प्रथमोऽध्यायः

सुव्रत उवाच

स्नतः कृताह्निकः सोऽथ चतुर्दशदिने सभाम् । कारयामास महतीं न्यषीदत्तत्र च स्वयम् ।। १ 

तस्याग्रतो निषेदुश्च नैष्ठिका ब्रह्मचारिणः । मुकुन्दानन्दप्रमुखाः स्वामिनः सहयायिनः ।। २ 

ततः सन्तो निषेदुश्च मुक्तानन्दादयोऽखिलाः । विप्राश्च मयरामाद्याः क्षत्रिया मूलजिन्मुखाः ।। ३ 

पर्वताद्या विशः शूद्रा निषेदुः कालजिन्मुखाः । तत्र पुंसोऽस्पृशन्त्यश्च लाडिनीप्रमुखाः स्त्रियः ।। ४ 

उद्धवस्याश्रिता येऽन्ये निषेदुस्तत्र तेऽखिलाः । मुकुन्दाद्याः प्राञ्जलयो नत्वाऽथोचुरिदं हरिम् ।। ५ 

नमः श्रीसहजानन्दस्वामिने गुरुमूर्तये । नारायणमुने ! तुभ्यं नानासग्दुणशालिने ।। ६ 

महाराज ! त्वमेवासि स्थाने श्रीस्वामिनोऽद्य वै । अतः स्वामी त्वमस्माकं वयं शिष्यास्तवाखिलाः ७ 

वर्तिष्यामह आज्ञायां तवैव वयमादरात् । अतः शाधि यथार्हं नः कार्याकार्येऽखिलार्थवित् ।। ८

सुव्रत उवाच -

निर्व्याजावाचस्तान्भक्तान् स्वामी प्राहाथ मानदः । तेषां धर्मस्थितिं वाक्यैः द्रढयन्धर्मशास्त्रगैः ।। ९

श्रीनारायणमुनिरुवाच -

मुकुन्द ! शृणु सद्बुद्धे ! भक्ताः ! श्रृणुत चेतरे । यूयं मदाश्रयाः स्थेति जानाम्यत्र न संशयः ।। १० 

नृदेहं प्राप्य यत्किञ्चित्कर्तव्यं सर्वथा जनैः । तदेव क्रियते नूनं भवद्बिर्हि मुमुक्षुभिः ।। ११ 

अधिकारानुसारेण पूर्वं श्रीस्वामिना यथा । ये ये यत्र नियुक्ताः स्युः स्थातव्यं तत्र तैस्तथा ।। १२ 

तदुक्तान्येव सद्धर्मवाक्यानि नियतव्रतैः । सर्वैश्च पालनीयानि गृहस्थैस्त्यागिभिस्तथा ।। १३ 

धर्मादपेतं यत्कर्म यद्यपि स्यान्महाफलम् । न तत्सेवेत मेधावी शुचिः कुसलिलं यथा ।। १४ 

यमार्याः क्रियमाणं हि स्तुवन्त्यागमवेदिनः । स धर्मो यं च निन्दन्ति तमधर्मं प्रचक्षते ।। १५ 

विद्या वित्तं वपुः शौर्यं कुले जन्म विरोगिता । संसारसङ्कटोद्धारो धर्मादेव प्रवर्तते ।। १६ 

शब्दे स्पर्शे च रूपे च रसे गन्धे च देहिनाम् । प्रभुत्वं जायते यत्तत् धर्मस्यैव फलं विदुः ।। १७ 

धर्मं चिन्तयमानोऽपि यदि प्राणैर्वियुज्यते । तर्हि स्वर्गमवाप्नोति किं पुनस्तमिहाऽऽचरन् ।। १८ 

येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान् । धर्मो वै शाश्वतो लोके न हेयो धनकाङ्क्षया ।। १९ 

उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् । श्रद्दधानाश्च शान्ताश्च धनाढया धर्मकारिणः ।। २० 

धर्मः प्रजां वर्धयति क्रियमाणः पुनः पुनः । धर्मादर्थश्च कामश्च सुखं ज्ञानं च जायते ।। २१ 

अर्थकामौ लिप्समानो धर्ममेवादितश्चरेत् । न हि धर्माद्बवेत्किञ्चित् दुष्प्रापमिति मे मतिः ।। २२ 

निपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः । शुभकर्माणमायान्ति विवशाः सर्वसम्पदः ।। २३ 

धर्माद्राज्यं धनं सौख्यं प्राप्यन्ते सर्वसिद्धयः । लोकद्वयेऽपि यत्सौख्यं तद्धर्मात्प्राप्यते नृभिः ।। २४ 

