अष्टमोऽध्यायः

सुव्रत उवाच -

स्वस्वस्थानं ततो गन्तुं गृहिणो हरिरादिशत् । सयोषास्ते प्रयान्ति स्म निजदेशान्प्रणम्य तम् ।। १ 

मुकुन्दमुक्तानन्दादीन् त्यागिनः कतिचित्तु सः । अरक्षत्स्वान्तिके स्वामी मानयन् गौरवेण च ।। २ 

अन्यांस्तु त्यागिनो भूमावज्ञाबोधाय यूथशः । गन्तुमाज्ञापयामास नानादेशान्नराधिप ! ।। ३ 

ततः पौरांश्च भूपालं स्थातुं धर्माध्वनि प्रभुः । आज्ञाप्यानुगतः शिष्यैः कालवाणीं पुनर्ययौ ।। ४ 

स्वावासमकरोत्तत्र गृहे जीवनशर्मणः । तत्रत्या बहवो भक्ताः चक्रुस्तत्सेवनं नृप ! ।। ५ 

मेघलक्ष्मणभीमाश्च रघुनाथाम्बयादवाः । जयरामादयो विप्राः तमसेवन्त भक्तितः ।। ६ 

वैश्याश्च भक्ता धनिनः तमसेवन्त सानुगम् । पर्वताख्यस्तत्र मुख्यः तथा राजभयाभिधः ।। ७ 

जीवराजस्तथोन्मत्तो ज्येष्ठौ द्वौ मूलजित् हदः । खञ्जो वास्तुर्नृसिंहश्च ज्येष्ठजुष्टौ सहोदरौ ।। ८ 

कृष्णो द्वौ माधवावम्बः केशवो लक्ष्मणस्तथा । विश्रामप्रमुखाश्चान्ये बहवस्तं सिषेविरे ।। ९ 

तेजस्वती मघा फुल्ला हीरुजीवन्तिकादयः । योषितो भक्तिमत्यस्तं भगवन्तमुपासत ।। १० 

एते सहस्रशोऽन्ये च तस्यैव कृपया विभोः । समाधिनिष्ठास्तत्रासन् सर्वयोगकलाविदः ।। ११ 

क्रमसाधितयोगाङ्गा योगिनः प्राप्तसिद्धयः । यथा स्युस्तादृशा ह्येते सद्यस्तत्कृपयाऽभवन् ।। १२ 

प्राणसंयमने देहधारणे त्यजनेऽपि च । स्वातन्त्र्यं लेभिरे ह्येते बालकाश्चापि केचन ।। १३ 

स्वस्वरूपे समाधिं तान् सङ्घशोऽकारयद्यदा । स्वतन्त्रः स जनस्वामी तदाश्चर्यमजीजनत् ।। १४ 

सद्यः समाधिमाप्तानां पुंसां स्त्रीणां तथा पृथक् । बभूवुः पंक्तयस्तत्र शतशश्च सहस्रशः ।। १५ 

केचित्सिद्धासनस्थाश्च केचित्पद्मासनस्थिताः । जनाः केचित्तु वीराख्यमासनं तत्र चाश्रिताः ।। १६ 

केचिद्वज्रासनं केचित् स्वस्तिकासनमास्थिताः । केचिच्छबासनस्थाश्च तत्राऽऽसन्नृपते ! जनाः ।। १७ 

काष्ठानामश्मनां वापि प्रतिमा इव तेऽखिलाः । निश्चेष्टाः समजायन्त समाधेः परमत्वतः ।। १८ 

तत्र कांश्चित्तु यामान्ते समुत्थापयति स्म सः । कांश्चिद्यामद्वयान्ते च दिनान्तेऽपि च कांश्चन ।। १९ 

कांश्चिद्दिनद्वयान्ते च पक्षान्तेऽपि च कांश्चन । मासान्ते वा द्विमासान्ते त्रिमासान्तेऽपि कांश्चन ।। २० 

कांश्चिन्मासचतुष्कान्ते व्युदस्थापयदीश्वरः । कांश्चित्तु दृष्टिमात्रेण कांश्चिच्छब्देन वा हृदा ।। २१ 

यः समाधिपरानन्दास्वादलोभेन कश्चन । पुनर्बहिर्निजं देहं तेनाऽऽसूतोऽपि नाऽऽययौ ।। २२ 

तादात्म्येनैव योगेन तमपि प्रसभं प्रभुः । आनिनाय पुनः शीघ्रं महायोगेश्वरत्वतः ।। २३ 

यो योऽभूद्व्युत्थितो भक्तो यद्यत्स्वेन समीक्षितम्। समाधौ तत्तदखिलं सदःस्थान् स स ऊचिवान् २४ 

वार्तां ब्रह्मपुरस्यैके भक्ताश्चक्रुरलौकिकीम् । श्वेतद्वीपस्य केचिच्च वैकुण्ठस्य च केचन ।। २५ 

गोलोकस्योचिरे केचित् दिव्यमैश्वर्यवैभवम् । त्रिलोक्यां देवदैत्यादिः स्थानवार्ताश्च केचन ।। २६ 

समाधिदृष्टं प्रकृतिपुंसो लोकं च केचन । ऐश्वर्यवैभवं चापि कथयामासुरञ्जसा ।। २७ 

लोकैश्वर्यप्रतापादि केचित्सङ्कर्षणस्य च । प्रद्युम्नस्योचिरे केचित् अनिरुद्धस्य केऽपि च ।। २८ 

