अष्टपञ्चाशत्तमोऽध्यायः

सुव्रत उवाच - 


एकादश्यां मुनिपतिराजुहाव द्विजोत्तमम् । निजाध्ववर्तनं शान्तं दीक्षाविधिविशारदम् ।। १ 

तेनैव कारयामास तत्रत्यं सकलं विधिम् । सोऽपि सर्वं यथाशास्त्रं करोति स्म यथोचितम् ।। २ 

आदौ शरीरशुध्द्यर्थं प्रायश्चित्तमकारयत् । प्रत्याम्नायेन कृच्छ्राणां त्रयाणां स हरिं नृप! ।। ३ 

मण्डलं सर्वतोभद्रं नानावर्णसुशोभनम् । विधाय स्थापयामास स तत्र कलशान्नव ।। ४ 

तत्र ताम्रमयानष्टौ न्यधाद्दिक्ष्वष्टसु क्रमात् । एकं हेममयं मध्ये सोऽस्थापयदुदारधीः ।। ५ 

सतोयेषु सरत्नेषु सपल्लवफलेषु च । सवासःपूर्णपात्रेषु तेषु देवानतिष्ठिपत् ।। ६ 

श्रीराधासहितं कृष्णं तत्र मध्यघटे न्यधात् । प्राच्यां भगवतीं दुर्गां दक्षिणे भास्करं तथा ।। ७ 

प्रतीच्यां विघ्नराजं च शिवं सौम्यामतिष्ठिपत् । विष्वक्सेनं वह्निदिशि नैऋर्त्यां गरुडं च सः ।।८ 

अस्थापयच्च कलशे वायव्यां पवनात्मजम् । श्रीदामानं तथेशान्यां क्रमेणैव यथाविधि ।। ९ 

ततो वेदपुराणोक्तैर्मन्त्रैर्मूलेन च द्विजः । प्रधानदेवतां कृष्णं सहाङ्गैरार्चयत्सुरैः ।। १० 

उपचारैः षोडशभिः सह पञ्चामृतेन च । महानैवेद्येन महादीपेन समपूपुजत् ।। ११ 

मृदङ्गकांस्यतालाद्यैर्भक्तानां कीर्तनध्वनिः । तूर्यानकादिशब्देन मिश्र आसीन्महांस्तदा ।। १२ 

संस्कृतायां ततो वेद्यां वह्निं संस्थाप्य चाजुहोत् । मूलेन मनुनाऽज्यस्य सोऽष्टोत्तरशताहुतीः ।। १३ 

ततो महामुनिः प्रादात्कौपीनाच्छादनं सितम् । उत्तरीयं च हरये स्थिताय प्राङ्मुखाय सः ।। १४ 

प्रासादिक्यौ भगवतस्तुलसीकाष्ठमालिके । सूक्ष्मे नवीने स ददौ कण्ठधार्ये च वर्णिने ।। १५ 

कृष्णार्चाशिष्टगन्धेन पुण्ड्रमूर्ध्वं तदन्तरे । राधार्चाशिष्टकाश्मीरचन्द्रकं चाप्यकारयत् ।। १६ 

उदङ्मुखस्ततः स्वामी ध्यात्वा श्रीकृष्णमस्य च । अष्टाक्षरं कृष्णमन्त्रं दक्षकर्ण उपादिशत् ।। १७ 

हरये शुद्धमतये मन्त्रस्यार्थं ततो गुरुः । यथावद्बोधयामास सम्प्रदायानुसारतः ।। १८ 

क्षेत्रं पिण्डं च ब्रह्माण्डं द्विविधं योऽभिमन्यते । अल्पज्ञाः सर्वविच्चासौ क्षेत्रज्ञोऽत्राहमोच्यते ।। १९ 

अन्वितं द्विविधे चात्र क्षेत्रज्ञो तन्नियन्तृ च । व्यतिरिक्तं ततो यच्च तद्ब्रह्माक्षरमुच्यते ।। २० 

यमाश्रित्य प्रेरयति क्षेत्रज्ञामिदमक्षरम् । पुरुषोत्तमसंज्ञोऽसावक्षरातीत उच्यते ।। २१ 

स एव श्रेयसे नणां धृतदिव्यनराकृतिः । स्वाज्ञानं ज्ञानदानेन कर्षन् कृष्ण इतीर्यते ।। २२ 

प्रेम्णा तत्सेवनेनैव यच्छोभावत्त्वमात्मनः । स एव दासशब्दार्थो मन्त्रोऽस्मिन् परिकीर्तितः ।। २३ 

अस्मीति पूर्णकामत्वं ज्ञोये प्राप्येऽपि चात्मनः । शेषाभावश्च विज्ञोयो मुक्तत्वाज्जीवतो यतः ।। २४ 

वैकुण्ठेऽथ च गोलोके श्वेतद्वीपे बृहत्पुरे । यथा प्राप्त्या भगवतः पूर्णकामाश्च सेवया ।। २५ 

भक्ताः सन्ति तथैवात्र हरेः प्रत्यक्षलम्भनात् । सेवया चास्ति पूर्णत्वमिति मन्त्रार्थमाह सः ।। २६ 

