पञ्चमोऽध्यायः

सुव्रत उवाच -

वणिजः श्रावकास्तत्र समवेताः सहस्रशः । तदाश्रयं कर्तुकामास्तं प्रणम्यैवमूचिरे ।। १ 

अस्मत्तीर्थंकरान्द्रष्टुमिच्छामो वर्णिराड्वयम् । स्थातुं ततस्तत्वदाज्ञायां तत्पराः स्मो न संशयः ।। २ 

उपावेश्याथ तान्स्वामी कृपावीक्षणकारिते । समाधौ दर्शयामास तेभ्यस्तीर्थङ्करान्बहून् ।। ३ 

विलीननाडीप्राणास्ते बहिः काष्ठवदासत । तीर्थङ्करांस्तु हृदये ददृशुः श्रुतलक्षणान् ।। ४ 

इत्थं यामत्रयं तस्थुः समाधौ ते तु भूपते ! । ऋषभप्रमुखांस्तांश्च दृा मुमुदिरे भृशम् ।। ५ 

उद्धोषोऽभून्महान् पुर्यां ते मृताः श्रावका इति । तदा सम्बन्धिनस्तेषां तत्राजग्मुस्त्वरान्विताः ।। ६ 

मृतकानिव तान्वीक्ष्य निश्चेष्टान् पतितान्भुवि । रुदन्तः प्रार्थयामासुः ते त्वमूञ्जीवयति तम् ।। ७ 

सद्य उत्थापयामास तदा तान्वीक्षयैव सः । तीर्थङ्करा दर्शिता नः स्वामिनेत्यूचुरुत्थिताः ।। ८ 

ततो नारायणमुनिं विदित्वेश्वरमेव ते । समाश्रित्य दृढं भेजुः देहदैहिकनिःस्पृहाः ।। ९ 

आसंस्तस्मिन्पुरेऽन्ये च श्रीवल्लभकुलाश्रिताः । निम्बार्कीयाश्च माध्वाश्च श्रीमद्रामानुजाश्रिताः ।। १० 

रामानन्दाश्रिताः केचित् शङ्कराचार्यसंश्रिताः । सौराः शाक्ता गाणपत्याः शैवास्त्रैवर्णिकास्तथा ।। ११ 

शूद्रा योषाश्च संन्यस्ता वर्णिनो वीतरागिणः । अतीताख्याश्च संहत्य तत्राजग्मुः सहस्रशः ।। १२ 

ते सर्वे वर्णिराजस्य क्रियां वीक्ष्यातिमानुषीम् । नत्वोचुरिष्टदेवान्नस्त्वं दर्शयितुमर्हसि ।। १३ 

तदा स प्रहसन्स्वामी धर्मस्थापन उद्यतः । तदभीष्टं पूरयिष्यन् मनसेत्थमचिन्तयत् ।। १४ 

इष्टदेवान्दर्शयेयं हृद्येवैतेभ्य आत्मनः । योगैश्वर्येण चेदद्य तर्हि मां विद्युरीश्वरम् ।। १५ 

ततो ममाश्रयं कुर्युः ज्ञात्वा सर्वात्मकं हि माम् । धर्माभासांश्च हित्वैते कुर्युर्मद्बक्तिमिष्टदाम् ।। १६ 

इत्थं विचार्य भगवान् कृपयैवाखिलानपि । उपावेश्यौजसा सद्यः समाधिं तानचीकरत् ।। १७ 

तस्य वीक्षणमात्रेण ते सङ्कुचितनाडिकाः । लीनप्राणाश्च ददृशुः स्वस्वदेवं निजान्तरे ।। १८ 

श्रीकृष्णं वल्लभीयाद्याः त्रयो गोपीगणावृतम् । वृन्दावनस्थं ददृशुः बाललीलामनोहरम् ।। १९ 

रामानुजपथस्थाश्च सुनन्दगरुडादिभिः । विष्वक्सेनेन चैक्षन्त लक्ष्मीनारायणं युतम् ।। २० 

रामानन्दाश्रिता रामं सीतया लक्ष्मणेन च । युक्तं मारुतिनाऽपश्यन् दिव्यसिंहासनस्थितम् ।। २१ 

शङ्कराचार्यवर्त्मस्था ब्रह्मज्योतिर्व्यचक्षत । उमाप्रमथसंयुक्तं शैवा ऐक्षन्त शङ्करम् ।। २२ 

सौरा हिरण्मयं साक्षात् पुरुषं सूर्यमण्डले । ददृशुर्गाणपत्याश्च महागणपतिं हृदि ।। २३ 

शक्तिभक्ता निजां देवीं ददृशुश्च निजान्तरे । इत्थं सर्वेऽपीष्टदेवांस्तत्प्रतापाद्व्यचक्षत ।। २४ 

