श्रीनारायणमुनिरुवाच -
दक्षदुर्वाससोर्विप्र ! कथां मानाभिभूतयोः । श्रव्यामवश्यं धार्यां च हृदि सद्बिर्वदाम्यथ ।। १
पुराभागीरथीतीरे चक्रुर्विश्वसृजो मखम् । तत्र देवाश्च देव्यश्च मुनयोऽप्यासताखिलाः ।। २
दक्षः प्रजापतिस्तत्र सहसाऽर्क इवागमत् । योऽभिषिक्तः प्रजेशानाम् आधिपत्ये विरिञ्चिना ।। ३
ततोऽभिमन्यमानः स्वं सर्वतोऽधिकमेव सः । सभायां मानितो देवैः नत्वा विधिमुपाविशत् ।। ४
स पश्यन्नभितो देवानासीनं शिवमैक्षत । ऐकाग्रयं ब्रह्मणि प्राप्तं वासुदेवे निजात्मनः ।। ५
अकृतप्रणतिं तं च ज्ञात्वा दक्षोऽतिमानवान् । शपमानश्च कोपात्तं देवादीनिदमाह सः ।। ६
न मत्सरान्न चाज्ञानात् किञ्चिद्देवा ! वदाम्यहम् । किन्तु सामान्यतो वृत्तं साधूनां कथयामि वः ।। ७
इत्यादिमानिभाषाया युक्तिभिः स्वस्य साधुताम् । दर्शयित्वा सुरांश्चक्रे गर्हणां शङ्करस्य सः ।। ८
लोकपालयशोहन्ता निर्लज्जः शङ्करो ह्ययम् । सन्मर्यादां समुल्लङ्घय स्तब्धोऽस्मानवमन्यते ।। ९
जामातृत्वात्तु शिष्यो मे गुरुं वाचापि मामसौ । प्रत्युत्थानाभिवादार्हं सदस्यादृतवान्न वै ।। १०
मर्कटाक्षः क्रियाहीनो भूतसङ्गी दिगम्बरः । श्मशानवासी मुण्डस्रक् चिताभस्मानुलेपनः ।। ११
अशिवाय शिवाख्याय नष्टशौचाय दुर्हृदे । दत्ता मयाऽनिच्छतापि कन्याऽस्मै विधिचोदनात् ।। १२
सोऽयं भूरिदुराचारो यज्ञो भागं न शङ्करः । प्राप्नोत्विति क्रुधा शप्त्वा दक्षस्तं स्वालयं ययौ ।। १३
शप्त्वा शिवं व्रजन्तं तं नन्दिकेशः शशाप च । दक्षोऽस्तु तत्त्वविमुखो बस्तास्यो वपुरात्मधीः ।। १४
इति शप्त्वा प्रजाध्यक्षं ततो नन्दी तदाश्रितान् । विप्रानपि क्रुधा सर्वाञ्छशापारुणलोचनः ।। १५
वेदवादेषु मुह्यन्तु सर्वभक्ष्या द्विजातयः । वृत्त्यै विद्याव्रतधरा याचका विचरन्त्विह ।। १६
इति विप्राञ्छपन्तं तं वैदिकानपि नन्दिनम् । वीक्ष्य क्रुद्धो भृगुः शैवान् अशपद्दारुणो मुनिः ।। १७
भवव्रतधरा ये च ये च तान् समनुव्रताः । पाषण्डिनस्ते भवन्तु सच्छास्त्रपरिपन्थिनः ।। १८
नष्टशौचा मूढधियो जटाभस्मास्थिधारिणः । विशन्तु शिवदीक्षायां यत्र दैवं सुरासवम् ।। १९
शपत्येवं भृगौ शैवान् विमनाः शङ्करस्ततः । उत्थाय कैलासमगात् पार्षदैः सहितो निजैः ।। २०
अथ कोऽपि मखं कर्तुं रुद्रभागं विना भुवि । नाशकत्क्वापि देवोऽपि कालोऽयाद्विमखो महान् ।। २१
ततो दक्षः स्वयं यज्ञामारेभे माननष्टधीः । शिवमेकमनाहूय युक्तो देवैस्तथर्षिभिः ।। २२
अनादरं शङ्करस्य ज्ञात्वा ब्रह्मा तथाऽच्युतः । अप्यादरात्समाहूतौ तन्मखं नैव जग्मतुः ।। २३
दक्षेण कन्यापि निजा शङ्करद्वेषतः सती । नाऽऽहूता कन्यकास्त्वन्याः समाहूताः सभर्तृकाः ।। २४
विमानानि समारुह्य यान्तीर्गगनवर्त्मना । सुराङ्गनाः पितुर्यज्ञां वीक्ष्य हृष्टाऽभवत्सती ।। २५
अनाहूतापि सा पित्रा द्रष्टुं यज्ञामहोत्सवम् । अत्युत्सुकोद्यता गन्तुं बभूव स्त्रैणधीवशात् ।। २६