अन्तःकरणवृत्तीनां बहिर्गतिनिरोधनम् । हृदि प्रकाशः कृष्णेक्षा स्यादित्याह च तत्फलम् ।। २७ 

मन्त्रार्थं बोधयित्वेत्थं गुरुस्तं पुनरब्रवीत् । यावद्देहस्मृतिस्तावद्धर्मं क्वचन न त्यजेः ।। २८ 

सन्ति श्रुतास्त्वया धर्मा अस्मदध्वानुसारिणः । सर्वेऽपि जनकादेव पाल्यन्ते ते च नित्यदा ।। २९ 

अत्यजन्नेव तान्सर्वान्विशेषनियमांश्चरेः । कृष्णार्चां नियमेनान्तर्बहिः कुर्याश्च नित्यदा ।। ३० 

पञ्चाध्यायीं पठित्वादौ पूजान्ते निजशक्तितः । श्रीवासुदेवमाहात्म्यं पठेरेकाग्रमानसः ।। ३१ 

भोज्यं कृष्णप्रसाद्यन्नं पेयं वारि च तादृशम् । अनर्पितं तु कृष्णाय नाद्यं फलदलाद्यपि ।। ३२ 

नामसङ्कीर्तनं कुर्याः श्रीकृष्णस्य च सर्वदा । भक्तिं विना भगवतो व्यर्थं कालं तु मा कृथाः ।। ३३ 

यत्र कृष्णस्य माहात्म्यं चरितं वा भवेन्मुने ! । तद्ग्रन्थस्य कथा श्रव्या प्रत्यहं नित्यमेव च ।। ३४ 

तत्कथाश्रवणादेव तद्बक्तिर्वर्धतेतराम् । साऽतः श्रव्या वक्त्रभावे वाच्या स्वेनैव नित्यदा ।। ३५ 

एवं धर्मानुपादिश्य रामानन्दमुनिर्नृप ! । तस्य शिष्यस्याभिधानं चक्रेऽन्वर्थे विचार्य च ।। ३६ 

सहजानन्द इत्याह प्रथमं नाम तस्य सः । ततो नारायणमुनिरिति चक्रेऽभिधां स्वयम् ।। ३७ 

तपसा च स्वभावेन मूर्त्याकारेण सर्वथा । नारायणमुनेः साम्यात्तामेवाख्यां मुदाकरोत् ।। ३८ 

ततो हरिः स्वामिनं तं पूजयामास सादरम् । प्रदक्षिणां विधायैव दण्डवत्प्रणनाम च ।। ३९ 

साधून्विप्रान्वैष्णवांश्च विनयेनार्चयत्ततः । विप्रः समापयामास तद्विधिं विधिवत्तु सः ।। ४० 

बद्धाञ्चलिपुटस्तस्थौ वर्णिराट् गुरुसन्निधौ । तस्मै प्रसन्नः स प्राह स्वेप्सितं वृणु मद्वरम् ।। ४१   


श्रीनीलकण्ठ उवाच - 

आविर्भूय त्वदर्चायां साक्षात्कृष्णो यथाऽन्वहम् । उपहारान्समादत्ते भु हसति भाषते ।। ४२ 

तथान्वहं मदर्चायामाविर्भूय स्वयं स च । कुर्यादित्यस्ति मेऽभीष्टं देहि प्रीतोऽसि चेदिदम् ।। ४३ 

 
सुव्रत उवाच -

तथास्त्वित्याह मुनिराट् तस्मै प्रीतोऽथ तन्निशि । सर्वे जागरणं चक्रुः कृष्णसङ्कीर्तनादिभिः ।। ४४ 

अभोजयत्प्रगे स्वामी विप्रान्साधूंश्च वर्णिनः । तदभीष्टैर्भक्ष्यभोज्यैस्तेभ्योऽदाद्वस्त्रदक्षिणाः ।। ४५ 

हरेश्च पूजावसरे प्रत्यक्षः स्वामिवन्नृप ! । उपहारग्रहादीनि कृष्णश्चक्रेऽनुवासरम् ।। ४६ 

प्रत्यक्षकृष्णवीक्षाद्यैः स सम्पूर्णमनोरथः । कृतकृत्यं स्वमात्मानं गुरवे संन्यवेदयत् ।। ४७ 

राधया सहितं कृष्णं क्वचित्प्रत्यक्षमैक्षत । द्विभुजं वादयन्तं च वेणुं नटवराकृतिम् ।। ४८ 

क्वचिद्रामेण सहितं रुक्मिण्या सहितं क्वचित् ।क्व प्यर्जुनेन सहितं तं क्व प्येककमैक्षत ।। ४९ 

द्विबाहुमपि तं क्वापि चतुर्भुजमवैक्षत । ततोऽस्य परमः प्रेमा कृष्णे भूयानवर्धत ।। ५० 

इत्थं नृनाटयं परिशीलयन् हरिस्तपस्विलीलां विदधद्धरेश ! ।
शुश्रूषणं कृष्णधियाऽनुकालं गुरोः करोति स्म भृशं विनीतः ।। ५१


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे महादीक्षाग्रहणनामाऽष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।