एकोनषष्टितमोऽध्यायः

सुव्रत उवाच -


प्राप्तेऽपि शिष्यतां तस्मिन्स्वशुश्रूषारते हरौ । स्वामिनः सखिभावोऽभूत्सर्वसग्दुणमण्डिते ।। १ 

बुद्धिमन्तं तमेवासौ पृष्ट्वैव व्यावहारिकम् । अपि कार्यं करोति स्म प्रोचे तं स्वमनोगतम् ।। २ 

साकं तेन स्वभक्तानां ग्रामेषु विचचार सः । रैवतोपत्यकास्वेव कृष्णभक्तिं प्रवर्तयन् ।। ३ 

क्वचिन्मासं क्वचित्पक्षं क्वचित्पञ्चदिनानि च । वसन्नुपागमत्स्वामी जयन्ताख्यं पुरं नृप ! ।। ४ 

उन्नडाख्येन भूपेन धर्मनिष्ठेन तत्र सः । बहुधा प्रार्थितोऽवात्सीज्जनानानन्दयन्निजान् ।। ५ 

तत्र नारायणमुनिर्गुरुसेवापरायणः । नित्यं तस्यावतिक्रम्य शिष्यान्सर्वान्निजैर्गुणैः ।। ६ 

तस्मिंस्त्वेते गुणा नित्या आसन्नृपतिसत्तम ! । सर्वत्र सर्वकालेऽपि स्वस्वरूपेऽचला स्थितिः ।। ७ 

सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् । शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ।।८ 

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः । स्वातन्त्र्यं कौशलं कान्तिर्धैर्यं मार्दवमेव च ।। ९ 

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः । गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मौनमगर्वता ।। १० 

अमानित्वमदम्भित्वं मिताहारश्च दक्षता । मैत्री सर्वोपकारित्वं कामैरक्षुब्धचित्तता ।। ११ 

अद्रोहो मानदत्वं च षडूर्मिविजयस्तथा । ब्रह्मण्यत्वं शरण्यत्वमनीहा चापरिग्रहः ।। १२ 

श्रीराधिकापरिवृढे भक्तिश्च परमाऽचला । अतिप्रेम्णा च निर्दम्भं गुरुशुश्रूषणं तथा ।। १३ 

शिष्या मुनिपतेस्त्वेतांस्तस्य सर्वाधिकान् गुणान् । विलोक्य विस्मयं प्रापुः स्वाधिकं मेनिरे च तम् ।१४ 

गुरोः प्रियं कुर्वतोऽस्य वसतश्च तदन्तिके । वर्षद्वयं व्यतीयाय नारायणमुनेर्नृप ! ।। १५ 

एवंविधं तमालक्ष्य रामानन्दमुनिस्ततः । तस्मिन्न्यस्य धुरं स्वीयामितोऽन्तर्धातुमैहत ।। १६ 

सर्वेषां निजभक्तानामथ तं श्रृण्वतां सताम् । स ऊचे व्यवहारेषु विरक्तमपि योजयन् ।। १७ 

 
श्रीरामानन्दस्वाम्युवाच - 

नारायणमुने! धीमञ्च्छृणु मद्वाक्यमादरात् । श्रुत्वा च तत्तथैव त्वं कर्तुमर्हसि सर्वथा ।। १८ 

एते मदाश्रिताः सन्ति कृष्णभक्ता नराः स्त्रियः । स्थापनीयास्त्वया धर्ममर्यादायां तु तेऽखिलाः ।१९ 

श्रीवासुदेवमाहात्म्यं यत्त्वया पठयतेऽन्वहम् । वर्णाश्रमवतां धर्मास्तत्र स्त्रीणां च सन्ति हि ।। २० 

यथाधिकारं तेष्वेव स्थापनीयास्त्वया जनाः । ग्राह्यं श्रीविठ्ठलेनोक्तं कृष्णसेवनवर्त्म तु ।। २१ 

