एकादशोऽध्यायः

सुव्रत उवाच -

इत्याकर्ण्य हरेर्वाक्यं नातिपृप्तमना द्विजः । पुनः पप्रच्छ तं नत्वा स बद्धाञ्जलिरादरात् ।। १

मयराम उवाच -

हरे ! स्वामिन् ! दयासिन्धो ! सर्वजीवहितावह ! । पिता सुतानामिव नः कुरुषे सर्वथा हितम् ।। २
महदेव बलं स्वामिंल्लोभादीनां त्वयोदितम् । पञ्चानामतिदुष्टानां मुक्तस्याप्यस्ति यद्बयम् ।। ३
लोभादिभिः पराभूता वसिष्ठाद्या यथा प्रभो ! । कथास्ताः श्रोतुमिच्छामो वयं सर्वाः पृथक् पृथक् । ४

सुव्रत उवाच -

इति पृष्टो भक्तपतिः विप्रवर्येण तेन सः । प्रीत्या मधुरया वाचा जगादानन्दयन्निजान् ।। ५

श्रीनारायणमुनिरुवाच -

इतिहासपुराणेषु वसिष्ठादेः कथा द्विज ! । वर्णिता विस्तरात्सन्ति संक्षेपेण वदाम्यहम् ।। ६ 

तत्रादौ लोभवशतो वसिष्ठो मुनिसत्तमः । पराभवं यथा प्राप तां कथां कथयामि ते ।। ७ 

आसीद्राजा निमिर्नाम्ना सूर्यवंशसमुद्बवः । यज्ञां करिष्यन्स गुरुं वसिष्ठमवृतर्त्विजम् ।। ८ 

यज्ञामारम्भयित्वाऽथ वसिष्ठः प्राह भूपतिम् । वृतोऽस्मीन्द्रेण यज्ञार्थं प्रागहं नृपते ! किल ।। ९ 

तं याजयित्वाऽऽयास्यामि शीघ्रमत्र न संशयः । ततस्त्वां याजयिष्यामि तावन्मां प्रतिपालय ।। १० 

इत्युक्त्वाऽगाद्वसिष्ठोऽथ निमिस्तु क्षणभङ्गुरम् । देहं जानन् द्विजैरन्यैश्चकार मखमुत्तमम् ।। ११ 

अथागतो वसिष्ठोऽपि याजयित्वा सुरेश्वरम् । शिष्यव्यतिक्रमं दृष्ट्वा चुकोप धनलुब्धधीः ।। १२ 

शशाप च निमिं देहः तव पण्डितमानिनः । पतत्वद्याथ नृपतिः तं शशापातिकोपिनम् ।। १३ 

देहस्तेऽपि पतत्वद्य लोभाद्धर्ममजानतः । एवमन्योन्यशापेन तावुभौ मृत्युमापतुः ।। १४ 

निमिस्तु जीवितो विप्रैः विदेहोऽभूच्च याज्ञिाकैः । उन्मेषणनिमेषाभ्यां स नणां चक्षुषीक्ष्यते ।। १५ 

उर्वश्याः पुत्रतां प्राप्य मित्रावरुणवीर्यतः । विख्यातोऽभूद्वसिष्ठस्तु वेश्यासूनुरिति ध्रुवम् ।। १६ 

इत्थं लोभवशादेव वसिष्ठोऽपि महामुनिः । सूर्यवंशनृपाचार्यः सम्प्रपेदे पराभवम् ।। १७ 

लोभेन हैहयस्याथ महायोगकलानिधेः । अपि श्रीदत्तशिष्यस्य कथयामि पराभवम् ।। १८ 

अर्जुनाख्योऽभवद्राजा कृतवीर्यात्मजो महान् । चन्द्रवंशसमुत्पन्नो महाबलपराक्रमः ।। १९ 

नारायणावतारं स दत्तात्रेयं महामुनिम् । आराध्य बाहुसाहस्रं युधि लेभे निजेप्सितम् ।। २० 

योगैश्वर्यं च सम्प्राप्य तत्प्रसादेन सोऽर्जुनः । अव्याहतबलौजःश्रीः पृथिवीं बुभुजेऽखिलाम् ।। २१ 