शङ्करेण निषिद्धापि युक्तिभिर्बहुधैव सा । गणैः कतिपयैर्युक्ता पितुर्यज्ञां हठाद्ययौ ।। २७
शिवद्वेषवशाद्दक्षो न तां दृष्टयाऽप्यवैक्षत । अनादृता ततः सापि तस्मै चुक्रोध मानिनी ।। २८
अरुद्रभागं यज्ञां च वीक्ष्य दक्षं सती रुषा । निर्भर्त्स्य बहुधा देहं जहौ सद्यः समाधिना ।। २९
ततो रुद्रगणा दक्षं हन्तुमभ्यापतन् हि तान् । भृगुर्घातयितुं वह्नेः देवान्समुदपादयत् ।। ३०
तैरुल्मुकप्रहरणैः ऋभुसंज्ञौरितस्ततः । हन्यमाना रुद्रगणाः पलायनमकुर्वत ।। ३१
एतं वृत्तान्तमखिलं कैलासे नारदः शिवम् । समागत्याऽऽह तच्छ्रुत्वा भृशं क्रोधमवाप सः ।। ३२
स्वजटायाः स उत्पाद्य वीरभद्रं गणाधिपम् । प्राह दक्षं सयज्ञां त्वं जह्यद्यैवाविचारयन् ।। ३३
इत्याज्ञाप्तो ययौ सद्यः सोऽपि दक्षमखं वृतः । गणैरन्यैर्धरां सर्वां कम्पयन् गिरिराडिव ।। ३४
तत्र गत्वा यज्ञाकुण्डम् उत्खन्य मण्डपादि च । दग्ध्वा दक्षस्य तु शिरः छित्त्वा वह्नौ जुहाव सः ।। ३५
तत्पक्षपातिनो देवान् ऋषींश्चाप्युल्मुकादिभिः । शैवाः सन्ताडयामासुः मणिमत्प्रमुखा अपि ।। ३६
छिन्नभग्नप्रतीकास्ते चक्रुः सर्वे पलायनम् । कृतकार्या रुद्रगणाः कैलासं पुनराययुः ।। ३७
ततः काले बहुतिथे व्यतीतेऽखिलनिर्जरैः । प्रार्थितेशानुग्रहेण छागास्यो जीवति स्म सः ।। ३८
मानेनेत्थमनर्थोऽभूत् दक्षस्यापि प्रजापतेः । शङ्करावज्ञाया लोके गर्हणा चापि भूयसी ।। ३९
अथ दुर्वाससः साक्षात् रौद्रस्य च तपोनिधेः । अभिमानात्पराभूतिं कथयामि शृणु द्विज ! ।। ४०
अम्बरीषाभिधो राजा सूर्यवंशसमुद्बवः । सप्तद्वीपवतीं पृथ्वीं पुराऽशासीन्महामतिः ।। ४१
हरिमीजे महायज्ञौः पितृवत्पालयन्प्रजाः । नानाव्रतानि दानानि सोऽकरोद्धरितुष्टये ।। ४२
देवानामपि दुष्प्रापं स्वैश्वर्यं क्षणभङ्गुरम् । जानन्विरक्तस्तत्रासौ स्नेहं नारायणे व्यधात् ।। ४३
सतां समागमं कुर्वन् भक्तिं नवविधां हरौ । चकारैकमनास्तेन सन्तुतोष स वै भृशम् ।। ४४
तुष्टः स तस्य रक्षार्थं चक्रं स्वीयं सुदर्शनम् । तत्पार्श्वे स्थापयामास सर्वारिष्टविनाशनम् ।। ४५
स एकदा तु नृपतिः दधार द्वादशीव्रतम् । सांवत्सरं मधुवने सभार्यः कृष्णतुष्टये ।। ४६
व्रतान्ते कार्तिके मासि त्रिरात्रं समुपोषितः । रेः कृत्वा महापूजां ददौ दानानि भूरिशः ।। ४७
द्वादश्यां ब्राह्मणान् सम्यक् तर्पयित्वेष्टभोजनैः । करोति पारणां यावत् दूर्वासास्तावदाययौ ।। ४८
अतिथिं तमुपायातं प्रत्युत्थानासनादिभिः । मानयित्वा भोजनार्थं प्रार्थयामास भूपतिः ।। ४९
तथेत्युक्त्वा मुनिः स्नतुं कालिन्दीमगमद्द्रुतम् । माध्याह्निकं कुर्वतोऽस्य विलम्बस्तत्र चाभवत् ।। ५०
द्वादश्यां पारयन् राजा मुनिं ज्ञात्वा विलम्बितम् । विप्राञ्छास्त्रविदोऽपृच्छत् कर्तव्यं स्वस्य सङ्कटे ।। ५१
