त्रयोदशोऽध्यायः

श्रीनारायणमुनिरुवाच -

अथ ते रसलुब्धस्य ऋष्यशृङ्गमुनेः कथाम् । प्राप्तस्य दुर्दशां ब्रह्मन्कथयामि समासतः ।। १ 

पुराऽऽसीत्कौशिकीतीरे ऋषिर्नाम्ना विभाण्डकः । तस्य पुत्रो बभूवैक ऋष्यशृङ्गस्तपोनिधिः ।। २ 

वन एव वसन् बाल्यात् पितुरन्यं स मानुषम् । पुरुषं वा स्त्रियं काञ्चित् नापश्यन्न विवेद च ।। ३ 

पित्रा सह तपः कुर्वन् पञ्चेन्द्रियरसोञ्झितः । नैष्ठिकब्रह्मचर्यस्थः स वन्द्योऽभूत्सुरेश्वरैः ।। ४ 

स बाल एव तपसा सर्वेषां च तपस्विनाम् । महर्षीणां मानहरः सेव्यश्चासीत्प्रतापवान् ।। ५ 

एतस्मिन्नन्तरे राजा लोमपाद इति श्रुतः । अङ्गदेशाधिपो मित्रमासीद्दशरथस्य सः ।। ६ 

विप्राय किञ्चित्कस्मैचित्प्रतिश्रुत्य पुरोधसा । निषिद्धो नेत्युवाचाथ पौरा विप्रास्तमत्यजन् ।। ७ 

ब्राह्मणातिक्रमात्तस्य न देशे पाकशासनः । ववर्ष तेन सकला प्रजाऽऽसीदतिदुःखिता ।। ८ 

ततो वृद्धैः सहामात्यैर्नृपोऽवग्रहकारणम् । पिप्रच्छिषुर्मुनीन्वृद्धानरण्यं प्रत्यपद्यत ।। ९ 

तत्र कश्चिन्मुनिवरस्तेनातिप्रार्थितोऽब्रवीत् । ब्राह्मणातिक्रमाद्देशे तवेन्द्रो नैव वर्षति ।। १० 

ततस्तन्निष्कृतं कृत्वा पुरे वासय वाडवान् । मानयित्वा यथावत्तान् यथापूर्वं समर्चय ।। ११ 

नैष्ठिकव्रतिनां मुख्यमीतिमात्रहरांघ्रिकम् । केनाप्युपायेन मुनिमृष्यशृङ्गं समानय ।। १२ 

वृष्टिर्भविष्यति ततः प्रजानां च सुखं नृप ! । इत्युक्तः स प्रहृष्टस्तं नमस्कृत्याऽऽययौ पुरम् ।। १३ 

प्रायश्चित्तं ततः कृत्वा विप्रानावास्य पत्तने । ऋष्यशृङ्गं समानेतुं प्रैषयद्वारयोषितम् ।। १४ 

कौशिक्या अथ तीरे सा चकाराश्रममद्बुतम् । कृत्रिमैः पुष्पवृक्षाद्यैर्नावं चैकामशोभयत् ।। १५ 

विभाण्डकं गुप्तदूतैर्विदित्वाऽन्यत्र सा गतम् । एकाकिनं छलयितुं तदन्तिकमथाययौ ।। १६ 

रूपलावण्यसम्पन्ना वस्त्रालङ्कारभूषिता । प्रणम्य सा तं पप्रच्छ कुशलं तप आदिषु ।। १७ 

पुंस्त्रीभेदविहीनोऽसौ ज्ञात्वा तां ब्रह्मचारिणम् । आतिथ्यं कर्तुमारेभे तस्या दर्भासनादिभिः ।। १८ 

पप्रच्छ चासि कस्त्वं भोस्तपसाग्निरिव ज्वलन् । कस्य पुण्यवतः पुत्रः क्वाश्रमस्ते जटाधर ! ।। १९

वेश्योवाच -

कौशिक्याः परतस्तीरे रम्यो नाव्याश्रमो मम । योजनत्रयदूरेऽस्ति तवास्मादाश्रमान्मुने ! ।। २० 

भवता नाभिवाद्याहमभिवाद्यो भवान्मया । व्रतमेतादृशं ब्रह्मन् ! परिष्वज्यो भवान्मया ।। २१

ऋष्यशृङ्ग उवाच -

भल्लातकैङ्गुदादीनि फलान्येतानि भक्षय । अलाबूनिभृतं चैतत्पानीयं पातुमर्हसि ।। २२ 

इत्युक्ता तेन सा वेश्या तत्प्रदत्तं फलादि तु । त्यक्त्वा दूरे स्वपार्श्वस्थं ददौ तस्मै रसादिकम् ।। २३ 

रत्नपात्रस्थितं पेयं स्वर्णपात्रस्थितं तथा । भक्ष्यं चातिरसं सोऽपि पीत्वा चात्त्वा मुमोद ह ।। २४ 

