सुव्रत उवाच -
आसीत्तस्मिन्पुरेऽथैको मेघजित्संज्ञाको वणिक् । प्राचीनोऽस्य सतीर्थ्यो वै हरेः सिद्धाभिमानवान् ।। १
प्राप्तः समाधौ स्वातन्त्र्यं जह्यात्स्वां तनुमिच्छया । इच्छया भगवद्धाम गच्छेद्वा पुनराव्रजेत् ।। २
अन्तर्हिते तूद्धवेऽसौ स्वात्मानं सर्वतोऽधिकम् । मन्यमानो मुकुन्दादीन् अवमेने प्रभुं च तम् ।। ३
कृष्णभक्तांस्त्यागिजनांस्तिरस्कुर्वन्तमेकदा । सद्बिर्विवदमानं च स्वामी प्राह सदःस्थितः ।। ४
कथं सतोऽवजानासि माननीयान्सुरैरपि । जानामि तव सामर्थ्यं करिष्ये निर्मदं क्षणात् ।। ५
स्वसुखेच्छा यदि भवेत् आज्ञायां तर्हि तिष्ठ मे । नो चेत्समाधौ स्वातन्त्र्यं तवाद्यैव गमिष्यति ।। ६
स उवाच तदा वर्णिन् अधुनातन एव हि । त्वं किं कर्तासि मे रामानन्दशिष्योऽस्मि निर्भयः ।। ७
आज्ञायां मम वर्तध्वं यूयं ज्येष्ठस्य सर्वशः । स्वाज्ञायां मामपि कथं वर्तयन्नैव लज्जसे ।। ८
सामर्थ्यं दर्शयेऽद्यैव मम तुभ्यं विलोकय । इत्युक्त्वा तप्ततैले स्वौ कटाहे न्यक्षिपत्करौ ।। ९
करौ फुल्लत्वचौ दग्धौ तथापि स न विव्यथे । वादं कुर्वन्नपि वणिक् देहस्यात्यन्तविस्मृतेः ।। १०
आश्चर्यमेतदृष्ट्वैव पौरास्तं सिद्धपूरुषम् । मेनिरे स उवाचाथ सर्वेषां श्रृण्वतां वचः ।। ११
इतश्चतुर्थे दिवसे चतुर्थे क्षण एव च । सद्यः कलेवरं स्वीयं हास्याम्यत्र न संशयः ।। १२
स्वामी तमाह यद्येवं त्वया स्यात्तर्हि ते वयम् । शिष्या भवेम सर्वेऽपि शिष्यो मे स्यास्त्वमन्यथा ।। १३
देहस्य च हरेर्धाम्नो मध्ये त्वां तु त्रिशङ्कुवत् । स्थापयिष्ये न सन्देहो यतस्व त्वं यथाबलम् ।। १४
तदा स प्राह मे वश्याः सिद्धयोऽप्यणिमादयः । भवन्तीति न सामर्थ्यं मयि ते प्रचरिष्यति ।। १५
इत्युक्त्वा स गृहं गत्वा जिहासुर्देहमात्मनः । ददौ दानानि बहुधा ब्राह्मणेभ्यः सहस्रशः ।। १६
पक्वान्नानि च भूरीणि विधाप्य ब्राह्मणान्स च । साधून्सहस्रशश्चान्यान् भोजयामास तद्दिनात् ।। १७
जीवान् यवनचण्डालपर्यन्तं समभोजयत् । नीलकण्ठाश्रितान्साधून् वर्जयित्वैव मत्सरात् ।। १८
कृत्वा त्रीणि दिनानीत्थं चतुर्थेऽपि दिने प्रगे । बहुशो भोजयामास साधून्विप्रांश्च सत्वरम् ।। १९
अह्नो मुहूर्ते तुर्येऽथ बध्वा पद्मासनं वणिक् । समाधिमकरोत्तं च द्रष्टुं पौरा उपाययुः ।। २०
सर्वाङ्गेभ्यः समाकृष्य प्राणवायुं हृदम्बरे । वाहयामास विच्छिन्ननाडीबन्धः स्थिरेक्षणः ।। २१
ऊर्ध्वं नेतुं हृदः प्राणान् ब्रह्मरन्ध्रं विभिद्य च । गन्तुं तु नैव शेकेऽसौ यतमानो भृशं बलात् ।। २२
बहुवेलं च बहुधा कृते यत्नेऽप्यसून्निजान् । नोर्ध्वं न चाप्यधो नेतुं स शशाक कथञ्चन ।। २३
अष्टभिः स्ववशाभिश्च सिद्धिभिः सोऽणिमादिभिः । अपि सञ्चालनेऽसूनां न क्षमोऽभून्नराधिप ! ।। २४
नभोलम्बदधःशीर्षत्रिशङ्कुनृपतेर्दशाम् । प्राप्तो निश्चेष्ट एवासावेकस्मिन्न्यपतत्स्थले ।। २५
हतप्रतिज्ञां तं चातिव्याकुलं सिद्धमानिनम् । प्राहुः पौरा द्वितीयेऽह्नि विप्राश्च वणिजोऽपि च ।। २६
वर्णिराजस्य च सताम् अपमानस्त्वया कृतः । न पूर्णा ते प्रतिज्ञाऽतः प्राप्तोऽस्येतां त्वमापदम् ।। २७
तस्मात्तं मानयाऽऽशु त्वं स तु युक्तं करिष्यति । त्याजयिष्यति देहं वा भवन्तं जीवयिष्यति ।। २८
इति नागरिकैः प्रोक्तां वाचं स स्वहितामपि । प्राप्तोऽपि तादृशं कष्टं न मेने माननष्टधीः ।। २९
निश्चेष्ट इत्थं पतितः स आसीद्दिनपञ्चकम् । ततो गलितमानोऽभूत्तं हृदा शरणं ययौ ।। ३०
अस्फुटाक्षरया वाचा संज्ञाया चान्तिकस्थितान् । नरान्स प्राह वर्णीन्द्रम् इहानयत मा चिरम् ।। ३१
जनैः सम्प्रार्थ्यमानोऽथ नीलकण्ठः कृपानिधिः । सद्बिः सहैव तत्रैत्य तद्दृष्टिं स्वदृशैक्षत ।। ३२
यथास्थानगतप्राणनाडिः सद्योऽभवत्तदा । स्वस्थ उत्थाय स स्वेशं ज्ञात्वा कृष्णं तमानमत् ।। ३३
प्राह चाद्यदिनात् स्वामिंस्त्वद्दासोऽस्मि कृपां कुरु । क्षान्त्वा ममापराधांस्त्वमाज्ञापयितुमर्हसि ।। ३४
स ऊचे मेघजिद्बक्त ! त्वया देहो न साम्प्रतम् । त्यक्तव्यो भगवद्वार्ताः कुर्वन् जीव सुखं भुवि ।। ३५
इत्युक्त्वा भगवांस्तेन सह स्वावासमाययौ । ततोऽतिविस्मयं प्रापुः सर्वेऽपि पुरवासिनः ।। ३६
निशाम्याश्चर्यं तन्नगरमनुजा ऐशमतुलं हरेस्तस्मिन्नापुर्जगदधिपसम्भ्रान्तिमनिशम् ।
ततस्तेषामेके तदुपसदनायोत्सुकहृदो बभूवुः केचित्तं प्रभुरिति परीक्ष्योपससृपुः ।। ३७
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे स्वातन्त्र्यसमाधिनिष्ठमेघजित्पराजयनामा चतुर्थोऽध्यायः ।। ४ ।।