ब्राह्मणातिक्रमे दोषो द्वादश्यां चाप्यपारणे । अतो मयाऽत्र किं कार्यम् इत्युक्तास्तेऽब्रुवन् द्विजाः ।। ५२
त्वं पारयाम्भसा यस्मादशितं नाशितं च तत् । इत्याज्ञाप्तो द्विजैः सोऽपि पारणामम्भसा व्यधात् ।। ५३
अथागतो मुनिर्ज्ञाात्वा नृपतिं कृतपारणम् । स्वाग्रपूज्यत्वमानोत्थं क्रोधं प्राप्याब्रवीच्च तम् ।। ५४
रे निर्दय ! श्रीमदान्ध ! विष्ण्वभक्तेशमानवन् ! । निरङ्कुशः करोषि त्वं कामं धर्मव्यतिक्रमम् ।। ५५
त्वं मामतिथिमायातमातिथ्येन निमन्त्र्य तत् । अदत्वा भुक्तवांस्तस्य सद्यस्ते दर्शये फलम् ।। ५६
इत्युक्त्वा रोषताम्राक्षः कृत्यां कालानलोपमाम् । स्वजटायाः स उत्पाटय प्राहिणोत्तद्वधाय ताम् ।। ५७
खड्गहस्तामापतन्तीं वीक्ष्य तां नृपतिः स तु । नश्वरं देहमात्मानं नित्यं जानन्न विव्यथे ।। ५८
तदा सुदर्शनं चक्रं स्थितं तदवनाय यत् । तत्तां कृत्यां पुरा दग्ध्वा पृष्ठलग्नं मुनेरभूत् ।। ५९
चक्राग्निना दह्यमानो मुनिश्चक्रे पलायनम् । प्राणान् रिरक्षिषुः स्वीयान् स बभ्राम दिशो दश ।। ६०
यत्र यत्र मुनिः प्रायात् तत्र तत्र सुदर्शनम् । तमन्वगच्छच्छायेव मृत्युर्वा देहिनं यथा ।। ६१
पाताले चान्तरिक्षेऽपि दिक्पालानां च धामसु । कञ्चित्त्रातारमप्राप्तो ब्रह्माणां शरणं ययौ ।। ६२
नाहं समर्थस्त्रातुं त्वामित्युक्तो ब्रह्मणापि सः । शङ्करं शरणं प्रायात् सोऽपि प्राह विरिञ्चिवत् ।। ६३
त्रायस्वेत्यार्तनादेन ध्वनयन्नम्बरं ततः । वैकुण्ठे हरिमभ्येत्य प्रणम्य प्राह पाहि माम् ।। ६४
त्वद्बक्तस्याप्यकरवमपराधमबुद्धितः । न्त्वा तं कृपया नाथ ! चक्रान्मां पातुमर्हसि ।। ६५
इत्युक्तवन्तं तं प्राह हरिर्निर्मानवल्लभः । अहं भक्तपराधीनो न स्वतन्त्रोऽस्मि निश्चितम् ।। ६६
नाहं समर्थो मद्बक्तद्रोहिणां रक्षणे ततः । तमेव शरणं गच्छ स त्वां चक्रादविष्यति ।। ६७
इत्युक्तः स महाकष्टं प्राप्तो मानवशान्मुनिः । सद्यो मानं विहायैव राजानं शरणं ययौ ।। ६८
दूराद्विलोक्य स नृपं पाहि पाहीत्युदीरयन् । तं क्षत्रमपि साष्टाङ्गं प्रणनाम कृताञ्जलिः ।। ६९
ततो राजा हरेश्चक्रं स्तुत्वा तद्बयतो मुनिम् । मोचयामास कृपया तमानर्च च सादरम् ।। ७०
इत्थं मानेन सुमहत्कष्टं दुर्वाससा द्विज ! । प्राप्तं सर्वभयेनापि तं भक्तो दूरतस्त्यजेत् ।। ७१
एवमन्येऽपि बहवो राजान ऋषयस्तथा । मानेन लेभिरे कष्टं महच्चापयशो भुवि ।। ७२
लोभाद्यैरभिभूतानामित्थं ते कीर्तिता मया । कथा वसिष्ठमुख्यानां संक्षेपेण द्विजोत्तम ! ।। ७३
सावधानैरतो भक्तैः दूरादेते महारयः । हातव्यास्तेन भक्तिः स्यान्निर्विघ्नेष्टफलप्रदा ।। ७४
सुव्रत उवाच -
इति तस्य वचो निशम्य हृष्टो द्विजवर्यः स बभूव भक्तसङ्घैः ।
सकलैः सह तं ततो ववन्दे हृदये तच्च दधत्स्वधर्मनिष्ठः ।। ७५
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे मानेन दक्षदुर्वाससोः पराभवनामा पञ्चदशोऽध्यायः ।। १५ ।।