स एकदा तु मृगयां विचरन् गहने वने । यदृच्छयाऽऽश्रमं प्रापज्जमदग्नेस्तपोनिधेः ।। २२ 

स तस्मै नरदेवाय मुनिरर्हणमाहरत् । ससैन्यामात्यवाहाय कामधेनोः प्रसादतः ।। २३ 

तदाऽभूद्विस्मितो राजा वीक्ष्य तन्मुनिवैभवम् । आत्मैश्वर्यातिशयितमदृष्टं चाश्रुतं क्वचित् ।। २४ 

ततः कामदुघामेव तद्धेतुमवगत्य सः । बलात्तां स्वपुरं निन्ये क्रन्दन्तीं च सवत्सकाम् ।। २५ 

अध्येतुं च गतो विद्यां रामस्तावदुपागतः । श्रुत्वाऽर्जुनस्य दौरात्म्यं चुक्रोधाहिरिवाहतः ।। २६ 

घोरमादाय परशुं ततो माहिष्मतीं पुरीम् । गत्वा स तेन युयुधे कृतान्त इव दुर्जयः ।। २७ 

अक्षौहिणीभिः सहितं स सप्तदशभिर्नृपम् । तं निहत्य निजां धेनुं गृहीत्वाऽऽश्रममाययौ ।। २८ 

तस्य तत्कर्म विज्ञाय जमदग्निः क्षमानिधिः । प्राह पुत्र ! त्वया नैतत्कृतं ब्रह्मकुलोचितम् ।। २९ 

वयं हि ब्राह्मणास्तात ! क्षमया पूज्यतां गताः । पारमेष्ठयं पदं प्राप क्षमयैवाम्बुजासनः ।। ३० 

क्षमयैव हरिः साक्षात्प्रभुस्तुष्यति नान्यथा । पापमेव त्वया पुत्र ! कृतमेतन्न संशयः ।। ३१ 

राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाग्दुरुः । तन्निष्कृतं कुरु ततः शीघ्रं त्वं तीर्थयात्रया ।। ३२ 

इति वाक्यं पितुः श्रुत्वा तीर्थयात्रां स वत्सरम् । कृत्वा यथोक्तविधिना पुनः स्वाश्रममाययौ ।। ३३ 

एकदाऽऽश्रमतो रामे सभ्रातरि वनं गते । अर्जुनस्य सुता आयल्लँब्धच्छिद्रास्तदाश्रमम् ।। ३४ 

क्रन्दन्तीमप्यनादृत्य रेणुकां तेऽतिदारुणाः । छित्त्वा मुनेः शिरस्तूर्णं गृहीत्वा स्वपुरं ययुः ।। ३५ 

मातुराक्रन्दमाकर्ण्य रामः शीघ्रमुपेत्य तत् । उन्मत्तक्षत्रदौरात्म्यं दृाऽतिक्रोधमाप सः ।। ३६ 

ततो माहिष्मतीं गत्वा हत्वा तानर्जुनात्मजान् । तद्रक्तेन नदीं घोरां चक्रेऽद्रिं च स शीर्षभिः ।। ३७ 

पितुः शिरः समानीय तमजीवयदीश्वरः । स रामः स्थापयामास तं च सप्तर्षिमण्डले ।। ३८ 

एकविंशतिकृत्वोऽथ कृतान्त इव भीषणः । निःक्षत्रियां महीं चक्रे पर्शुहस्तः परिभ्रमन् ।। ३९ 

इत्थं लोभेन नृपतिः सह पुत्रैर्ननाश सः । सकलक्षत्रसंहारे हेतुश्चासीद्विनष्टधीः ।। ४० 

एवमन्येऽपि बहवो मुक्ताः सिद्धा महर्षयः । राजानश्चापि लोभेन विनष्टिं महतीं ययुः ।। ४१ 

लोभं हृदो न जहतोः सुमते ! मयेत्थमुक्ता वसिष्ठकृतवीर्यजयोर्दशा ते ।
वक्ष्येऽथ कामपरतन्त्रतयाऽब्जजादेस्तां त्वं शृणुस्थिरमनाः प्रथितां पुराणे ।। ४२

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे लोभेन वसिष्ठादिपराभवनामैकादशोऽध्यायः ।। ११ ।।