द्वितीयोऽध्यायः

श्रीनारायणमुनिरुवाच -

कायक्लेशैर्न बहुभिः न चैवार्थस्य राशिभिः । धर्मः सम्प्राप्यते ह्येष श्रद्धाहीनैः सुरैरपि ।। १ ।।

सर्वस्वं जीवितं वापि दद्यादश्रद्धया यदि । नाप्नुयात्सफलं किञ्चिच्छ्रद्दधानस्ततो भवेत् ।। २ 

श्रुतिमात्ररसाः सूक्ष्माः प्रधानपुरुषेश्वराः । श्रद्धामात्रेण गृह्यन्ते न करेण न चक्षुषा ।। ३ 

श्रद्धा मातेव सर्वेषां ज्ञानवैराग्ययोः प्रसूः । श्रद्धया साध्यते धर्मो नान्योपायेन केनचित् ।। ४ 

अपि निष्किञ्चना विप्राः श्रद्धावन्तो दिवं गताः । धर्मार्थकाममोक्षाणां श्रद्धा परमसाधनम् ।। ५ 

क्रियावान् श्रद्धधानश्च दाता प्राज्ञोऽनसूयकः । धर्माधर्मविशेषज्ञाः तमस्तरति दुस्तरम् ।। ६ 

श्रद्धयाऽचर्यमाणोऽपि धर्मः शिथिलचेतसाम् । यथावत्फलदो न स्यात् कर्तव्यो नियमस्ततः ।। ७ 

असिधाराव्रतं ह्येतत् पुंसां नियमशीलनम् । दुष्करो नियमः पुम्भी रागलोभाकुलात्मभिः ।। ८ 

देवत्वं देवताः प्राप्ताः प्रकाशन्ते च तारकाः । नियमाचरणादेव वेलां नाक्रमतेऽर्णवः ।। ९ 

नियमाद्दीप्यते वह्निर्नियमात्तप्यते रविः । नियमाद्वाति पवनो नियमाद्ध्रियते जगत् ।। १० 

नियमानां हि दृश्यन्ते समृद्धाः फलसिद्धयः । तथा विनियमानां च घोरा व्यापत्तयो भुवि ।। ११ 

श्रद्धधानैस्ततः पुम्भिः धर्मो नियमपूर्वकम् । वर्धनीयः प्रतिदिनं परलोकसहायकृत् ।। १२ 

देशः काल उपायश्च द्रव्यं श्रद्धा तथैव च । पात्रं त्याग इति प्रोक्तं धर्ममूलं हि सप्तकम् ।। १३ 

शुद्धैरेतैर्भवेद्धर्मो विशुद्धः फलदायकः । अशुद्धैर्विपरीतः स्यात् इति ज्ञोयं विचक्षणैः ।। १४ 

पुंसां गुणाश्च दोषाश्च सदसत्सङ्गतोऽपि हि । स्युस्तत्सङ्गः सतां कार्यो नासतां तु मुमुक्षुभिः ।। १५ 

दोषजालस्य वै योनिः असतां तु समागमः । अहन्यहनि धर्मादेः योनिः साधुसमागमः ।। १६ 

येषां त्रीण्यवदातानि विद्या योनिश्च कर्म च । सतस्तानेव सेवेत परीक्ष्य मतिमान्नरः ।। १७ 

निरारम्भा ह्यपि नराः पुण्यशीलोपसेवनात् । पुण्यमेवाप्नुवन्तीह पापं पापोपसेवनात् ।। १८ 

असतां दर्शनात्स्पर्शात् सञ्जल्पाच्च सहासनात् । धर्माचारात्प्रहीयन्ते न च सिध्यन्ति मानवाः ।। १९ 

बुद्धिश्च हीयते पुंसां नीचैः सह समागमात् । मध्यमैर्मध्यतां याति श्रेष्ठतां याति चोत्तमैः ।। २० 

तस्मात्प्राज्ञौश्च वृद्धैश्च सुस्वभावैस्तपस्विभिः । सद्बिश्च सह संसर्गः कार्यः शमपरायणैः ।। २१ 

कर्तव्यस्य हि धर्मस्य यथावल्लक्षणं ततः । अधर्मस्याप्यकार्यस्य ज्ञायते सद्बय एव हि ।। २२ 

यूयं सर्वे ततो भक्ताः ! सतामेव समागमम् । कुर्वन्त एवाऽऽचरत स्वस्वधर्मं यथोचितम् ।। २३ 

श्रीवासुदेवमाहात्म्यात् स तु ज्ञोय इति स्वयम् । स्वाम्येवोचे ततस्तस्मात् बोद्धव्यस्तत्त्वतश्च सः २४ 

तमास्थिता भगवतो राधाकृष्णस्य नित्यदा । एकान्तभक्तिं कुरुत स्वाभीष्टफलदायिनीम् ।। २५ 

