षष्ठोऽध्यायः

सुव्रत उवाच -

एवं तत्र प्रतापं स्वं दर्शयित्वा सहस्रशः । जनान्निजाश्रितान् कृत्वा गन्तुमैच्छत्पुरान्तरम् ।। १ 

ततो राज्ञा विनीतेन पौरैश्च बहुधार्थितः । चातुर्मास्यमुवासासौ तत्र तत्प्रियकाम्यया ।। २ 

प्रतापो व्यानशे तस्य राजन्दिक्षु विदिक्षु च । आश्चर्यजनका नणां वृद्धैरप्यश्रुतः पुरा ।। ३ 

तं शुश्रुवुस्तत्र तत्र दुर्वासःशापतो भुवि । जाता नृष्वृषयः सर्वे दिदृक्षन्ति स्म तं ततः ।। ४ 

यूथशस्त उपाजग्मुः नगरं तद्द्विजातयः । यथार्हं मानयित्वा तांस्तत्रावासयदीशिता ।। ५ 

शृण्वन्त ईक्षमाणाश्च प्रतापं तस्य ते मुहुः । निश्चिक्युस्तं कृष्णमेव केचित्संशिश्यिरे द्विजाः ।। ६ 

महोत्सवं कर्तुमना जन्माष्टम्यामथ प्रभुः । दूतैरजूहवत्सर्वान् भक्तांस्तत्र निजाश्रितान् ।। ७ 

यूथशस्तेऽपि तत्राऽऽयन् गृहिणस्त्यागिनोऽपि च । सन्मानं विदधे तेषां यथार्हं धर्मनन्दनः ।। ८ 

उत्थायोषसि चाष्टम्यां प्रातःकृत्यं विधाय सः । उद्धवस्वामिनश्चक्रे समर्चनमहोत्सवम् ।। ९ 

ततः स कारयामास मण्डपं सुमनोहरम् । विचित्रवस्त्रपुष्पस्रक्कदलीस्तम्भमण्डितम् ।। १० 

तत्राकरोद्यथाशास्त्रं निशीथे कृष्णपूजनम् । उपहारैर्महद्बिश्च गीतवादित्रपूर्वकम् ।। ११ 

मृदङ्गझर्झरादीनि वादयन्तश्च साधवः । पद्यैर्नानाविधैश्चक्रुः श्रीकृष्णगुणकीर्तनम् ।। १२ 

कृष्णमान्दोलयामास दोलायां च विधाय सः । तत्कथाकीर्तनैश्चक्रे जागरं च निजैः सह ।। १३ 

निशस्तृतीययामान्ते भक्तमण्डलसंसदि । उपाविशत् पट्टकेऽसौ सर्वानानन्दयन्निजान् ।। १४ 

त्यागिनो गृहिणोऽन्ये च योषितश्चातिभावतः । तन्मुखाम्बुजमेवैकं पश्यन्ति स्म स्थिरेक्षणाः ।। १५ 

तदा प्रभुः स कृपयैवैच्छज्ज्ञाानं ममाञ्जसा । एतेषां स्यादिति ततस्ते तमित्थं व्यलोकयन् ।। १६ 

एकैकाङ्गस्न्वत्कोटि कोटिभास्करतेजसम् । घनश्यामं पीतपटं बर्हिबर्हकिरीटिनम् ।। १७ 

कौस्तुभं वैजयन्तीं च मालिकां बिभ्रतं गले । सद्रत्नहेमरशनं मकरश्रुतिभूषणम् ।। १८ 

पदोर्नूपुरशोभाढयं कटकाङ्गदभूषितम् । गन्धपुष्पाञ्चिततनुं किशोरवयसं प्रभुम् ।। १९ 

दोर्भ्यां वेणुं वादयन्तम् अधरोष्ठधृतं तथा । नटवेषं तमालक्ष्य श्रीकृष्णं ते मुदं ययुः ।। २० 

तत्र केचिन्निर्निमेषदृशस्तस्मिंश्च लेभिरे । समाधिमन्तरे केचित् इत्थं तस्थुर्घटीद्वयम् ।। २१ 

ततस्तमेव तेऽपश्यन् यथापूर्वमवस्थितम् । वर्णिवेषं चाल्पजटं श्यामं विशदवाससम् ।। २२ 

एणाजिनधरं शान्तं करात्तजपमालिकम् । नारायणमुनिं वीक्ष्य नेमुः साष्टाङ्गमाशु ते ।। २३ 

परमेश्वर एवायं नारायणमुनिः स्वयम् । श्रीकृष्णोऽस्तीति साश्चर्यं वदन्ति स्म समुत्सुकाः ।। २४ 

औद्धवीयाश्च ऋषयः पौराश्चान्ये च तत्र ये । जना आसन्सभायां ते सर्वे चक्रुस्तदाश्रयम् ।। २५ 

ततो वयं त्वदीयाः स्म इति प्राञ्जलयोऽवदन् । तावज्जातमुषः स्वामी स्नत्वा कृष्णं समार्चयत् ।।२६ 

तर्पयामास सद्बोज्यैः साधून् विप्रान्सहस्रशः । पारणां स ततश्चक्रे जनाश्चान्ये ततो नृप ! ।। २७ 

देशान्तरागताः सर्वे ऋषयो दृढनिश्चयाः । स्वधर्मज्ञानवैराग्ययुजा भक्तयाऽभजंश्च तम् ।। २८ 

तेषां तु केचिदृषयो ब्रह्मचर्याश्रमे नृप ! । अवर्तन्ताथ केऽप्यासंस्त्यागिभक्ता हि साधवः ।। २९ 

भूयोऽपरोऽथ सभां कारयामास सत्पतिः । यथार्हं तत्र पुरुषा निषेदुश्च स्त्रियो नृप ! ।। ३० 

न्यषीदत्तत्र भगवान् पट्टके स्वास्तृते हरिः । बभौ स तारकामध्ये शशाङ्क इव पार्वणः ।। ३१ 

तं चन्दनेनोत्तमपुष्पहारैर्वस्त्रैर्विचित्रैश्च धनैर्नरेन्द्र ! । सम्पूजयामासुरनन्यभावाः सर्वेऽपि भक्ताश्च ततः प्रणेमुः ।। ३२ 

तस्माद्विशुद्धं निजधर्मवर्त्म शुश्रूषवः सन्मुखमेव तस्य । सर्वे निषेदुर्मुखपद्मशोभामवेक्षमाणा विनयानतांसाः ।। ३३


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे जन्माष्टम्युत्सवे श्रीकृष्णस्वरूपदर्शननामा षष्ठोऽध्यायः ।। ६ ।।