सुव्रत उवाच -
ततः शिष्यैरनुगतः कतिभिश्चित्स भूपते ! । धर्मप्रवृत्त्येकमना धीरजित्पुरमभ्यगात् ।। १
भक्तैः स बहुभिर्मार्गे पूज्यमानोऽतिभावतः । भाण्डीरपुरमागत्य मणिभद्रपुरं ययौ ।। २
ग्रामं पिप्पलसंज्ञां च ततोऽगतरयाभिधम् । कालवाणीं ततः प्रायात् भक्तानानन्दयन्निजान् ।। ३
क्वचिदेकं दिनं द्वे वा क्वचित्त्रीणि वसन् स च । बोधयित्वा निजान्भक्तान् स्वस्वधर्मेष्वतिष्ठिपत् । ४
आज्ञाया स्वगुरोरेव यानमारोहति स्म सः । दधौ क्वचिदलङ्कारात् नूतनान्यंशुकानि च ।। ५
धर्माध्वनि स्थापयितुं योषितो भाषते स्म च । तथापि क्वापि नासक्तः स बभूवात्मशक्तितः ।। ६
स्थापनायैव धर्मस्य विचरन्स धरापते ! । प्रायात्समुद्रतीरस्थं मकरालयपत्तनम् ।। ७
उपकण्ठे तत्र सिन्धोः नातिदूरे पूराद्बहिः । वटचिञ्चाद्रुमच्छाये स्थाने स्वावासमाचरत् ।। ८
मुमुक्षवः पुरे तत्र तद्दर्शनमहामुदः । धनिनो वणिजस्तस्य भक्ताः सेवामकुर्वत ।। ९
गोवर्धनस्तेषु मुख्यः तथा दामोदराह्वयः । रामचन्द्रः सूरचन्द्रो वणिजो रत्नजिन्मुखाः ।। १०
क्षत्रं च मानसारामः शूद्राश्च धनजिन्मधुः । आनन्दजित्रिक्रमाद्याः तमसेवन्त भक्तितः ।। ११
राजनीभानुमुख्याश्च योषितः शुद्धचेतसः । यथोचितं विदधिरे परिचर्यां हरेर्नृप ! ।। १२
महतीं खनयामास मिष्टोदां तत्र वापिकाम् । तत्प्रतिष्ठाविधिं चक्रे ततः शास्त्रानुसारतः ।। १३
पूर्तकर्मविधौ तस्मिन् सनरेशाः पुरौकसः । चित्रं यथाऽऽपुः स तथा महोत्सवमकारयत् ।। १४
ब्राह्मणांस्तर्पयामास सद्बिर्भोज्यैः सहस्रशः । हविर्भिर्वह्निवदनात् देवांश्चेन्द्रपुरोगमान् ।। १५
वर्णिस्वामी यदा तत्र विष्णुं पूजयितुं स्वयम् । न्यषीददासने तर्हि बभूवाद्बुतमीदृशम् ।। १६
मयरामादयो विप्राः कुर्वन्तं देवतार्चनम् । तमीक्षमाणा ददृशुः सद्य एव चतुर्भुजम् ।। १७
गदाब्जशङ्खचक्राढयं किरीटेन विराजितम् । पीताम्बरं घनश्यामं श्रीवत्साङ्कितवक्षसम् ।। १८
वामे भगवतस्तस्य श्वेताङ्गं ददृशुर्वृषम् । चतुर्वक्त्रं चतुष्पादम् अष्टनेत्रं चतुर्भुजम् ।। १९
बद्धाञ्जलिपुटं द्वाभ्यां दोर्भ्यामेकेन बिभ्रतम् । पूजाद्रव्याणि हस्तेन धर्मशास्त्रं परेण च ।। २०
वसानं वाससी श्वेते नानालङ्कारभूषितम् । सद्रत्नसारमुकुटम् अतिशान्ताकृतिं नृप ! ।। २१
विष्णोर्दक्षिणभागेऽथ द्विभुजां ददृशुश्च ते । वासोभूषणशोभाढयां भक्तिं गौरतनुं स्थिताम् ।। २२
पूजोपचारैर्विविधैः भृतं कनकपात्रकम् । बिभ्रतीं पाणिनैकेन परेण कुसुमस्रजम् ।। २३
भक्तिधर्मयुतं विष्णुमित्थं ते ददृशुर्नृप ! । इच्छयैव हरेस्तस्य दधतो नारनाटनम् ।। २४
मुहूर्तमेवं ते सर्वे विप्रा वीक्ष्य सविस्मयाः । तमेव मेनिरे विष्णुं स्वेच्छया मानुषाकृतिम् ।। २५
मुहूर्तान्ते यथापूर्वं दृष्ट्वा तं च प्रणम्य ते । पौर्तं विधिं समाप्यास्य चक्रुः सुदृढमाश्रयम् ।। २६
चक्रुश्च महतीं पूजां तस्य वेदोक्तवर्त्मना । वेदघोषं प्रकुर्वन्तो ब्राह्मणा दृढनिश्चयाः ।। २७
तमाश्रित्य तदाज्ञायां स्थित्वान्योपासनं द्रुतम् । विहाय सर्वभावेन तमेवैकमुपासत ।। २८
स्वरूपमित्थं कृपया द्विजेभ्यः सोऽदीदृशत्स्वेश्वरतावबुद्धयै ।
उवास तत्र प्रथयन्प्रतापं पुरे स्वकीयं हरिरावसन्तात् ।। २९
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे विष्णुस्वरूपाविष्कारनामा तृतीयोऽध्यायः ।। ३ ।।