अध्यायः - ६०

सुव्रत उवाच -

एकादश्या मोक्षदायास्तत्र चक्रे महोत्सवम् । द्वादश्यां भोजयामास साधून्विप्रान्सहस्रशः ।। १ 

दत्त्वा दानानि विप्रेभ्यः प्रातर्भद्राभिधां नदीम् । उपेत्य तस्यां स्नात्वा रहःस्थान उपाविशत् ।। २ 

बद्धपद्मासनस्तस्मिन् समाधिं विदधद्धरौ । तदिच्छया जहौ सद्यो मानुषीं तनुमुद्धवः ।। ३ 

मुक्तो दुर्वाससः शापाद्बदरीमेत्य पूर्ववत् । प्रावर्तयत् कृष्णभक्तिं सिद्धदेहः स भूपते ! ।। ४ 

विक्रमार्कशकान्नागशरहस्तीन्दुसम्मिते । वर्षे मार्गे त्रयोदश्यां शुक्ले सोऽन्तर्दधे गुरौ ।। ५ 

सङ्कीर्तयन्तो नामानि श्रीकृष्णस्य तदाऽखिलाः । तन्मुखैकदृशः शिष्या विविदुस्तमुपारतम् ।। ६ 

तत्पार्श्वमेत्य संवीक्ष्य नाडीप्राणविहीनताम् । साश्रुनेत्रा बभूवुस्ते विभ्रान्ता इव सर्वशः ।। ७ 

हरिस्तु धैर्यमासाद्य देशकालोचितक्रियः । धर्मशास्त्रार्थपारीणः स्नत्वा केशानवापयत् ।। ८ 

पुनः स्नत्वा चन्दनेन चर्चयामास तद्वपुः । पुष्पाबीरगुलालाद्यैस्तदानर्च ननाम च ।। ९ 

पितृमेधविधानेन क्रमात्कुर्वन् स तत्क्रियाः । विमानं कारयित्वाशु तस्मिंस्तत्संन्यधारयत् ।। १० 

अनर्घ्यसितसूक्ष्मेण वाससाच्छाद्य तत्त्रिभिः । शिष्यैरन्यैः समं निन्ये स्नतैर्भद्रां विमानकम् ।। ११ 

विष्णुसूक्तं द्विजाः पेठुस्तदानीं कृष्णकीर्तनम् । मृदङ्गझर्झरोपेतं चक्रुः सन्तोऽश्रुचक्षुषः ।। १२ 

नद्यास्तटे शुचिस्थाने तन्निधाय च ते चिताम् । चक्रुः श्रीखण्डतुलसीपिप्पलानार्द्रदारुभिः ।। १३ 

तत्र तद्देहमाधाय स्न्पितं स्रग्विभूषितम् । आज्यलिप्तं ततः कृष्णो ददाहोत्तपनाग्निना ।। १४ 

आज्यं जुहाव मध्ये तु ततो दग्धे कलेवरे । शमयित्वाम्भसा वह्निं नद्यां तद्बस्म सोऽक्षिपत् ।। १५ 

सुस्न्ः सर्वे ततो नद्यां शिष्या हरिपुरःसराः । दत्त्वोदकं च गुरवे पुनः स्नन्ति स्म ते नृप ! ।। १६ 

ततो गत्वा फणिग्राममूषुस्ते च शुचान्विताः । उपोषणं दिने तस्मिन्कुर्वन्ति स्म निरोजसः ।। १७ 

द्वितीयेऽहनि पत्राणि लिखित्वा कतिचिन्नरान् । नानादेशस्थभक्तेभ्यः प्रैषयत्स सदग्रणीः ।। १८ 

तेवाचयित्वा पत्राणि ज्ञात्वान्तएधिं गुरोर्भुवः । भृशं शुचाकुला आसन् पुरुषाश्च स्त्रियोऽखिलाः ।। १९ 

हित्वा सर्वाणि कार्याणि सयोषा गृहिणो जनाः । शक्तितो धनमादाय तत्रजग्मुस्त्वरान्विताः ।। २० 

वर्णिनस्त्यागिनश्चैतं वृत्तान्तमतिदुःसहम् । श्रुत्वा प्रापुः शुचं भूरि ब्रह्मभूयं गता अपि ।। २१ 

यत्र यत्र स्थिता ये ये ते ते सद्यस्ततस्ततः । फणिग्राममुपाजग्मुः स्नत्वा भक्ताः सहाम्बरम् ।। २२ 

तत्रागतेभ्यस्तेभ्यश्च साश्रुदृग्भ्यो यथोचितम् । वासस्थानादि स प्रादान्नारायणमुनिर्नृप ! ।। २३ 

द्वितीयदिनतो नित्यं त्रयोदशदिनावधि । सार्थां श्रीभगवग्दीतामपरोऽश्रृणोच्छुचिः ।। २४ 

अहानि द्वादश तथा क्षारांश्च लवणं नृप! । आशौचनियमस्थोऽसौ नाभक्षयदुदारधीः ।। २५ 

सन्ध्याग्निकार्यमुख्यानि नित्यकर्माणि तु स्वयम् । आशौचेऽपि स्मृतिबलाच्चडाकारान्यांस्तु नास्पृशत् ।।२६ 

आशौचान्त्यदिने चक्रे नवश्राद्धं गुरोः स च । ऐकादशाहिकं कर्म वृषोत्सर्गयुतं ततः ।। २७ 

त्रयोदशपदानीहविप्रेभ्योऽअष्टविधानि सः । दश दानानि च प्रादाग्दवादीनि सदक्षिणम् ।। २८ 

यथाविधि चकाराथ कर्म स द्वादशाहिकम् । ब्राह्मणान्भोजयामास तत्र तत्र च कर्मणि ।। २९ 

त्रयोदशाहिकं कर्म चकार च ततो हरिः । तत्र चाभ्यर्चयामास त्रिंशतो ब्रह्मचारिणः ।। ३० 

तेभ्यस्तदुचितान्येव वासांस्येणाजिनानि च । मणिप्रवालमालादि ददौ तांश्चाप्यभोजयत् ।। ३१ 

स्वस्तिवाचनकर्मान्ते तस्मै च गृहिणो जनाः । स्वस्वशक्तयनुसारेण वासांसि च धनं ददुः ।। ३२ 

तस्मिन्दिने तु तान्सर्वान् गृहस्थांस्त्यागिनो द्विजान् । तद्ग्रामस्थांश्चातिथींश्च भोजयामास वर्णिराट् ।।३३ 

गीतावाचकविप्रं च पूजयामास तद्दिने । वासोभूषाचन्दनाद्यैर्दक्षिणाभिश्च भूपते ! ।। ३४ 

यथोचितं भूप ! विधाय सोऽखिलं क्रियाकलापं विधिनौर्ध्वदैहिकम् ।
गुरोः स्वकीयस्य सतीर्थ्यमण्डलं समग्रमेकत्र समाह्वयत्ततः ।। ३५


।। इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे प्रथमप्रकरणे
रामानन्दस्वामितिरोधानतदूर्ध्वदैहिकक्रियाविधिनामा षष्ठितमोऽध्यायः ।।६०।।