सुव्रत उवाच -
नारायणमुनिं नत्वा बद्धाञ्जलिपुटद्वयाः । शिष्या मुकुन्दप्रमुखाः पप्रच्छुरिदमादरात् ।। १
शिष्या ऊचुः -
भगवन्सर्वभूतानां त्वमेव परमा गतिः । स्वाश्रितानां विशेषेण त्वं गुरुश्चेश्वरो ह्यसि ।। २
अतस्त्वामाश्रितानां नः त्यागिनां गृहिणां तथा । स्त्रीणां चापि प्रभो ! ब्रूहि धर्माञ्छ्रेयःप्रसाधकान् ।। ३
सुव्रत उवाच -
इति पृष्टः स भगवान् निजशिष्यैः कृपानिधिः । वेदादीनां सारभूतान् धर्मानाह सनातनान् ।। ४
श्रीनारायणमुनिरुवाच -
शृण्वन्तु मामकाः सर्वे पुरुषा योषितस्तथा । सच्छास्त्रानुसृतान्धर्मान् वच्मि भागवतान् हि वः ।। ५
ब्राह्मे मुहूर्त उत्थाय निशायाः प्रहरेऽन्तिमे । मदीयैः कीर्तनीयानि हरेर्नामानि नित्यदा ।। ६
तद्बक्तानां च नामानि कीर्तनीयानि तैः स च । अव्यग्रमानसैर्ध्येयो मुहूर्तं वैकनाडिकाम् ।। ७
श्रीकृष्णं राधिकाकान्तं तमेव हृदयाम्बुजे । स्मरद्बिः शुद्धहृदयैः कर्तव्या दैहिकी क्रिया ।। ८
स्ननं सन्ध्या जपो होमः स्वाध्यायः पितृतर्पणम् । देवतापूजनादीनि नित्यं कार्याणि च द्विजैः ।। ९
स्ननं च द्विविधां पूजामकृत्वा प्रत्यहं हरेः । सर्वैरन्नं न भोक्तव्यं विना रोगादिपीडितान् ।। १०
उपचारैर्यथालब्धैः विशुद्धैः प्रतिमा हरेः । यथाधिकारं विहितैः पूजामन्त्रैर्यथाविधि ।। ११
रसासक्तिर्न कर्तव्या सर्वैः सर्वत्र सर्वदा । यथाकालं यथालब्धं भोज्यमन्नं फलादि वा ।। १२
यो यत्र मुख्यो हि भवेत् भोजयित्वा स चापरान् । स्वयं भुञ्जीतानुदितं पंक्तिभेदं च नाचरेत् ।। १३
एकादशीषु सर्वासु कृष्णजन्मदिनेषु च । शिवरात्र्यां च नैवान्नं भोक्तव्यं मदुपाश्रितैः ।। १४
मदीयैर्मद्यमांसस्य तन्मिश्रस्य च वस्तुनः । भङ्गागञ्जतमालादेः कार्यः स्पर्शोऽपि न क्वचित् ।। १५
यत्र स्युरवताराश्च शास्त्रेषु स्थापिता हरेः । तद्बक्तया सह च ज्ञानमध्येतव्यानि तानि वै ।। १६
सच्छास्त्राणि च सर्वाणि श्रव्याणि सुधियो मुखात् । न त्वन्तःशत्रुदग्धस्य हर्यभक्तस्य कर्हिचित् ।। १७
ज्ञानशास्त्रेऽपि यत्र स्यान्नैव नारायणस्य च । स्थापनं दिव्यरूपस्य तन्न श्रव्यं कदाचन ।। १८
युक्ताया नियमैः सर्वैः प्राप्ताया ब्रह्मणि स्थितिम् । अपि स्त्रिया मुखान्नैव ज्ञानं श्रव्यं हि पूरुषैः ।। १९
गेयं यशः सदा विष्णोः तदीयानां च भक्तितः । सङ्गः सतां सदा कार्यो हर्यभक्तस्य न क्वचित् ।। २०
निर्मानैर्दासवत्सर्वैर्वर्तितव्यं सतां पुरः । अवधार्याणि वाक्यानि तेषां चैकाग्रचेतसा ।। २१
वृथावादो न कर्तव्यः श्रव्या ग्राम्यकथा न च । अपशब्दा न वक्तव्या नानृतं चापदं विना ।। २२
