दशमोऽध्यायः

मयराम उवाच -

कारुण्यपूर्णमखिलाश्रितजीवजाततापत्रयोपशमनप्रथितप्रतापम् ।
आनन्दमूर्तिममलं सुखकारिशीलं नारायणं गुरुवरं प्रणमाम्यहं त्वाम् ।। १
हरे ! सर्वज्ञा ! भगवन् ! भक्तकल्पमहीरुह ! । हिताय सर्वभूतानां धृतमानुषविग्रह ! ।। २
त्वद्बक्तिरेव सर्वेषां जीवानां भुवि सर्वथा । श्रेयस्करीति जानेऽहं प्रसादात्तव निश्चितम् ।। ३
सा येन पुष्टिमासाद्य भवेदिष्टफलप्रदा । तमुपायं महाराज ! वक्तुमर्हसि मेऽञ्जसा ।। ४

श्रीनारायणमुनिरुवाच -

अभिभूता न चेद्बक्तिर्भवेद्विघ्नेन भूयसा । तर्हीष्टफलदानणां साध्यमाना भवेद्द्रुतम् ।। ५ 

अस्ति तस्यामन्तरायो महान्सर्गो ह्यधार्मिकः । सर्गेण धार्मिकेणैव स जेतव्यः प्रयनतः ।। ६ 

आसुरी सम्पदाद्यो वै सर्गो दोषात्मको मतः । दैवी सम्पदिति प्रोक्तो द्वितीयस्तु गुणात्मकः ।। ७ 

जयेनाधर्मसर्गस्य भक्तिः पुष्टेष्टदा भवेत् । धर्मसर्गाश्रयादेव स तु स्याद् द्विजसत्तम ! ।। ८

सुव्रत उवाच -

इति तद्वाक्यममृतं निपीय स पुनर्द्विजः । पप्रच्छ स्वामिनं प्रीतः सर्वसंशयनाशनम् ।। ९

मयराम उवाच -

सम्भवं व्यक्तिसंज्ञाश्च सर्गयोरेतयोर्द्वयोः । पृथक्पृथग्मुनिपते ! वद मे तद्बुभुत्सवे ।। १०

सुव्रत उवाच -

धर्मप्रियेण विप्रेण पृष्ट इत्थं स संसदि । उवाच भगवान्वाचं भक्तसङ्घमनोहराम् ।। ११

श्रीनारायणमुनिरुवाच -

जज्ञो ब्रह्मन्पुरा ब्रह्मा विष्णोर्नाभिसरोरुहात् । वैराजधारणां कृत्वा स सर्गायोपचक्रमे ।। १२ 

देवान् दैत्यान्नरान्नागान् सर्वांश्च पशुपक्षिणः । स्थावराञ्जङ्गमान्धाता ससर्ज स यथापुरा ।। १३ 

पृष्ठदेशादधर्मोऽभूत्तस्याविद्यात्मको विधेः । स स्ववर्गेण सकलान् लोकान्व्याप्यावसद्बली ।। १४ 

प्रजाभ्यो दुःखदश्चाभूः जन्ममृत्युप्रदस्तथा । संसृतिभ्रामकश्चासौ निरयप्रापको नृणाम् ।। १५ 

मृषाऽसूया च चिन्तेर्ष्या तृष्णाऽऽशा ममतादयः । शक्तयस्तस्य कथिता दुर्जेयस्याल्पपौरुषैः ।। १६ 

दम्भो लोभो मत्सरश्च कामः क्रोधो रसो मदः । दर्पो मोहश्च पारुष्यं स्नेहो मानोऽनृतं कलिः ।। १७ 

द्रोहोऽशौचमविश्वासः चौर्यं पानं च निऋर्तिः । द्यूतं गर्वश्च नास्तिक्यं प्रमादः पैशुनं स्पृहा ।। १८ 

रागद्वेषौ भयं दुःखमज्ञानं व्यसनं तथा । दुरुक्तिर्निकृतिरःईमसा पापं मृत्युश्च यातना ।। १९ 