धर्मे वृद्धे विवर्धन्ते सर्वभूतानि सर्वदा । तस्मिन् हसति हीयन्ते तस्माद्धर्मो निषेव्यताम् ।। २५ 

श्रुतिस्मृत्युदितं धर्ममनुतिष्ठन् हि मानवः । इह कीर्तिमवाप्नोति प्रेत्य चानुत्तमं सुखम् ।। २६ 

एक एव सुहृद्धर्मो निधनेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वमन्यद्धि गच्छति ।। २७ 

धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । कर्मणा मनसा वाचा ततो धर्मं चरेत्पुमान् ।। २८ 

न कामान्न च संरम्भान्नोद्वेगान्न भयादपि । न हेतोर्जीवितस्यापि धर्मस्त्याज्यो न लोभतः ।। २९ 

सीदन्नपि हि धर्मेण नाधर्मे योजयेन्मनः । अधार्मिकाणां पापानामाशु पश्यन् विपर्ययम् ।। ३० 

तृणपत्राग्रगाम्यम्बुबिन्दुवच्चञ्चलं नृणाम् । जीवितं वर्तते तस्मात् साधनीयः स सत्वरम् ।। ३१ 

अजरामरवत्प्राज्ञो विद्यामर्थं च साधयेत् । गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ।। ३२ 

एकस्मिन्नप्यतिक्रान्ते दिवसे धर्मवर्जिते । यो जीवति स भस्त्रेव श्वसितीति विदुर्बुधाः ।। ३३ 

नावसीदति चेद्धर्मः कपालेनापि जीवता । आढयोऽस्मीत्येव मन्तव्यं धर्मवित्ता हि साधवः ।। ३४ 

अर्थसिद्धिं परामिच्छन्नपि धर्मपरो भवेत् । न हि धर्मादपैत्यर्थः स्वर्गलोकादिवामृतम् ।। ३५ 

तस्माद्धर्मं सहायार्थं नित्यं सञ्चिनुयाच्छनैः । धर्मेण हि सहायेन तमस्तरति दुस्तरम् ।। ३६ 

स षड्विधो वर्णधर्मो धर्म आश्रमिणां तथा । धर्मो वर्णाश्रमाणां च गौणो नैमित्तिकस्तथा ।। ३७ 

साधारण इति प्रोक्तः षोढा तद्बेदवेदिभिः । तत्र साधारणो धर्मो यस्तं भक्ता ! ब्रवीमि वः ।। ३८ 

क्षमा दयाऽनसूया च शौचानायासमङ्गलम् । अकार्पण्यं निःस्पृहत्वं धर्मः साधारणो मतः ।। ३९ 

बाह्ये वाऽध्यात्मिके दुःखे केनाप्युत्पादिते सति । न कुप्यति न वा हन्ति सा क्षमा परिकीर्तिता ।। ४० 

परो वा बन्धुवर्गो वा मित्रं द्वेष्टापि वा सदा । आपन्नः सर्वथा रक्ष्यो दयैषा परिकीर्तिता ।। ४१ 

न गुणान् गुणिनां हन्ति स्तौति मन्दगुणानपि । नान्यदोषेषु रमते साऽनसूया प्रकीर्तिता ।। ४२ 

अभक्ष्यपरिहारश्च संसर्गश्चाप्यनिन्दितैः । स्वधर्मे च व्यवस्थानं शौचमेतत्प्रकीर्तितम् ।। ४३ 

शरीरं पीडयते येन सुशुभेनापि कर्मणा । अत्यन्तं तन्न कर्तव्यम् अनायासः स उच्यते ।। ४४ 

अद्रोहः प्राणिमात्रस्य वर्जनं चानृतस्य च । प्रशस्ताचरणं नित्यं यत्तन्मङ्गलमुच्यते ।। ४५ 

स्तोकादपि प्रदातव्यम् अदीनेनान्तरात्मना । अहन्यहनि यत्किञ्चित् अकार्पण्यं हि तत्स्मृतम् ।। ४६ 

यथालब्धेन सन्तोषः परद्रव्याद्यचिन्तनम् । अनासक्तिश्च देहादौ निःस्पृहत्वं तदुच्यते ।। ४७ 

धर्मस्य धर्तुर्जगतां हि भक्ताः ! संक्षेपतो लक्षणमेतदुक्तम् ।
मया यथावत्कथयाम्यथो वस्तत्प्राप्त्युपायं च मुमुक्षुवेद्यम् ।। ४८

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे नारायणमुकुन्दानन्दादिसंवादे धर्मप्रशंसानिरूपणनामा प्रथमोऽध्यायः ।। १ ।।