द्वादशोऽध्यायः

श्रीनारायणमुनिरुवाच -

जगत्स्रष्टा पुरा ब्रह्मा स्वाङ्गजातां सरस्वतीम् । रूपलावण्यसम्पन्नां दृाऽभूत्कामविह्वलः ।। १ 

उत्थाय परिरब्धुं तां यावत्स्पृशति विश्वसृट् । तावत्सा कन्यका भीता मृगी भूत्वा पलायत ।। २ 

अकामामपि तां कन्यां कामयन् स प्रजापतिः । अन्वधावन्मृगो भूत्वा निस्त्रपः कामनष्टधीः ।। ३ 

पितरं त्यक्तमर्यादं तमधर्ममतिं तदा । मरीचिमुख्या ऋषयो विलोक्य प्रत्यबोधयन् ।। ४ 

नैतादृशं कृतं कर्म त्वत्पूर्वैर्ब्रह्मभिः पितः ! । कल्पान्तरेषु चाप्यन्ये न करिष्यन्ति केचन ।। ५ 

न निगृह्य च कः कामं प्राकृतोऽपि पुमान्निजाम् । नुगच्छेत्सुतां त्वद्वदकामां भयविद्रुताम् ।। ६ 

तेजस्विनामपि पितः नैतत्कर्मोचितं खलु । यतस्त एव लोकेषु धर्ममार्गप्रवर्तकाः ।। ७ 

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः । स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ।। ८ 

इति प्रबोधितः पुत्रैर्लज्जितः स प्रजापतिः । अधर्मापयशोभीतः सद्यस्तां विजहौ तनुम् ।। ९ 

कामेनेत्थं पुरा ब्रह्मा जगद्धाताऽपि मोहितः । दुराचारे प्रवृत्तोऽभून्निस्त्रपः पशुवद्द्विज ! ।। १० 

अद्यापि नीचोऽपि जनः तस्य तत्कर्म गर्हितम् । श्रुत्वैव सशिरःकम्पं निन्दां तस्य करोति वै ।। ११ 

पराभव इति प्रोक्तः कामेन ब्रह्मणो मया । सौभरेश्चाथ वक्ष्यामि नैष्ठिकस्य तपस्विनः ।। १२ 

एकदा सौभरिर्नाम्ना महर्षिस्तपतां वरः । तपश्चक्रेऽब्दसाहस्रं प्रविश्य यमुनोदके ।। १३ 

तत्रैकदा मैथुनिनं मीनराजं स ऐक्षत । निर्वृतिं परमां प्राप्तं स्त्रीसुखेनातिकामिनम् ।। १४ 

तद्दर्शनेन तस्याभूत्स्त्रीस्पृहा हृदये मुनेः । ततः स्वीयं तपो हित्वा चिन्तयामास योषितम् ।। १५ 

इच्छन्नथो राजकन्यां नृपतिं बहुकन्यकम् । मान्धातारमुपागत्य कन्यामेकामयाचत ।। १६ 

वार्धक्यवेपमानाङ्गं तपःकृशतनुं मुनिम् । वीक्ष्य प्राह नृपः कन्या या त्वामिच्छेद्वृणीहि ताम् ।। १७ 

ततस्तथेत्युक्तवन्तं मुनिमन्तःपुरं नृपः । क्षत्रा प्रवेशयामास सोऽनिच्छुरपि तद्बयात् ।। १८ 

वार्धक्यान्नृपतेः स्वस्मिन्नप्रीतिं स विदन्नृषिः । दिव्यरूपोऽभवत्सद्यो देवीनामपि मोहनः ।। १९ 

पञ्चाशत्कन्यका राज्ञास्तं दृा दिव्यरूपिणम् । तदैव सर्वा अपि तं वव्रिरे स्वेप्सितं पतिम् ।। २० 

परिगृह्य ततस्ताः स्त्रीः निजमाश्रममेत्य सः । दिव्यसौधादि तत्कालं ससर्ज तपसो बलात् ।। २१ 

ताभिर्भोगान्स भुञ्जानो न दिवा न निशामवैत् । सहस्रशश्च तनयान्मनोज्ञांस्तास्वजीजनत् ।। २२ 

तपःसिद्धः स मुनिराडित्थं कामेन मोहितः । बभूव तपसो भ्रष्टो भगवत्प्रीतिकारणात् ।। २३ 

आख्यानं सौभरेः प्रोक्तमिति ते द्विजसत्तम् ! । कामेन देवराजस्य पराभवमथ ब्रुवे ।। २४ 

विमानमेकदाऽऽरुह्य सुरराट् विचरन् क्षितौ । गङ्गायां स्नतुमायातामपश्यग्दौतमस्त्रियम् ।। २५ 

रूपलावण्यसम्पन्नां तामहल्यामवेक्ष्य सः । कामनष्टमतिः सद्यः तामेवाचिन्तयद्धृदि ।। २६ 

उपभोक्तुं छलेनेच्छन्मुनेर्भार्यां पतिव्रताम् । अदृश्यरूप एकाकी तामेवानुजगाम सः ।। २७ 