इत्यधर्मस्यान्ववायः प्राधान्येनोपवर्णितः । असुराणामतिप्रेष्ठो वर्जनीयः सदा सताम् ।। २० 

अत्रैकैकोऽप्यधर्मेण समवीर्यपराक्रमः । अस्तीत्येकमपि क्वापि न स्वीकुर्याद्धरिश्रितः ।। २१ 

अनेनाधर्मवर्गेण पीडयमाना निजाः प्रजाः । वीक्ष्य तासां हितं ब्रह्मा चिन्तयामास चेतसा ।। २२ 

कथं प्रजानां सर्वासां सुखं स्यात्स्वाभिवाञ्छितम् । इति चिन्तयतस्तस्य प्रकाशोऽभून्महान् हृदि ।। २३ 

अथ सत्त्वतनोस्तस्य हृदयाद्वेधसोऽभवत् । ऋष्याकृतिः स्वयं धर्मो यत्र नारायणस्थितिः ।। २४ 

पद्मपादः पद्मबाहुः पद्मास्यः पद्मलोचनः । श्वेतः श्वेतपटः श्वेतगन्धपुष्पादिशोभनः ।। २५ 

विद्याशक्तिप्रधानोऽसौ प्रजाभ्यः सुखदायकः । स्वर्गमोक्षप्रदो जेतुमधर्मं सानुगं क्षमः ।। २६ 

श्रद्धा शान्तिर्दया मेधा तुष्टिः पुष्टिस्तथा गतिः । मैत्री तितिक्षा लज्जा च बुद्धिर्मूर्तिः क्रियोन्नतिः ।। २७ 

इत्याद्याः शक्तयस्तस्य नित्यं तत्सेवने रताः । प्रोक्तास्तत्सर्गमुख्यानामभिधाश्चाधुना ब्रुवे ।। २८ 

ज्ञानं वैराग्यमैश्वर्यमभयं चार्जवं तपः । सत्यं शौचं सुखं क्षेमः स्थैर्यं धैर्यं च मार्दवम् ।। २९ 

सन्तोषो निग्रहस्त्यागो योगो यज्ञाः शमो दमः । उपासना चोपरतिः आस्तिक्यं च क्षमा स्मृतिः ।। ३० 

तेजः प्रसादश्च शुभं स्वाध्यायः प्रश्रयश्च मुद् । ध्यानं साम्यं ब्रह्मविद्या लाभः सामाऽर्थ उद्यमः । ३१ 

तथा सर्वे विरोध्यर्थनञ्पूर्वा बिभ्रतोऽभिधाः । प्रागुक्ताधर्मजाताः स्युः अदम्भप्रमुखा अपि ।। ३२ 

श्रवणप्रमुखा भक्तेः भेदा नव गुणास्तथा । एते धर्मस्यान्ववाये प्रवराः कीर्तिता मया ।। ३३ 

ऋषयः सर्वभावेन देवाश्चान्ये सुखार्थिनः । नराश्चैतानसेवन्त मुक्ताश्चैव मुमुक्षवः ।। ३४ 

विश्वं निजौजसा व्याप्य जित्वा सर्गमधर्मजम् । सुखयामासुरखिलान् लोकानेते निजाश्रितान् ।। ३५ 

अत्रैकैकोऽपि धर्मेण समवीर्यपराक्रमः । अस्तीत्येकमपि क्वापि मुमुक्षुर्नैव सन्त्यजेत् ।। ३६ 

धर्माधर्मावुभावेतौ स्वस्वसर्गे पृथक्पृथक् । एकैकस्मिंस्तिष्ठतो वै स्वयं ते च तयोरपि ।। ३७ 

यथा वटः स्वबीजेषु बीजानि च वटे यथा । तिष्ठन्त्येव तथा तौ च स्वजातेष्वपि ते तयोः ।। ३८ 

इत्युक्तो द्विविधः सर्गो गुणदोषात्मको महान् । तत्राधर्मभवा दोषा धर्मजास्त्वखिला गुणाः ।। ३९ 