चतुर्विंशतितत्त्वानां लोकैश्वर्यादि केचन । प्राहुः पृथक् पृथग्दृष्टं यथावत्तत्र संसदि ।। २९ 

त्रिलोकीस्थहरिस्थानवार्ताश्चक्रुश्च केचन । केचिल्लोकालोकबहिःस्थानवार्ताश्च चक्रिरे ।। ३० 

केचित्त्वनन्तब्रह्माण्डब्रह्माविष्णुशिवक्रियाः । उत्पत्त्याद्याः क्रमेणाहुः तत्रत्यं चातिवैभवम् ।। ३१ 

देवदैत्यनरादीनां तत्र तत्र च याः क्रियाः । आश्चर्यरूपास्ताः सर्वाः कथयामासुरीक्षिताः ।। ३२ 

ब्रह्माण्डरचनां सर्वां यथादृष्टां च केचन । वर्णयामासुरेके च स्वदेहरचनामपि ।। ३३ 

भूगोलस्य च संस्थानं खगोलस्याखिलस्य च । यथावत्कथयामासुः केचित्तत्र नराधिप ! ।। ३४ 

तेषां तथाविधा वाचः शृण्वन्नारायणो मुनिः । चक्रे तत्तद्योगवतां पक्वापक्वत्वनिश्चयम् ।। ३५ 

यस्य यस्य च तत्राभूत् अपक्वा योगधारणा । तं तं पुनस्तदुचितां कारयामास धारणाम् ।। ३६ 

प्राणानामथ नाडीनां स्वातन्त्र्येण पुनः पुनः । सङ्कोचनं विकासं च शिक्षयामास कांश्चन ।। ३७ 

सर्वाङ्गेभ्यस्तथाकृष्य दृशि प्राणात्मनां धृतिम् । कांश्चिच्चाशिक्षयत्स्वामी तथाऽङ्गुल्यादिमात्रके ।। ३८ 

तादृश्यां धारणायां तु प्राणात्मरहितेऽखिले । छेद्यमाने दह्यमाने देहेऽपि स्यान्न वै व्यथा ।। ३९ 

परावृत्त्यैकमक्ष्यस्य स्वान्तर्वृत्त्यैव धारणम् । निर्निमेषं द्वितीयस्य बहिर्वृत्त्या च धारणम् ।। ४० 

एतयोर्वैपरीत्येन धारणं च पुनस्तथा । अक्षियोगमिमं स्वामी कारयामास कांश्चन ।। ४१ 

उभे नेत्रे परावृत्त्या कृत्वा च स्वान्तरं प्रति । नाडीप्राणाकर्षणं च शिक्षयामास कांश्चन ।। ४२ 

उभे अपि बहिः कृत्वा निर्निमेषे स्वलोचने । नाडीप्राणाकर्षणं च कांश्चिद्बक्तानशिक्षयत् ।। ४३ 

षट्सु चक्रेष्वन्यतमे रोधयित्वा ह्यसूंस्ततः । नानानादश्रुतिं कांश्चित् कारयामास स प्रभुः ।। ४४ 

चक्र एकतमे रुद्धप्राणान्कांश्चन पूरुषान् । अजीगणत्स प्रणवान् व्युत्थितैस्तानवीवदम् ।। ४५ 

इडायाः पिङ्गलायाश्च सुषुम्णादेश्च वर्त्मना । चन्द्रसूर्यादिलोकांश्च गमयामास कांश्चन ।। ४६ 

प्रेषयित्वा संयमनीं समाधौ कांश्चन स्वकम् । श्रावयित्वा नाम सद्यो नारकानुद्दधार च ।। ४७ 

यथा राज्यासनं प्राप्तो नैगडान् मोचयेन्नृपः । तथा गुरुपदारूढः सोऽपि नारकिणो नृप ! ।। ४८ 

एवंविधा योगकलाः समग्रा अपि सोऽनघ । प्रापयामास भक्तान्स्वान्विना साधनसम्पदम् ।। ४९ 

तत्प्रतापेन ते सद्यः सिद्धयोगाः सुमेधसः । देहान् परेषामाविश्य विविदुस्तन्मनोगतम् ।। ५० 

स्थित्वा परेषां देहेषु तत्प्राणांश्चावरुध्य ते । अदीदृशंश्च भगवद्धामान्यपि यथा हरिः ।। ५१ 

तेनाज्ञाप्तश्च यः कोऽपि पुरुषः स परं नरम् । अकारयत्समाधिं च समाधिस्थं त्वबोधयत् ।। ५२ 

इत्थं स कृपया स्वामी स्वप्रतापं प्रदर्शयन् । कालनष्टा योगकलाः प्रावर्तयत भूतले ।। ५३ 

प्रतिगेहं योगकलायुक्तिवार्ताः पुरे पुरे । ग्रामे ग्रामे च राजर्षे ! बभूवुः श्रोतृमङ्गलाः ।। ५४ 

तिष्ठन्नेव बहिर्निजानुपदिशन्बह्वीः कलायोगगा, हृत्स्वाविश्य च तत्करान्निजकरेणादाय तैर्वाञ्छितान् ।
द्रष्टुं तत्तदमर्त्यलोकविभवानग्रेचरो दर्शयन् अङ्गुल्या, निजयाऽऽपितान्विजयते श्रीभक्तिधर्मात्मजः ।। ५५

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे विचित्रयोगकलाविष्कारनामाष्टमोऽध्यायः ।। ८ ।।