व्रतानामुत्सवानां च सर्वेषां राधिकापतेः । प्रवर्तनीयस्तत्प्रोक्तो निर्णयो वैष्णवोचितः ।। २२ 

सम्प्रदायं स्थितिः पूर्वमासीद्रामानुजस्य मे । उपद्रवो महांस्तत्र वैष्णवैर्मत्सरात्कृतः ।। २३ 

ततो हित्वा बाह्यमेव तद्वर्त्मेदं मया भुवि । नूत्नं प्रवर्तितं वर्त्म सच्छास्त्राण्यनुसृत्य वै ।। २४ 

अध्यात्मज्ञानसिध्द्यै तु रामानुजकृता मया । ग्रन्थाः संस्थापिताः सन्ति कृष्णोपासनपोषकाः ।। २५ 

अतो रूपाणि निश्चेतुं जीवमायापरात्मनाम् । रामानुजाचार्यकृतभाष्यादि त्वं प्रवर्तयेः ।। २६ 

इत्याज्ञा मम पाल्या ते सर्वशास्त्रार्थवेदिनः । त्वमेक एव मत्स्थाने स्थातुमर्होऽसि साम्प्रतम् ।। २७ 

यस्मिन्दिने भवान् दृष्टस्तत आरभ्य मे त्वयम् । मनोरथो भवति तं त्वं पूरयितुमर्हसि ।। २८ 

वैराग्यतीव्रतां वेद्मि तव नूनमहं मुने ! । तथाप्येतत्त्वयैव स्यात्कार्यं नान्येन केनचित् ।। २९ 

स्वीकार्या जनपूजा च वस्त्रालङ्कारसंयुता । आरोहणं त्वया कार्यं रथवाजिगजादिषु ।। ३० 

सर्वतः कलिदोषेभ्यो रक्षणीयास्त्विमे त्वया । शक्तोऽसि रक्षणं कर्तुं त्वमेवेह तपोधन! ।। ३१ 

द्रव्यै स्त्रीभिः क्रुधाद्यैश्च पराभाव्यो न सर्वथा । त्वमसीत्येव जानामि गुणैः कृष्णभ्रमप्रदः ।। ३२ 

न धर्मसङ्करं कर्ता धीरो गाङ्गेयवद्बवान् । भवतीति विदित्वैव स्वामित्वे स्थाप्यते मया ।। ३३ 

 
सुव्रत उवाच -

श्रुत्वेति सग्दुरोर्वाक्यं नारायणमुनिर्नृप ! क्षणं विचिन्त्य हृदि तं प्रत्यूचे विमना इव ।। ३४ 

श्रीनारायणमुनिरुवाच - शिष्यैराज्ञा गुरोः पाल्या धर्म एष सनातनः ।
तथाप्येतद्वचः कर्तुं प्रभो ! नाहं स्वमुत्सहे ।। ३५ 

वर्णिधर्मान्समाश्रित्य स्थितस्य खलु सत्पते ! । एतत्त्वद्वचनं मन्ये लोकशास्त्रजुगुप्सितम् ।। ३६ 

आघ्राय यग्दन्धमात्रमपि कुर्वे पलायनम् । सोऽहं तासां कथं स्त्रीणां करिष्ये निकटे स्थितिम् ।। ३७ 

स्त्रीप्रसङ्गो मुमुक्षूणां महान् पाशो हि बन्धकृत् । मुक्ता अप्यभवन्भ्रष्टा बहवो येन तत्क्षणे ।। ३८ 

नैष्ठिकव्रतवान् पुंस्त्रीभेददृष्टयापि वर्जितः । ऋष्यश्रृङ्गः स्त्रीप्रसङ्गाद्भ्रष्टोभूत्स्वबृहद्व्रतात् ।। ३९ 

सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते । क्रोधाद्बवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।। ४० 

स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति । स्त्रीप्रसङ्गात्ततः स्वामिन्बिभेम्यहमिह ध्रुवम् ।। ४१ 

न कुर्यात्कर्हिचित्सख्यं मनसि ह्यनवस्थिते । यद्विस्रम्भाच्चिराच्चीर्णं चस्कन्द तप ऐश्वरम् ।। ४२ 

