनं तं च नीलकण्ठतपस्विनम् । पश्यतां स्वामिभक्तानां विस्मयोऽभून्महानथ ।। १३ 

स्वयं स्वाम्यपि तं दृष्ट्वा योगिदुष्प्रापसग्दुणम् । कृष्णस्यैव तनुं काञ्चिन्मेने धर्मावनक्षमाम् ।। १४ 

सर्वज्ञोऽप्युद्धवस्तं तु साक्षान्नारायणो ह्ययम् ।इति नावैत्प्रभोस्तस्य नरनाटयविधित्सया ।। १५ 

उद्धोषोऽथाभवल्लोके कश्चन बालो वर्णी ह्यागतोऽस्ति तपस्वी योगिराडिति ।। १६ 

तद्दर्शनार्थमाजग्मुर्नानादेशेभ्य सहस्रशो नरा नार्यस्त्यागिनो योगिनोऽपि च ।। १७ 

पप्रच्छ्रुस्ते गुरुं को वा वर्णी योऽद्याऽगतोऽत्र सः । तान्स्वामी दर्शयामास तमङ्गुल्याऽन्तिके स्थितम् ।। १८ ।। 

तं वर्णिनं कृशतनुं वीक्ष्य तेऽतितपस्विनम् । विस्मयं परमं प्राप्य पप्रच्छुः स्वामिनं पुनः ।। १९ 

कुतोऽयमागतो वर्णी बालोऽप्यतितपोबलः । आश्चर्यं जनयन्नणां वेत्ति योगकलाश्च यः ।। २० 

उपवीती च जटिलः शान्तो ऊर्ध्वपुण्ड्रं च तुलसीमाले ऐणाजिनं दधत् ।। २१ 

उदासीन इवासीनो देहानुसन्धानहीनो निष्परिग्रह एष कः ।। २२ 

तान्स्वामी प्राह बालोऽयं कोसलेभ्य उपागतः । आस्तां भगवतो भक्तौ पितरावस्य धार्मिकौ ।। २३ 

भक्तिज्ञानविरागाणां माहात्म्यं तन्मुखादयम् । शुश्राव बुद्धिमान् बालस्ततस्तत्प्राप्तुमैहत ।। २४ 

उत्कण्ठितोऽथ तत्सिद्धयै ह्यनापृच्छय सुहृञ्जनान् । हित्वा गत्वा वनं घोरं तपश्चक्रेऽतिदारुणम् ।। २५ 

तेनैव भक्तियुक्तेन षण्मासाभ्यन्तरे हरिम् । प्रसाद्य तीर्थानि चरन्प्राप्तोऽत्रास्ति यदृच्छया ।। २६ 

एतस्य चरितं त्वेतद्ध्रुवस्येवास्ति विष्णुं प्रीणयतो बाल्ये दुराराध्यं सुरैरपि ।। २७ 

इति श्रुत्वा भगवतो वाक्यं ते विस्मिता जनाः । ययुर्यथागतं नत्वा तं ध्रुवाभं च तं हरिम् ।। २८ 

सुबुद्धिमथ तं राजन् ! क्रियायोगातिनैपुणम् । उपाहराहृतौ स्वामी कृष्णार्चायामयूयुजत् ।। २९ 

सोऽपि स्वधर्मं भक्तिं च पालयन्नेव नित्यदा ।कृष्णार्चावसरे तस्य गुरोः सन्निहितोऽभवत् ।। ३० 

स्नत्वा कुर्वति तस्मिंस्तु सन्ध्यादिं नैत्यकं विधिम् । करोति स्मार्चनविधेः पात्राणां परिमञ्जनम् ।। ३१ 

पूजायां क्रियमाणायां तुलसीपुष्पचन्दनम् । धूपं दीपं च नैवेद्यं तत्तत्काल उपाहरत् ।। ३२ 

यथाकालमनुक्तोऽपि पदार्थं तं तमाहरत् । इङ्गितज्ञो हरिस्तेन गुरोरपि मनोऽहरत् ।। ३३ 

वर्णिनः कृष्णसेवायां श्रद्धातिशयमुत्तमम् । समीक्ष्य मुनिराट् तस्य वश आसीन्नरेश्वर ! ।। ३४ 

कृष्णस्तु नित्यमर्चायामाविर्भूयोद्धवार्पितान् । साक्षादादत्तोपहारांस्तं तदन्यस्तु नैक्षत ।। ३५

एकदा नीलकण्ठस्य सर्वथैवाधिकारिणः । तत्प्रत्यक्षेक्षणायासौ प्रत्यक्षं कृष्णमार्थयत् ।। ३६ 

भगवन्नीलकण्ठाय मद्वत्प्रत्यक्षदर्शनम् । त्वयि प्रेमवतेऽत्यर्थं देहि सग्दुणशालिने ।। ३७ 

 
सुव्रत उवाच - 

तथास्त्विति ततः कृष्णः प्रतिजज्ञो महामुनिम् । प्रहस्य दर्शनं प्रादात्प्रत्यक्षं स्वस्य वर्णिने ।। ३८ 

परिचर्यां गुरोः कुर्वन् हरिः श्रीकृष्णमैक्षत । उपचारानाददानं प्रत्यक्षं स्वामिनार्पितान् ।। ३९ 

नैवेद्यं समदन्तं तं वीक्ष्य प्राप स मुद्बरम् । पूजाकाले गुरोरित्थं सोऽद्राक्षीदनुवासरम् ।। ४० 

एकदा प्राह स गुरुं नीलकण्ठो रहः स्थितम् । मत्पूजावसरेऽपीत्थं कथं स्यात्कृष्णदर्शनम् ।। ४१ 

यथोपहारान् गृाति त्वया दत्तान्स नित्यदा ।तथा मदर्पितान्प्रीतो ग्रहीष्यति कदाऽच्युतः ।। ४२ 

श्रीरामानन्दमुनिरुवाच - कृष्णदीक्षामवाप्तस्य महत्सेवारतस्य च ।
धर्मे भक्तौ चादृतस्य स्याच्छीघ्रं कृष्णवीक्षणम् ।। ४३ 

 
सुव्रत उवाच - 

सिषेवे सोऽथ तं नित्यं भक्तिश्रद्धासमन्वितः । चातुर्मास्यं व्यतीयाय तस्येत्थं कुर्वतः सतः ।। ४४ 

विक्रमार्कस्य नृपतेरष्टादशशतोत्तरे । सप्तपञ्चाशत्तमेऽब्दे वर्तमाने शकस्य च ।। ४५ 

एकादश्यां प्रबोधन्यामुत्तमायाधिकारिणे । तस्मै दातुं महादीक्षामैच्छत्स्वं याचते स ताम् ।। ४६ 

दीक्षां गृहीतुं महतीं स वर्णिराट् समुत्सुकस्तस्य गुरोरनुज्ञाया ।
चकार पूर्वेद्युरुपोषणं शुचिर्दिवानिशं त्र्यक्षरमेव सञ्जपन् ।। ४७ 

प्रमोदसंवत्सर ऊर्जमासे प्रातः सितैकादशिकादिने तम् ।
स दीक्षयामास यथाविधानं महोत्सवेनैव मुदा नरेन्द्र ! ।। ४८ 

 
।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
रामानन्दस्वामिशुश्रूषणनामा सप्तपञ्चाशत्तमोऽध्यायः ।। ५७ ।।