तदाश्रममुपेत्याथ गौतमं स तपस्विनम् । दृा बिभ्यद्रहस्तस्थौ छिद्रमेव गवेषयन् ।। २८ 

नित्यकर्मविधानार्थं गङ्गां यातेऽथ गौतमे । तद्रूपधृत्तया साकं रेमे पापमतिः स तु ।। २९ 

कृतनित्यविधिस्तावत् ऋषिः स्वाश्रममाययौ । छलयन्तं निजां भार्यां ददर्श स्वाकृतिं हरिम् ।। ३० 

ज्ञात्वा तत्तस्य दौरात्म्यं मुनिः क्रोधारुणेक्षणः । निर्भर्त्स्य बहुधा तं च शशापाधर्मकारिणम् ।। ३१ 

योनिलुब्ध ! दुरात्मंस्ते वपुष्येव भविष्यति । स्रवद्रुधिरदुर्गन्धि योनीनां हि सहस्रकम् ।। ३२ 

इति शप्तः स मघवा सद्योऽभूत्तादृशाकृतिः । महतीं दुर्दशां प्राप लोकेऽप्यपयशो महत् ।। ३३ 

अहल्याऽपि मुनेः शापात्सम्प्रापादृश्यतां वने । शपन्ती मनसा शक्रं स्वपातिव्रत्यदूषकम् ।। ३४ 

इत्थं कामेन शक्रस्य मया प्रोक्तः पराभवः । नहुषस्याथ वक्ष्यामि प्राप्तस्येन्द्रपदं द्विज ! ।। ३५ 

पुरा शक्रो वृत्रवधात् पीडितो ब्रह्महत्यया । नलिन्यामवसच्छन्नं मानसाख्यसरोवरे ।। ३६ 

अनीश्वरेऽथ त्रैलोक्ये सर्वे देवाः सहर्षिभिः । ऐन्द्रे पदेऽभिषिषिचुः नहुषाख्यं नराधिपम् ।। ३७ 

विद्यातपोयोगबलः प्राप्त इन्द्रपदं स तु । धर्मेण पालयामास त्रिलोकीं धर्मवत्सलः ।। ३८ 

इन्द्रस्य पार्षदाः सर्वे सकलाश्च समृद्धयः । उपतस्थुस्तमेवेन्द्रं गन्धर्वाश्चाप्सरोगणाः ।। ३९ 

ऐन्द्रं स वैभवं लब्ध्वा सर्वमेकां शचीं विना । तामुपेत्याह मामिन्द्रं वृणीष्वाम्बुजलोचने ! ।। ४० 

साऽथ तं प्राह धर्मज्ञा ! परस्त्रीधर्षणं भवान् । कर्तुं नार्हति कल्याण ! मां विहाय सुखी भव ।। ४१ 

इत्थं तया बोध्यमानो बहुधाऽपि मदोद्धतः । कामेन व्याकुलस्तस्या नैव मेने वचो नृपः ।। ४२ 

ततस्तं प्राह सा भद्र ! किञ्चित्साम्प्रतमस्ति मे । व्रतं तदन्ते नूनं त्वां वरिष्याम्यधुना व्रज ।। ४३ 

इत्युक्तः स ययौ स्थानं सा चापि गुरुशिक्षया । उपश्रुतिं समाराध्य शक्रं प्राप्य जगाद तत् ।। ४४ 

इन्द्रेण शिक्षितां युक्तिं साऽथ प्राप्य पुनः शची । स्वसमीपगतं भूपं तं हसन्ती वचोऽब्रवीत् ।। ४५ 

अपूर्वं यानमारुह्य युक्तं मुख्यैर्महर्षिभिः । वरीतुं मामिहायाहि त्वां वरिष्यामि निश्चितम् ।। ४६ 

इत्युक्तः सत्वरं सोऽपि नियोजितमहामुनिम् । आरुह्य शिबिकां प्रायात् कामाद्धर्मपथच्युतः ।। ४७ 

तत्रागस्त्यं मन्दगतिं सर्प सर्पेत्युदीरयन् । लत्तया प्राहरत् क्रुद्धो विनष्टसुकृतो नृपः ।। ४८ 

ततः क्रुद्धो मुनिस्तं च शशापोत्पथवर्तिनम् । सर्पो भव त्वमेवाद्य पापात्मन्भूतले चिरम् ।। ४९ 

इत्यगस्त्येन शप्तोऽसौ सर्पो भूत्वैव तत्क्षणम् । पपात भूतले राजा महत्कष्टमवाप च ।। ५० 

एवमन्येऽपि बहवो महान्तो मुनयो नृपाः । मुक्ता अपि पराभूताः कामेन बलिना द्विज ! ।। ५१ 

हेयस्य सुज्ञौर्मदनस्य दौष्टयमित्थं मया ते गदितं द्विजेन्द्र ! ।
तद्धारयित्वा हृदये स्ववैरी हेयः स तूर्णं पुरुषैर्मदीयैः ।। ५२

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे कामेन ब्रह्मादिपराभवनामा द्वादशोऽध्यायः ।। १२ ।।