नित्यं ददाति कामस्य छिद्रं तमनु येऽरयः । योगिनः कृतमैत्रस्य पत्युर्जायेव पुंश्चली ।। ४३ 

कामो मन्युर्मदो लोभः शोकमोहभयादयः । कर्मबन्धश्च यन्मूलः स्वीकुर्यात्को नु तद्बुधः ।। ४४ 

कर्तव्यो मनसः सङ्गो यदि भूतानुकम्पया । तत्राप्युपेक्षा युक्तैव यतः कर्मफलं जगत् ।। ४५ 

दययापि मनोऽन्यत्र कृष्णाद्ये योजयन्ति ते । मृगसङ्गाद्बरतवद्भ्रश्यन्त्येव निजस्थितेः ।। ४६ 

प्रतीप्तेऽग्नौ निपातं वावरं मन्ये विषाशनम् । नत्वहं स्त्रैणसम्बन्धं कदाचिदपि कस्यचित् ।। ४७ 

धनादीनां प्रसङ्गोऽपि न मे रुचिकरस्तथा । सुशीलोऽपि दुराचारे प्रवृत्तो येन जायते ।। ४८ 

धनासक्तया वसिष्ठोऽपि पुरा भ्रष्टमतिर्नृपम् । निमिं शशाप धर्मिष्ठं व्याख्यात् द्वेश्यासुतः स्वयम् ।। ४९ 

देशः कालः क्रिया ध्यानं शास्त्रं दीक्षा तथा मनुः । सङ्गश्च यादृशा ह्येते तादृक् तत्सेविनां फलम् ।। ५०

शुभैरेतैः सेवितैस्तु शुभा बुद्धिर्भवेन्नृणाम् । अशुभैस्तैर्भवेद्बुद्धिरशुभा नात्र संशयः ।। ५१ 

यादृशी यस्य बुद्धिः स्यात्कर्म कुर्यात्स तादृशम् । कर्मानुरूपं च फलं प्राप्नुयात्स ततः पुमान् ।। ५२ 

असतो देशकालादीन्न सेवेत ततः सुधीः । विहाय ताञ्छुभानेव हितार्थी शीघ्रमाश्रयेत् ।। ५३ 

निपीतं मद्यभङ्गादि शास्त्रज्ञां वा जडं नरम् । मादयित्वा यथा सद्यो नयत्युन्मत्ततां खलु ।। ५४ 

तथैव स्त्री धनं वापि मादयित्वा स्वसेविनम् । उत्पथं प्रापयत्येव विद्वांसमपि सात्त्विकम् ।। ५५ 

ईदृक्स्वभावमेवैतद्वर्तते वस्तु सर्वथा । स्वाभाविकं गुणं नैव हातुं शक्नोति कश्चन ।। ५६ 

स्त्रीणां वाऽतो धनादीनां प्रसङ्गे मम निश्चितम् । स्वाभाविकी रुचिर्नास्ति सत्यमेतद्वदाम्यहम् ।। ५७ 

सग्दुरोस्तव चाज्ञायाः प्रतिवादोऽपि नोचितः । तेन मे खिद्यते चेतस्ततस्त्वं ब्रूहि मे हितम् ।। ५८ 

सर्वेषां धर्ममर्यादारक्षणेऽस्ति त्वमीश्वरः । अतोऽत्र किं नु मे कार्यमेतदन्यत्प्रशाधि माम् ।। ५९ 

 
सुव्रत उवाच - 

प्रतिवाक्यं गुरुः श्रुत्वा नारायणमुनेरिति । स्वामित्वं स्थापयंस्तस्मिन्स्वहार्दं तमुवाच सः ।। ६० 


श्रीरामानन्दस्वाम्युवाच -
सन्मते! श्रृणु मद्वाक्यं त्वद्धार्दं वेद्म्यहं ननु । मया यत्क्रियते तत्तु विचार्यैव न चान्यथा ।। ६१ 