स्वव्रतानां दृढत्वं स्यात् कृष्णे च प्रेम निर्भरम् । यत्समागमतः स्यात्तत् सङ्गो हेयो न कर्हिचित् ।। २३
स्थितप्रज्ञोऽपि यः सङ्गं तादृशस्य जहाति सः । कामलोभाद्यरिग्रस्तो भ्रश्यत्येव न संशयः ।। २४
सत्सङ्गं स्वं विदधतं यदि कोऽप्यत्र निर्वदेत् । तावन्मात्रेण न क्षोभः प्राप्तव्यो मनसा क्वचित् ।। २५
वैष्णवस्यापि मत्तस्य स्वव्रतेभ्यश्च्युतस्य च । सङ्गो नैवात्र कर्तव्यः पापिनोऽन्यस्य च क्वचित् ।। २६
प्राप्तब्रह्मात्मविज्ञानोऽप्यवमन्ता जगत्प्रभोः । तस्यावतारे चाश्रद्धो यः स्याद्धेयः स दूरतः ।। २७
मत्सम्प्रदायलिङ्गं च बिभ्रद्यो बहिरुत्तमम् । प्रच्छन्नं स्त्र्यादिसंसक्तः परित्याज्यः स दूरतः ।। २८
शान्त्या दान्त्या चोपरत्या तितिक्षास्तिकतादिभिः । गुणैर्देवादिदुष्प्राप्यैः युक्तैर्भाव्यं च मच्छ्रितैः ।। २९
जातेऽत्र साक्षात्कारेऽपि स्वपरब्रह्मरूपयोः । लोब्धव्यं मामकैर्नैव शब्दादिविषये क्वचित् ।। ३०
महद्बिः पूर्वजैः सिद्धैः यद्धर्माचरणं कृतम् । भवेत्तदेव हि ग्राह्यं नाधर्माचरणं क्वचित् ।। ३१
ब्रह्मचर्यप्रधानानि साधनानि विनैव चेत् । सद्यो महाफलां भक्तिं स्वस्मै कश्चिदुपादिशेत् ।। ३२
तर्हि भक्तया तया साकम् उपदेष्टारमेव तम् । सद्यो जह्याद्धि सद्बक्तो न तु स्वनियमान्क्वचित् ।। ३३
धर्मो ज्ञानं च वैराग्यं भक्तेर्वेद्यानि तत्त्वतः । अङ्गानि त्रीण्युत्तमाङ्गहृत्पादाख्यान्यनुक्रमात् ।। ३४
धर्मप्रतिज्ञां कृत्वादौ न पालयति यस्तु ताम् । स तु श्वपचवज्ज्ञोयः पुमान् योषिच्च तादृशी ।। ३५
लोभकामक्रुधादीनां वशे भाव्यं न वैरिणाम् । द्वाराणि निरयस्येति वेदितव्याश्च तेऽखिलैः ।। ३६
सम्प्राप्तस्तीव्रवैराग्यं परं ज्ञानं च धर्मवान् । कृष्णं भजेत प्रेम्णा यः सेव्यः स गुरुवत्पुमान् ।। ३७
गोलोके चाथ वैकुण्ठे श्वेतद्वीपे मनोहरे । यच्चैश्वर्यं ब्रह्मपुरे श्रव्यं श्राव्यं च तद्बृशम् ।। ३८
सपार्षदा ईश्वरा ये तत्तद्धामसु संस्थिताः । राधिकाद्याः शक्तयश्च तेषु मुक्ताश्च ये स्थिताः ।। ३९
एतत्सर्वं स्वहृदये चिन्तनीयं निरन्तरम् । येनान्तकालेऽपि भवेत् तत्स्मृतिर्मुक्तिदायिनी ।। ४०
ब्रह्मभूतैरपि प्राज्ञौः कृष्णस्य श्रवणादिका । भक्तिरेव विधातव्या नित्यदाऽत्र शुकादिवत् ।। ४१
पादोदकं च नैवेद्यं ग्राह्यं स्याद्यच्च सत्पतेः । स्वजातिधर्मानुगुणं तत् ग्राह्यं नान्यथा क्वचित् ।। ४२
अयाचते ह्यभक्ताय नैवेद्यं चरणाम्बु च । तदीयं नैव दातव्यं देयं भक्तया तु याचते ।। ४३