धर्माधर्मौ साध्वसाधू न्यायान्यायौ च तत्त्वतः । कृष्णस्वरूपतद्बक्ती बुध्यन्ते शास्त्रतः सतः ।। २६ 

अवश्यमेव तत्कार्यः सच्छास्त्राभ्यास आदरात् । स्वस्वबुद्धयनुसारेण भवद्बिर्मदुपाश्रयैः ।। २७ 

नैर्गुण्यस्थितिमाप्यापि न सच्छास्त्राणि सन्त्यजेत् । सद्ग्रन्थवर्जनात्सिद्धा अपि जाडयं व्रजन्ति यत् २८ 

उत्साहशक्तिभङ्गश्च कृष्णभक्तौ ततो भवेत् । बुद्धिमोहश्च शैथिल्यं श्रद्धाया अपि जायते ।। २९ 

स्थापिते येषु कृष्णस्य साकारत्वविशुद्धते । सच्छास्त्राणि तु तान्येव वेदार्थानुसृतानि हि ।। ३० 

बहूनि सन्ति तानीह तेष्वभीष्टानि यानि मे । भवन्ति तानि कथये शृणुतात्महितानि वः ।। ३१ 

वेदाश्च व्याससूत्राणि गीता भगवतोदिता । नाम्नां सहस्रं विष्णोश्च श्रीमद्बागवतं तथा ।। ३२ 

श्रीवासुदेवमाहात्म्यं नीतिर्विदुरकीर्तिता । याज्ञावल्क्यस्मृतिश्चेति सन्त्यभीष्टानि मेऽष्ट वै ।। ३३ 

तत्रापि भगवग्दीता तथा शारीरकाणि च । इति रामानुजाचार्यभाष्योपेतं मतं द्वयम् ।। ३४ 

एतदभ्यासतो बुद्धिः कृष्णभक्तयैव वासिता । भवेत्ततोऽन्यशास्त्राद्यैः न पतेदौद्धवाध्वतः ।। ३५ 

अशक्तो द्वाविमौ ग्रन्थावध्येतुं यः स सर्वथा । गीतां रामानुजाचार्यभाष्योपेतं पठेन्नरः ।। ३६ 

स्मृतिस्तु याज्ञावल्क्यस्य विज्ञानेश्वरक्लृप्तया । युक्ता मिताक्षरानाम्न्या टीकयैव मता मया ।। ३७ 

आचारव्यवहाराणां प्रायश्चित्तस्य चाघिनाम् । एतया निर्णयः कार्यः सम्प्रदायानुसारतः ।। ३८ 

ग्रन्थेष्वेष्वप्यतीष्टा मे त्रयो भागवतस्य यौ । दशमः पञ्चमः स्कन्धौ याज्ञावल्क्यस्य च स्मृतिः ।। ३९ 

कर्तव्या नित्यपाठादावेते ग्रन्थोत्तमास्ततः । विचार्याः स्वस्थमनसा मदीयैः श्रेयसे जनैः ।। ४० 

इत्याज्ञा पालनीया मे भवद्बिर्मामुपाश्रितैः । शोकस्तु स्वामिनो नैव कार्यः प्राकृतजीववत् ।। ४१ 

अखण्डं स्वस्वरूपस्था महान्तो ये तु पूरुषाः । कल्याणार्थं हि जगतां ज्ञोयं तज्जन्म भूतले ।। ४२ 

आविर्भावतिरोभावौ तेषां स्वातन्त्र्यतः किल । भवतो न त्वितरवत् निजकर्मवशात् क्वचित् ।। ४३ 

तद्देहत्यागमालोक्य मुह्यन्त्यसुभृतोऽसुराः । दैवास्तु तत्स्वरूपज्ञाः तेषां लीलां विदन्ति ताम् ।। ४४ 

अतः शोकं विहायैव सेव्यमूर्तेर्गुरोः प्रभोः । स्वस्वदेशान्प्रयाताद्य याम्यहं धीरजित्पुरम् ।। ४५

सुव्रत उवाच -

एवं सुबोधितास्तेन विशोका इव तेऽखिलाः । स्वस्वदेशं ययुर्नत्वा भक्तास्तं च गुरुं विदुः ।। ४६ 

सकलनिगमधर्मशास्त्रसारं समुपदिशन् विशदं सुनिश्चितं सः ।
हरिरखिलसतीर्थ्यशोकमीशः क्षितिप ! हरन्नभिधां चकार सार्थाम् ।। ४७

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे नारायणमुनि-मुकुन्दानन्दादिसंवादे श्रद्धादिप्रशंसासच्छास्त्रोपदेशनिरूपणनामा द्वितीयोऽध्यायः ।। २ ।।