समर्थो धर्मरक्षायामहं स्वाश्रितदेहिनाम् । वर्ते हि साम्प्रतं भूमौ सत्यमेतत्त्वयोच्यते ।। ६२ 

तथापि त्वयि सच्छिष्ये धुरमध्यस्य सुव्रत ! । निश्चिन्तः कृतकार्योऽहं हातुमिच्छाम्यदो वपुः ।। ६३ 

न त्वादृशं कञ्चिदन्यं पश्याम्यत्र च धूर्वहम् । अतो मद्वचनं तात ! कर्तुमर्हसि सर्वथा ।। ६४ 

वर्णिनां व्रतभङ्गः स्यात्स्त्रीभिः सम्भाषणादिना । इति त्वयोदितं यत्तत्सत्यमेव न संशयः ।। ६५ 

अन्ये ते वर्णिनो येषां स्त्र्यादिभिर्लुप्यते व्रतम् । अमानुषक्रियस्त्वं तु न वर्णी प्राकृतो ह्यसि ।। ६६ 

वर्तितुं स्त्रीसहस्रेषु निर्वकारतयाऽनघ ! स्वर्णपुञ्जेष्वपि तथा शक्तिरस्ति तवैव हि ।। ६७ 

सूर्यनारायणः साक्षाद्वरदाता तव प्रभुः । कामादे रक्षणं कर्ता राजते हृदये तव ।। ६८ 

सर्वथैव समर्थस्त्वं विदितोऽसि मयाञ्चसा । अतश्चिरन्तनानेतानपि हित्वा त्वमर्थ्यसे ।। ६९ 

त्वदन्ये वर्णिनस्त्वङ्ग ! स्त्रीकथाश्रवणादपि । भ्रष्टा भवेयुः सहसा किं पुनर्दर्शनादिभिः ।। ७० 

संसर्गः स्त्रीधनादीनां त्याज्योऽतः सर्वथैव तैः । त्वं त्वीश्वरः स्वाश्रितानां कुरु धर्मादिरक्षणम् ।।७१ 

 
सुव्रत उवाच - 

इत्याकर्ण्य गुरोर्वाक्यं मानयंस्तं स वर्णिराट् । प्रतिजग्राह तद्वाक्यमनिच्छन्नपि भूपते ! ।। ७२ 

स्ववाचीत्थं स्वीकृतायां तेनाथ स मुनीश्वरः । उपवेश्य स्वासने तं चन्दनादिभिरार्चिचत् ।। ७३ 

महोत्सवं कारयित्वा गीतवाद्यपुरोगतम् । सुप्रसन्नमनाः स्वामी स्वाश्रितानिदमब्रवीत् ।। ७४ 

 
श्रीरामानन्दस्वाम्युवाच - 

श्रृण्वन्तु मामकाः सर्वे गृहिणस्त्यागिनस्तथा । अयं नारायणमुनिर्मम स्थानेऽस्ति निश्चितम् ।। ७५ 

मनुष्याणां सुदुष्प्रापैः सम्पन्नः सग्दुणैरयम् । युष्माकं धर्ममर्यादापालनेऽस्त्येव शक्तिमान् ।। ७६ 

तदेतद्दिनमारभ्य स्थेयमस्यैव शासने । सर्वैर्भवद्बिरित्याज्ञा मम पाल्यैव सर्वथा ।। ७७ 

स्वामिन्नेवं करिष्याम इत्यूचुस्ते ततोऽखिलाः । प्राञ्जलिं वर्णिराजं च तदोवाच पुनर्गुरुः ।। ७८ 

महामुने ! प्रसन्नोऽस्मि मदाज्ञापालनात्त्वयि । अतस्त्वं वाञ्छितान्स्वस्य वरान्वरय कांश्चन ।। ७९ 

अदेयं नास्ति मे किञ्चित्तुभ्यं ब्रह्माण्डगोलके । महापुरुष ! तद्ब्रूहि निश्चितं निजवाञ्छितम् ।। ८० 