रङ्का अपि हरेर्भक्ता नावमान्या हि कर्हिचित् । अवमानात्तादृशानां भवत्येव महद्बयम् ।। ४४
वैष्णवस्य रुजार्तस्य सेवा कार्या यथा हरेः । अन्नादि देयं तस्मै च तद्रुच्यनुसृतं तु यत् ।। ४५
सतां च महतामग्रे दोषा वाच्या य आत्मनः । स्वमुखेन न कर्तव्यं स्वगुणानां प्रशंसनम् ।। ४६
देवस्य च गुरो राज्ञो विष्णुभक्तस्य चाग्रतः । पादौ प्रसार्य मत्पुम्भिः नोपवेश्यं च संसदि ।। ४७
तेषामग्रे विचार्यैव वाच्यं सत्यं च तत्प्रियम् । तेषां गुह्यं च यत्किञ्चित् तत्प्रकाश्यं न कुत्रचित् ।। ४८
द्रोहः कार्यो न कस्यापि स्तेयं वर्ज्यं च सर्वथा । हितावहं परेषां च कर्तव्यं सत्यभाषणम् ।। ४९
न कार्यं वर्णसाङ्कर्यं न च स्वपरहिंसनम् । नान्योद्वेगकरं वाच्यं नापवादवचस्तथा ।। ५०
अभिव्रजेन्निजाचार्यं श्रुत्वाऽऽयान्तं मदाश्रितः । प्रतिगच्छति तस्मिंश्चाऽऽग्रामान्तं तमनुव्रजेत् ।। ५१
वैष्णवे वीक्षमाणे च नैष्ठिकव्रतशालिनि । ईर्ष्यां परस्यापमानं गालिदानं च नाचरेत् ।। ५२
एकान्तिकानां भक्तानाम् अन्येषां महतामपि । गुणोत्कर्षं सभायां हि कीर्तयेन्नागुणं क्वचित् ।। ५३
ब्राह्मणान् भगवत्प्रेष्ठान् विदित्वा मानयेत्सदा । दृा देवालयं दूरान् नमस्कुर्यात्कृताञ्जलिः ।। ५४
नास्तिकापाश्रयं नैव मदीयः प्रविशेत्क्वचित् । तदाचार्यैर्न भाषेत तद्ग्रन्थाच्छृणुयान्न च ।। ५५
साधारणा मदीयानां त्यागिनां गृहिणामपि । धर्मा एते मया प्रोक्ता विशेषान् कथयाम्यथ ।। ५६
वेदपाठो गुरोः सेवा कर्तव्या ब्रह्मचारिभिः । वानप्रस्थैस्तपः कार्यम् अहिंसाश्च मखा अपि ।। ५७
संन्यासिभिश्च नियतं स्थातव्यमपरिग्रहैः । विष्णुपूजौंकारजपौ कर्तव्यौ तैश्च नित्यदा ।। ५८
द्रव्यस्य हेमरूप्यादेः गृहिवर्जं मदाश्रितैः । त्याग आश्रमिभिः कार्यस्त्यागिभक्तैश्च सर्वथा ।। ५९
त्याज्यः सङ्गोऽष्टधा स्त्रीणाम् एतैस्तत्प्रतिमाऽपि च । नेक्ष्या न कार्या न स्पृश्या देवताप्रतिमां विना ६०
स्त्रीभ्यो धनुःप्रमाणेन गम्यं दूरेण सर्वथा । हर्युत्सवाल्पमार्गादौ रक्ष्यं स्त्रीस्पर्शतो वपुः ।। ६१
यत्र यत्र स्थले स्त्रीणां या या काचित्क्रिया भवेत् । तत्र तत्र क्रिया सा सा न कार्या नैष्ठिकैर्मम । ६२
गृहद्वयान्तरस्थेन कुडयेनैकेन यत्र च । स्यात्स्त्रीपुंसान्तरं तत्र न स्वप्यं निश्यनापदि ।। ६३
स्त्रीभिः कृष्णस्य भक्ताभिः अपि पूजितमच्युतम् । नैष्ठिकव्रतिभिर्नैव गन्तव्यं वीक्षितुं क्वचित् ।। ६४
विना भैक्षं सभां वाऽपि गृहस्थानां गृहाणि च । गन्तव्यानि क्वचिन्नैव त्यागिभिर्यैर्मदाश्रितैः ।। ६५