स्वस्वेष्टदेवांस्ते वीक्ष्य स्वस्वैश्वर्यसमन्वितान् । आनन्दं परमं प्रापुः जाताः पूर्णमनोरथाः ।। २५ 

लब्धेष्टदर्शनांस्तांश्च ततः स्वामी स्ववीक्षया । पुनरुत्थापयामास मृतकानिव तत्क्षणम् ।। २६ 

ते चातिविस्मिताः स्वे स्वे हृदि दृष्टं परस्परम् । वदन्तो नीलकण्ठं स्म सर्वरूपधरं विदुः ।। २७ 

नारायणं विदित्वा तं प्रत्यक्षं परमेश्वरम् । मतं च देशिकान् स्वीयान् हित्वा चक्रुस्तदाश्रयम् ।। २८ 

मुकुन्दमुक्तानन्दाद्या औद्धवा अपि तस्य तत् । ऐश्वर्यमद्बुतं दृा निश्चिक्युः कृष्णमेव तम् ।। २९ 

ततस्तस्यैव ते भक्तिं चक्रुः प्राप्ता मुदं पराम् । तदाज्ञायामवर्तन्त नित्यदा च नराधिप ! ।। ३० 

यवनस्तत्र राजासीत् वज्रदीन इति श्रुतः । शालकस्तस्य शुश्राव काजिनामेदमद्बुतम् ।। ३१ 

आज्ञाया भगिनीभर्तुः यवनैः सोऽभिवेष्टितः । स्वामिनः पार्श्वमागत्य तं प्रणम्य वचोऽब्रवीत् ।। ३२ 

इष्टदेवाः प्रदर्श्यन्ते जनानां वर्णिराट् ! त्वया । पिगाम्बरानस्मदिष्टान् दर्शय स्याम तेऽनुगाः ।। ३३ 

तदा तमप्युपावेश्य स स्वामी प्राह पश्य माम् । यावत्पश्येत्स तं तावत् आसील्लीनासुनाडिकः ।। ३४ 

निश्चेष्टदेहः सोऽपश्यन् निजान्महमदादिकान् । पिगाम्बरान्स्वहृदये श्रुतपूर्वांस्ततोऽहृषत् ।। ३५ 

स्वामिना वीक्षितोऽथासौ व्युत्तस्थे विस्मयान्वितः । समाधौ वीक्षितं यत्तत् प्राह तत्रागतान्निजान् ।। ३६ 

ततः स स्वामिनं ज्ञात्वा प्रभुं तस्याश्रयं दृढम् । चकार च तदाज्ञायाम् अवर्तत निरन्तरम् ।। ३७ 

एतदाश्चर्यमालोक्य राजापि दृढनिश्चयः । तमाश्रित्यानन्यभक्तया भजतिस्म निरन्तरम् ।। ३८ 

एवं तत्र च यो यस्तमुपागच्छच्छ्रुतैश्वरः । स स निश्चित्य तं साक्षादीशं साश्चर्यमाश्रयत् ।। ३९ 

मद्यमांसपरस्त्र्यादिसेवनं स्वस्वमार्गगम् । अधर्ममेव निश्चित्य ते जहुस्तत्प्रतापतः ।। ४० 

मद्यं मांसं पारदार्यं स्तेयं स्व परहिंसनम् । जातिभ्रंशककर्मादि जहुः सर्वे तदाश्रिताः ।। ४१ 

अष्टधा पालयामासुः ब्रह्मचर्यं गृहीतराः । गृहिणो विधवाः स्त्रीश्च नास्पृशन्बान्धवीतराः ।। ४२ 

नार्यः पतिव्रताधर्मं सुवासिन्यः सिषेविरे । त्यागिवत् पालयामासुः ब्रह्मचर्यं विभर्तृकाः ।। ४३ 

स्वधर्मज्ञानवैराग्यैः भक्तया माहात्म्ययुक्तया । आसन्सर्वे च सम्पन्नाः तद्बक्तास्तत्प्रतापतः ।। ४४ 

नारायणमुनेः शिष्या इत्थं लोकविलक्षणाः । लोकस्था अप्यवर्तन्त श्वेतद्वीपो यथा भुवि ।। ४५ 

इत्थं स्वीयं प्रतापं सुरनरदितिजैर्ब्रह्मरुद्रादिभिर्वा
दुःसाध्यं चेतसाऽपि क्षितितल उरुधा श्रेयसे मानवानाम् ।
भूयोभूयो वितन्वन् धृतनरवपुषा दिव्यलीलाविदग्धः
पापिष्ठाधर्मवंशं गुरुजननिलयं वर्णिराडुच्चखान ।। ४६

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे आश्चर्यसमाधिलीलानिरूपणनामा पञ्चमोऽध्यायः ।। ५ ।।