चतुर्दशोऽध्यायः

श्रीनारायणमुनिरुवाच -

आर्षभो भरतो नाम्ना बभूव नृपतिः पुरा । जम्बूद्वीपस्य खण्डानां नवानामपि सोऽधिराट् ।। १ 

अजनाभमिति ख्यातं खण्डमेतत्पुरा द्विज ! । यदीयनाम्ना सर्वत्र भारताह्वयमुच्यते ।। २ 

स राज्यं भरतः कुर्वन् धर्ममेव प्रवर्तयन् । भगवन्तं वासुदेवम् ईजे बहुविधैर्मखैः ।। ३ 

भक्तिः प्रववृधे तस्य भगवत्यनुवासरम् । ततोऽन्यत्र विरक्तिश्च राज्ययोषाधनादिषु ।। ४ 

विभज्य दत्त्वा पुत्रेभ्यः ततो राज्यं यथोचितम् । प्रार्थ्यां सुरैरपि निजां श्रियं स मलवज्जहौ ।। ५ 

आरिराधयिषुर्भक्तया हरिमेव महामतिः । स्त्रीपुत्रधनराज्यादि हित्वाऽगात् पुलहाश्रमम् ।। ६ 

शान्तो मुमुक्षुरेकाकी वितृष्णो विषयेषु च । स गण्डकीतटे तत्र चकारोपासनं हरेः ।। ७ 

फलमूलाम्बुतुलसी कन्दाद्यैः पुजयन्हरिम् । स प्रेमविवशो नैव बुबुधे पूजनक्रमम् ।। ८ 

हिरण्मयं च पुरुषं सूर्यमण्डलमध्यगम् । पुरुषप्रकृतिपरं सूर्यर्चोपास्त शुद्धधीः ।। ९ 

गण्डक्यामेकदा स्नत्वा जजाप प्रणवं हृदि । पिपासुर्हरिणी तावत् तत्रैकाऽऽयात्तु गर्भिणी ।। १० 

यावत् पिबति सा तोयं तावत्कश्चन केसरी । उच्चैश्चकार निनदं सर्वलोकभयङ्करम् ।। ११ 

तं श्रुत्वातिभयात्तस्या द्रवन्त्या गण्डकीतटे । गर्भः पपात सहसा स्रोतस्यथ ममार सा ।। १२ 

उह्यमानं तरङ्गैस्तं कोमलाङ्गं मृगीसुतम् । विलोक्य स तु राजर्षिः दययाश्रममानयत् ।। १३ 

तस्य तस्मिन्नतिस्नेहो ववृधेऽनुदिनं ततः । अनाथस्यास्य न त्राता मां विनेति दयावशात् ।। १४ 

नियमाः स्ननसन्ध्याद्या अहिंसाद्या यमास्तथा । मृगं लालयतस्तस्य सर्वे नष्टाः शनैः शनैः ।। १५ 

बालत्वात्कोमलतनुं तं सम्प्रीणयतो मुदा । तदेकबद्धचित्तस्य हर्यर्चाप्याऽऽस विस्मृता ।। १६ 

आसने शयने याने भोजनादौ च तं शिशुम् । दूरे कर्तुं क्षणमपि सोऽतिस्नेहान्न चाशकत् ।। १७ 

तस्मिंश्च स्वेच्छयाऽन्यत्र गते क्वापि क्षणं मृगे । राजर्षिर्नष्टधनवज्जायते स्मातिविह्वलः ।। १८ 

तृणानि चरतस्तस्य कदाचित्स्वाश्रमागमे । विलम्बो जायते यर्हि तदा विलपति स्म सः ।। १९ 

कामिनी कामुकस्येव राजर्षिः स मृगीशिशोः । शशाक विरहं सोढुं नैव स्नेहवशात्क्वचित् ।। २० 

इत्थं मृगसुताकारमनसस्तस्य भूपतेः । स्वदेहारम्भकं कर्म समाप्तिमगमद्द्विज ! ।। २१ 

कालहाततनुः सोऽथ मृगदेहमवाप्तवान् । अन्तकालेऽपि तं ध्यायन् समीपस्थमिवात्मजम् ।। २२ 

इत्थं स राजा सन्त्यक्तराज्यस्त्रीपुत्रवैभवः । अपि मृगार्भस्नेहेन पशुत्वं स्वयमाप्तवान् ।। २३ 

एवमन्येऽपि बहवो मुनयश्च नृपा अपि । स्नेहेनैव पराभूता लेभिरे दुर्दशां भृशम् ।। २४ 

दययापि हरीतरे पदार्थे मनसा स्न्ह्यिति यः स रूढयोगः । अपि संसृतिमेति हीनबुद्धिर्भरतोऽसाविव विप्रवर्य ! नूनम् ।। २५

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे स्नेहेन भरतपराभवनामा चतुर्दशोऽध्यायः ।। १४ ।।