एकाकिभिर्न गन्तव्यं तैः कदाचन कुत्रचित् । शयितव्यं न खट्वायां विना रोगादिमापदम् ।। ६६
अनापदि न गन्तव्यं निशि वर्त्म च तैः क्वचित् । तथैव च निजस्थानात् गन्तव्यं न बहिर्निशि ।। ६७
आपद्धर्मश्च विपदि ग्राह्योऽन्यत्र बृहद्व्रतात् । प्राणात्ययेऽपि न त्याज्यं ब्रह्मचर्याङ्गमष्टमम् ।। ६८
ऋषभार्षभवन्मानस्त्यक्तव्यस्त्यागिभिर्नरैः । ब्रह्मात्मधीभिर्मच्छिष्यैः देहासक्तिस्तथैव च ।। ६९
निवृत्तिधर्मनिरतैः ईश्वरस्य गुरोरपि । प्रवृत्त्यध्वपरं वाक्यं ग्रहीतव्यं न कर्हिचित् ।। ७०
विधवानां तु नारीणां चातुर्मास्ये विशेषतः । धारणापारणादीनि व्रतानि विहितानि वै ।। ७१
ताभिः पाल्यं ब्रह्मचर्यमप्रस्खलितमष्टधा । पुमांस्तत्प्रतिमा वापि न स्प्रष्टव्या विनाऽऽमरीम् । ७२
धर्मकार्येऽपि न द्रव्यं स्वनिर्वाहोपयोगि यत् । ताभिर्देयं कदापीति मदाज्ञाऽस्ति जनाः ! खलु ।। ७३
बाला युवत्यो वृद्धा वा सधवा विधवास्तथा । स्त्रियः स्वतन्त्रा नैव स्युः पित्रादेः स्युर्वशे सदा । ७४
स्वातन्त्र्येण न कर्तव्यं स्वसम्बन्धिजनान्विना । तीर्थक्षेत्राटनं स्त्रीभिः सर्वाभिरपि कर्हिचित् ।। ७५
सुवासिनीभिर्नारीभिराश्रिताभिस्तु मां निजः । अन्धो रुग्णो जरन्वापि सेव्य ईश्वरवत्पतिः ।। ७६
शीलमेव सदा रक्ष्यं ताभिः सन्त्यज्य चापलम् । श्वाशुर्यं च कुलं पित्र्यं लाञ्छनीयं न तु क्वचित् । ७७
उद्वाहितेतरा नार्यो गृहिभिः स्वप्रसूसमाः । द्रष्टव्या व्यवहार्यं च सम्बद्धासु यथोचितम् ।। ७८
स्त्रीसम्बन्धस्य नैकटये कृष्णस्य गृहिभिः कथा । कर्तव्या दूरतः स्थित्वा न तु सर्वत्र सर्वदा ।। ७९
रहःस्थाने तु मात्रा वा भगिन्या कन्ययाऽपि वा । सहासितव्यं न क्वापि गृहस्थैरप्यनापदि ।। ८०
बुद्धिपूर्वं तु विधवा न स्पृश्या गृहिभिः क्वचित् । आसन्नसम्बन्धहीना योषाऽऽपत्कालमन्तरा ।। ८१
नित्यं पञ्च महायज्ञाः कर्तव्या गृहिभिर्जनाः । पूज्याश्च साधवो भक्तया दानं कार्यं च शक्तितः ।। ८२
स्वातिप्रियपदार्थस्य पात्रे यत्स्त्रीं विनाऽर्पणम् । मानेर्ष्यादम्भरुङ्हीनं तद्दानं चावबुध्यताम् ।। ८३
अहिंसयज्ञाः पूर्तं च कार्यमाढयैर्गृहस्थितैः । पुण्यक्षेत्रेषु दानानि विप्रसन्तर्पणादि च ।। ८४
उपायानां चतुष्केण विना प्राणिवधं नृपैः । स्वकार्यसिद्धिः कर्तव्या राजनीत्या मदाश्रितैः ।। ८५
राजधर्मेष्वपि प्रोक्तं प्राणिघातवचस्तु तैः । युद्धादन्यत्र न ग्राह्यं रक्ष्याश्च पितृवत्प्रजाः ।। ८६
नियमेषु मदुक्तेषु यस्य यस्य च्युतिर्भवेत् । तस्य तस्य विधातव्यं प्रायश्चित्तं यथोचितम् ।। ८७