गुणैर्दोषान्विनिर्जित्य ये भक्तिं कुर्वते हरौ । स्वेप्सितं ते परं सौख्यं लभन्ते नापरे जनाः ।। ४० 

विजेतव्याः प्रयनेन दोषा एवारयस्ततः । गुणानाश्रित्य पुरुषैः त्यक्तग्राम्यसुखेषणैः ।। ४१ 

पञ्चैवावश्यजेतव्याः सन्ति दोषेष्वमीष्वपि । जितेषु येषु सर्वेऽपि जिताः स्युर्नात्र संशयः ।। ४२ 

लोभः कामो रसास्वादः स्नेहो मानश्च पञ्चमः । अन्तःशत्रव एते हि विजेतव्याः प्रयत्नतः ।। ४३ 

श्रेयोविघ्नकरा ह्येते मुमुक्षूणां निरन्तरम् । प्रमादिनोऽपि मुक्तस्य स्वपदच्युतिहेतवः ।। ४४ 

एतेष्वेकतमो यर्हि मुख्यः पुंसि भवेत्तदा । चत्वारोऽन्ये तथा दोषाः सर्वेऽप्यनुचरन्ति तम् ।। ४५ 

सर्वदोषाकरत्वं हि पुराणेषु प्रसङ्गतः । एकैकस्यात एवोक्तं दुर्जेयत्वं च सन्मते ! ।। ४६ 

सर्वथैव विनिर्जित्य तत एतान्महाबलान् । कृष्णे भक्तिर्विधातव्या सावधानैर्मदाश्रितैः ।। ४७ 

किं करिष्यन्ति सुस्वान्तान् अस्मान्भक्तजनानिमे । इति चेतसि न ज्ञोयं दुःखदोऽल्पोऽप्यरिर्यतः ।। ४८ 

विस्रम्भादात्ममनसो ये प्रमादमकुर्वत । भक्तास्तेऽतिमहान्तोऽपि नीता एतैर्हि तुच्छताम् ।। ४९ 

लोभाद्यैरभिभूतास्तु महान्तः सन्ति भूरिशः । तेषु नामानि केषाञ्चित् कथयामि समासतः ।। ५० 

महर्षिर्ब्रह्मनिष्ठोऽपि वसिष्ठोऽथ च धार्मिकः । कार्तवीर्यार्जुनश्चोभौ लोभेनैव पराहतौ ।। ५१ 

ब्रह्मा सौभरिरिन्द्रश्च नहुषश्चातिधार्मिकाः । अप्येते च पराभूताः कामेनाऽऽपुर्हि दुर्दशाम् ।। ५२ 

ऋष्यशृङ्गो मुनिवरः तथाऽन्येऽपि द्विजा नृपाः । रसास्वादपराभूताश्चुच्युवुः श्रेयसोऽध्वनः ।। ५३ 

आर्षभो भरतो राजा त्यक्तराज्यादिवैभवः । अपि मृगार्भस्नेहेन पराभूतिमुपागमत् ।। ५४ 

दक्षप्रजापतिश्चाथ दुर्वासा अत्रिनन्दनः । पराभूतिं सुमहतीं मानेन प्रापतुर्द्रुतम् ।। ५५ 

एवमन्येऽपि बहवो देवा भूपा महर्षयः । पराभूता हि लोभाद्यैः एतैः प्रापुर्महापदम् ।। ५६ 

दशा चेन्महतामीदृक् तर्हि त्वाधुनिका जनाः । स्वमनो विश्वसेयुर्ये भ्रश्येयुस्ते कथं न भो ! ।। ४७ 

तस्मान्मनो नियम्यैव जयन्नेव रिपूनमून् । मदाश्रितः सर्वकालं सावधानो भजेद्धरिम् ।। ५८ 

अधर्मसर्गस्य विवर्जनेन धर्मान्वयस्यैव समाश्रयेण । सम्पोष्य भक्तिं भुवि वर्धयन्ति ये ते लभन्ते सुखमीप्सितं वै ।। ५९


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे धर्माधर्मसर्गनिरूपणनामा दशमोऽध्यायः ।। १० ।।