नवमोऽध्यायः

सुव्रत उवाच -

दिग्व्याप्तभूरिसत्कीर्तिरित्थं नारायणो नृप ! । तत्र मासद्वयं भक्तानुवासानन्दयन् भृशम् ।। १ 

पिप्लग्रामतस्तत्र नरसिंहो द्विजस्तथा । नारायणोऽक्षयग्रामादुभावाजग्मतुः समम् ।। २ 

प्रार्थयामासतुस्तं च स्वग्रामागमनाय तौ । ताभ्यां प्रसन्नो वर्णीन्द्रः प्रतिजज्ञो तथैव तत् ।। ३ 

कृत्वोत्सवं प्रबोधन्या महान्तं स ततो ययौ । सहानुगोऽक्षयग्राममादावोजस्वतीतटे ।। ४ 

ततः स पिल्पलग्रामं तस्मिन्नेव दिने ययौ । उभयोर्ग्रामयोस्तत्र षण्मासानवसत्प्रभुः ।। ५ 

नारायणो रामजिच्च गोविन्दश्च कुमारजित् । नृसिंहः परमानन्दः कल्याणश्च कलो रघुः ।। ६ 

इत्याद्यास्तमसेवन्त विप्राश्चान्येऽपि भक्तितः । जीवा च लाडिनी मिठ्ठी रुक्मा लाडुमुखाः स्त्रियः ।। ७ 

प्रापुः समाधौ स्वातन्त्र्यं सर्वे ते कृपया हरेः । कालकर्मयमत्रासविमोचनपटीयसः ।। ८ 

उत्सवस्तत्र कार्तिक्यां पौर्णमास्यां महानभूत् । पुपूजुस्तं जनाः सर्वे वासोभूषाधनादिभिः ।। ९ 

उदारो नरसिंहस्तु कृष्णस्याग्रे धनोच्चयम् । महान्तमकरोत्तेन प्रापुः सर्वेऽपि विस्मयम् ।। १० 

विष्णुयागं तेन चक्रे हरिरोजस्वतीतटे । देशान्तरेभ्य आजग्मुः जनास्तत्र सहस्रशः ।। ११ 

विधाप्य विधिवत्कुण्डमण्डपादि द्विजोत्तमैः । उपहारैर्महद्बिः श्रीविष्णुमार्चयदुत्तमैः ।। १२ 

सहस्रशो द्विजास्तत्र तेनाहूता उपाययुः । वेदशास्त्रपुराणज्ञाः श्रौतस्मार्तक्रियाविदः ।। १३ 

गायत्रीं वैष्णवीं तत्र कांश्चिद्विप्रानजापयत् । द्वादशाक्षरमन्त्रं च कांश्चिद्विष्णोः षडक्षरम् ।। १४ 

विष्णोश्चाष्टाक्षरं मन्त्रं कांश्चित्सूक्तं च वैष्णवम् । लक्ष्मीसूक्तं तथा कांश्चित् ब्राह्मणान्स ह्यजापयत् ।। १५ 

विष्णोर्नामसहस्रं च कांश्चिन्नारायणात्मकम् । वर्म कांश्चिच्च भगवग्दीतां स समपाठयत् ।। १६ 

श्रीमद्बागवतं कांश्चित् पुराणं ब्राह्मणान्हरिः । अपाठयच्च दशमं स्कन्धमेकं च कांश्चन ।। १७ 

श्रीवासुदेवमाहात्म्यं विप्रान्कांश्चिदपाठयत् । तथोपनिषदौ कांश्चित् कठवल्लीं च मुण्डकम् ।। १८ 

पारायणं स्ववेदस्य कैश्चिद्विप्रैरचीकरत् । स्वयं कृष्णाष्टाक्षरस्य चकार च जपं प्रभुः ।। १९ 

होमं पूर्णाहुतिं कृत्वा बहून्विप्रानभोजयत् । तेभ्यो वासांसि भूषाश्च ददौ वित्तं यथेप्सितम् ।। २० 