एतैर्मदुक्तैः सद्धर्मैः ज्ञानवैराग्यसंयुतैः । स्वाधिकारानुसारेण दम्भहीनं स्वनुष्ठितैः ।। ८८
निश्छद्म सेवया विष्णोः तदीयानां च भक्तितः । दयया सर्वभूतेषु लोभादेर्वर्जनेन च ।। ८९
तत्सम्मुखीकरणतो यस्य कस्यापि देहिनः । प्रसीदत्याशु स इति ज्ञातव्यं नात्र संशयः ।। ९०
नृदेहं दुर्लभं लब्ध्वा जीवाः सदुपदेशतः । हर्युन्मुखा ये जायन्ते ते तरन्ति भवाम्बुधिम् ।। ९१
चिन्तामणिसमो ज्ञोयो नृदेहोऽयं विचक्षणैः । स्वर्गो मोक्षस्तदन्यद्वा स्वेप्सितं प्राप्यतेऽमुना ।। ९२
भवाब्धौ प्लव एवासौ गुरुर्यस्यास्ति नाविकः । अनुकूलो मरुत्कृष्णः तेनार्थं को न साधयेत् ।। ९३
सुखं वैषयिकं यत्तत् देहेषु निखिलेष्वपि । सामान्यमस्तीति बुधो नृदेहस्थो हरिं भजेत् ।। ९४
कालाहितुण्डपतितं देहं च क्षणभङ्गुरम् । विदित्वा बुद्धिमानत्र स्वार्थं संसाधयेद्द्रुतम् ।। ९५
स्वस्य या नरदेहस्य प्राप्तिर्देवार्थितस्य वै । इयमेव कृपा ज्ञोया तदीया तु विचक्षणैः ।। ९६
लब्ध्वाऽपि तं च तद्बक्तौ नियमैर्धर्मपालने । हेतुं वदन्ति ये कालं प्रारब्धं वा कृपां हरेः ।। ९७
अपौरुषास्तु ते मूढा असङ्खयैरपि जन्मभिः । लभन्ते नैव तं क्वापि बम्भ्रम्यन्ते च संसृतौ ।। ९८
तस्माद्बवद्बिः सततं स्वधर्मनियतस्थितैः । उत्साहेनैव कर्तव्या तद्बक्तिः श्रद्धयान्वितैः ।। ९९
स्ननं ध्यानं हरेः पूजा जपश्च गुणकीर्तनम् । सत्सङ्गश्चेति सर्वेषां षट्कर्माणि दिनेदिने ।। १००
यावद्देहस्मृतिर्वः स्यात् स्वस्वधर्मा मयोदिताः । तावन्नैते क्वचित्त्याज्या इत्याज्ञा मेऽस्ति सत्तमाः ! १०१
सुव्रत उवाच -
जगग्दुरोर्भगवतः साक्षात्तस्येति भारतीम् । सच्छास्त्रसम्मतां श्रुत्वा ते सर्वे मुदमाप्नुवन् ।। १०२
एवमेवाचरिष्यामो वयं सर्वेऽपि सत्पते ! । इत्युक्त्वा ते भगवते तस्मै प्रीत्या ववन्दिरे ।। १०३
तदाज्ञायां वर्तमानाः साक्षाच्छ्रीकृष्णमेव तम् । जानन्तस्ते दृढं श्रित्वा सर्वभावेन भेजिरे ।। १०४
नारायणमुनेर्गीताम् एतां जनहितावहाम् । यः पठेच्छृणुयाद्वापि प्राप्नुयात्स निजेप्सितम् ।। १०५
एषा महाकल्पलता मनोवाञ्छितपूरणी । सर्वेषां प्राणिनां सेव्या सर्वथा स्वहितार्थिनाम् ।। १०६
एषा हि सर्वशास्त्रेभ्यो गीता ज्ञोया गरीयसी । यन्निःसृता स्वयं साक्षान्नारायणमुखाम्बुजात् ।। १०७
य आचरन्तीह सनातनं श्रीनारायणेन स्वयमेव गीतम् । यथाधिकारं सततं स्वधर्मं प्राप्तं हि तैरेव फलं नृजातेः ।। १०८
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे श्रीनारायणगीतानिरूपणनामा सप्तमोऽध्यायः ।। ७ ।।