प्रजहास भृशं प्रीतो रसक्षुब्धेन्द्रियस्तदा । सुगन्धिपुष्पाण्याघ्राय मुनिरन्य इवाभवत् ।। २५ 

ततः सा वञ्चनपटुः ज्ञात्वा क्षुब्धेन्द्रियं तु तम् । नःपुनस्तदङ्गानि श्लिष्यन्ती मधुरं जगौ ।। २६ 

ततस्तं विकृतं ज्ञात्वा सम्यगालिङ्गय सा पुनः । स्वाधीनं तन्मनः कृत्वा मुदमाप परां हृदि ।। २७ 

विभाण्डकागमभयात् ततः सा छलधर्मिणी । अग्निहोत्रापदेशेन पश्यन्ती तं द्रुतं ययौ ।। २८ 

भ्रष्टः स्वधर्मात्स मुनी रसास्वादेन तां हृदि । चिन्तयन्विह्वलो ह्यासीद् ग्रहग्रस्त इवोन्मदः ।। २९ 

अथ स्वाश्रममायातो विभाण्डकमुनिः सुतम् । पप्रच्छ विह्वलं दृा दुर्विधोऽसि कथं सुत ! ।। ३०

ऋष्यशृङ्ग उवाच -

अत्रैको वर्णिराडायात् स्वर्णवर्णः समाकृतिः । तेजस्वी चासितजटः पद्माक्षो मधुरस्वरः ।। ३१ 

कण्ठादधस्ताद्द्वौ पिण्डौ दधच्चातिकृशोदरः । भास्वद्वल्कलसंवीतो देवपुत्र इवाद्बुतः ।। ३२ 

मुखं मे स्वेन वक्त्रेण वपुषा च वपुर्दृढम् । आश्लिष्य मधुरं कूजन्स मामानन्दयद्बृशम् ।। ३३ 

सोऽतिमिष्टरसैर्भक्ष्यैः पेयाद्यैर्मामतर्पयत् । विना तं मद्वपुः सर्वम् इदं दन्दह्यते पितः ।। ३४ 

ततस्तदाश्रमं तात ! गन्तुमिच्छामि सत्वरम् । वर्णिराजेन तेनैव साकं तप्स्यामि तत्र च ।। ३५ 

इत्युक्तवन्तं तं पुत्रं कयाचिच्छलयोषया । विज्ञाय भ्रामितं चित्ते विस्मितः स त्वबूबुधत् ।। ३६ 

रक्षांसि बहुरूपाणि छलनाय तपस्विनाम् । चरन्त्यत्रेति तं विद्धि राक्षसं मुनिभक्षकम् ।। ३७ 

इत्यादिभिः स वचनैः बोधयित्वा सुतं मुनिः । दिनत्रयं विचिन्वंस्तामपि लेभे न कानने ।। ३८ 

अथैकदाश्रमात्तस्मिन् वन्यार्थं निर्गते मुनौ । तत्रागच्छत्पुनः साऽपि शिञ्जन्नूपुरमेखला ।। ३९ 

दूराद्विलोक्य तां वेश्याम् ऋष्यशृङ्गोऽतिहर्षितः । तत्सम्मुखं प्रदुद्राव स्नेहाच्च परिषस्वजे ।। ४०

ऋष्यशृङ्ग उवाच -

यावत् पिताश्रममिमं नेयान्मे प्राणवल्लभ ! । तावत्त्वदाश्रमं रम्यं नेतुमर्हसि मामितः ।। ४१ 

इत्युक्ता तेन सा हृष्टा नाव्यारोप्य तमाशु च । राज्ञोऽन्तःपुरमानीय प्राहायं ह्याश्रमो मम ।। ४२ 

ततः शृङ्गारिकं दाक्ष्यं योषितस्तमशिक्षयन् । सोऽपि स्वधर्ममुत्सृज्य तच्छिक्षासु रतोऽभवत् ।। ४३ 

राज्ञो देशेऽप्यभूद्वृष्टिः तस्यैवागमनान्मुनेः । ततः स्वकन्यां शान्ताख्यां ददौ तस्मै नृपो मुदा ।। ४४ 

इत्थं स वै जगत्पूज्यो नैष्ठिकोऽपि मुनिर्द्विज ! । रसास्वादादभूद्भ्रष्टः स्वकीयाद्धि बृहद्व्रतात् ।। ४५ 

एवमन्येऽपि बहवो राजानश्च महर्षयः । रसास्वादपरिभ्रष्टाः प्रापुर्लोकेऽतिगर्ह्यताम् ।। ४६ 

एवं रसास्वादवशेन ऋष्यशृङ्गस्य ते भ्रष्टबृहद्व्रतस्य ।
कथा मयोक्ताऽथ वदामि विप्र ! श्रव्यां नृभिस्तां भरतस्य राज्ञाः ।। ४७

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे रसास्वादेन ऋष्यशृङ्गपराभवनामा त्रयोदशोऽध्यायः ।। १३ ।।