 
सुव्रत उवाच - 

इति सञ्चोदितस्तेन वरार्थं स महामुनिः । नीलकण्ठ उवाचेदं सर्वजीवदयानिधिः ।। ८१ 

 
श्रीनीलकण्ठ उवाच - 

यदि तव वरदानपात्रता मे वितर तदा तु मयेप्सितान्वरांस्त्वम् ।
मृदुलपदसरोरुहद्वये मे मतिरचलास्तु सदैव नन्दसूनोः ।। ८२ 

इह च यदुरुदुःखमन्तकाले ह्यगणितवृश्चिकदंशतुल्यमाहुः ।
यदितरदपि तच्च वैष्णवानां भवतु ममाथ च ते तु सन्त्वदुःखाः ।। ८३ 

क्वचिदपि भुवि कृष्णभक्तिभाजां निजकृतकर्मवशादवश्यभोग्यम् ।
इह यदुरु तथाऽन्नवस्त्रदुःखं तदपि ममास्तु न तु प्रजेश ! तेषाम् ।। ८४ 

व्रजरमणकथा च यत्र यत्र प्रथितगुणाश्च भवेयुरीश ! सन्तः ।
मम भवतु सदैव तत्र वासो न तु भवसक्तधियांक्वचित्प्रसङ्गे ।। ८५ 

वाणी मे गुणकीर्तने भगवतः कर्णौ कथायाः श्रुतौ । सेवायां च भूजौ स्मृतौ च हृदयं भूयाद्दृशौ लोचने ।।
कृष्णार्थैव मम क्रियाऽस्तु सकला शारीरिकी मानसी । दुःसङ्गः क्वचनापि मास्त्विह विभो ! देहि त्वमेतान्वरान् ।। ८६ 


सुव्रत उवाच - 

एवं स भगवान् कृष्णोपासनारीतिमञ्जसा । सेवारीतिं सग्दुरोश्च शिक्षयन्नात्मसंश्रितान् ।। ८७ 

शोभयंश्च स्वानुकृतं नरनाटयं नराधिप! । ईश्वरोऽपि गुरुं भक्तया प्रार्थयामास भक्तवत् ।। ८८ 

इति सम्प्रार्थयन्तं तं प्रोवाच वचनं गुरुः । मनोरथास्ते सम्पूर्णा भविष्यन्ति न संशयः ।। ८९ 

परोपकारैकपरायणाय नारायणायेति वरान्स दत्त्वा ।
स्थितस्तदीयाननपद्ममेव विलोकते स्म स्थिरयात्मदृष्टया ।। ९० 

तस्मै प्रसन्नोऽथ च सोऽपि कृष्णः स्वातिप्रियायात्मयथार्थबोधम् ।
ददावचिन्तं विदधत्तमीशो विवेद तं सोऽपि निजेष्टदेवम् ।। ९१ 

गोलोकसंस्थाक्षरदिव्यधाम्नि यादृक् स्वदृष्टश्च बृहद्वनादौ ।
विलोक्य तं तादृशमेव कृष्णमानन्दवार्धौ निममज्ज सद्यः ।। ९२ 

चिरं निभाल्याथ तमेव भक्तरक्षाविधानाय च धर्मगुप्त्यै ।
तत्रागतं हृद्यवगत्य सद्यो निश्चिन्त आसीन्नृप ! पूर्णकामः ।। ९३ 

नृनाटनं तस्य विभोर्विधित्सोर्हार्दं विदन्नान्यजनाय तत्तु ।
प्राकाशयद्वेदनमात्मबुद्धमेकान्तिको भक्तवरो यतोऽसौ ।। ९४ 

तस्मिंस्ततः शिष्यधियं विहाय निजेशबुध्द्या हृदि भावयन् सः ।
वृतस्तदाद्यैर्निजशिष्यमुख्यैस्ततः फणिग्राममियाय भूप ! ।। ९५ 


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे नारायणमुनिस्वामित्वस्थापननामैकोनषष्टितमोऽध्यायः ।। ५९ ।।