विप्रेभ्यः शतशः कन्यादानार्थं द्रविणं महत् । ददौ स द्विजबालानाम् उपनीत्यै च भूरिशः ।। २१ 

पयस्विनीश्च शतशो धेनूः प्रादाद्यथाविधि । रथाश्वादीनि यानानि ददौ च स्वर्णमुद्रिकाः ।। २२ 

ततः सौराष्ट्रदेशीयान् अन्यांश्चागन्तुकान् द्विजान् । षण्मासान् भोजयामास यथेष्टं स सहस्रशः ।। २३ 

अतिमर्त्यचरित्रोऽसावेवमानन्दयन् निजान् । ततो मेघपुरं प्रायात्कृत्वा दशहरोत्सवम् ।। २४ 

अनुयातो निजान् भक्तान् नृसिंहादीन्निवार्य सः । सम्मुखागतभक्तौघैः स्तूयमानस्तदागमत् ।। २५ 

तं ज्येष्ठरघुनाथाद्या विप्रा भक्तया सिषेविरे । तत्र चामरसिंहाख्यो भाट्टो निजसुतैः सह ।। २६ 

स्वर्णकारा रामजिच्च जीवो नारायणादयः । लाडकीवल्लिमुख्याश्च सेवन्ते स्म च तं स्त्रियः ।। २७ 

नारायणस्य कृपया नानायोगकलाविधौ । स्वातन्त्र्यं लेभिरे चैते भक्तास्तत्र जनाधिप ! ।। २८ 

तत्रैव रवजित्संज्ञामृणदुःखार्दितं द्विजम् ।  भूरि धनं तस्मै दत्त्वाऽमोचयदापदः ।। २९ 

प्रतापं प्रथयन्नेवं स्वस्य मासद्वयं नृप ! । तत्रोषित्वा ततः प्रायान् मणिभद्रपुरं हरिः ।। ३० 

मयरामाख्यविप्रस्य गृहे स्वावासमाचरत् । भ्रात्रा गोविन्दरामेण साकं स तमसेवत ।। ३१ 

वैश्याश्च तत्राम्बजीवश्यामकल्याणलक्ष्मणाः । जसुमुख्या मुदा तस्य परिचर्यामकुर्वत ।। ३२ 

मिष्टारत्नवतीमुख्या योषितश्चातिभावतः । परिचर्यां भगवतो भक्ता विदधिरेऽन्वहम् ।। ३३ 

नारायणमुनिस्तत्र जन्माष्टम्यां महोत्सवम् । चकारानन्दयन्भक्तान्पूर्ववत्प्रथयन् यशः ।। ३४ 

देशान्तरेभ्यस्तत्राऽऽयन् गृहिणः सस्त्रियो जनाः । भक्ताश्च त्यागिनः सर्वे हरीक्षणसमुत्सुकाः ।। ३५ 

उपवासं जागरं च निशीथे कृष्णपूजनम् । साकं भक्तैर्हरिश्चक्रे विधिना च सदर्चनम् ।। ३६ 

विप्रसन्तर्पणं कृत्वा परेद्युः कृतपारणः । अपरो सभां चक्रे महतीं नृपते ! स च ।। ३७ 

आकारितास्तत्र तेन भक्ताः सर्व उपेत्य ते । यथोचितं निषेदुश्च योषितोऽप्येकतोऽखिलाः ।। ३८ 

ततः सभायां निषसाद दिव्ये सिंहासने सर्वजनैकसेव्यः । सम्पूज्यमानो निजभक्तसङ्घैः नारायणः स्मेरमुखः स तत्र ।। ३९ 

तं पूजितं रुचिरचन्दनपुष्पवस्त्रैः भक्तव्रजैः सदसि तत्र विराजमानम् ।
देशान्तरागतजनैर्मुनिभिश्च जुष्टं नत्वाऽब्रवीत्सविनयं मयरामविप्रः ।। ४०

इति सत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे विष्णुयागविधानमणिभद्रपुरागमननामा नवमोऽध्यायः ।। ९ ।।