सप्तदशोऽध्यायः

सुव्रत उवाच -

नारायणादिभिस्तत्र रथकारैः समर्चितः । शेषपाटमुपेयाय ग्रामं नरपते ! हरिः ।। १ 

लालजिद्रथकारेण साकं मात्रा सुतेन च । तत्रार्च्यमानः कतिचित् दिनान्यवसदीश्वरः ।। २ 

ततो वसन्तपञ्चम्यां भाद्रग्राममुपागमत् । भगवान् सानुगस्तत्र महोत्सवमकारयत् ।। ३ 

मूलसुन्दरशर्माद्याः समसेवन्त वाडवाः । तत्र वैश्या वृद्धरत्नलब्धदेवादयश्च तम् ।। ४ 

रथकाराश्च विश्राममावरामजिदादयः । शूद्राश्च नाथमुख्यास्तमादरेण सिषेविरे ।। ५ 

बहवो मिलितास्तत्र भक्ता देशान्तरागताः । पुपूजुस्ते च तं प्रीता गन्धपुष्पधनादिभिः ।। ६ 

अपरो सभा तत्र बभूव महती नृप ! । तन्मध्यपीठे भगवान् निषसाद सुखप्रदः ।। ७ 

मर्यादयोपविष्टांस्तान्स्वाननार्पितलोचनान् । भक्तानानन्दयन्नूचे वर्णीन्द्रो वचनं हरिः ।। ८ 

सर्वेषां देहिनां भक्ताः ! कृष्णभक्तिर्विमुक्तिदा । उदेति सा तु सत्सङ्गान् नश्यत्यसुरसङ्गतः ।। ९ 

असुराणां ततः सङ्गो नैव कार्यो मुमुक्षुभिः । लक्षणैर्नृषु ते ज्ञोयाः तज्जातिर्नास्ति यत्पृथक् ।। १० 

एतच्छ्रुत्वा भक्तपतेः वचनं स्वहितावहम् । मूलशर्मा विप्रवरः तं प्रणम्येदमब्रवीत् ।। ११

मूलशर्मोवाच -

वर्ज्यसङ्गास्त्वया प्रोक्ता असुरा ये जगत्पते ! । लक्षणानि बुभुत्सामः तेषां वयमिहाञ्जसा ।। १२ 

तानि त्वं कृपया स्वामिन् वक्तुमर्हसि सर्ववित् । इति सञ्चोदितस्तेन विप्रेण हरिरब्रवीत् ।। १३

श्रीनारायणमुनिरुवाच -

कृष्णकृष्णावताराणां तद्बक्तानां च वाडव ! । द्रोहाचरणमित्येतत् मुख्यं लक्षणमासुरम् ।। १४ 

तच्च स्वाभाविकं ह्येव तेषामित्यवधार्यताम् । ज्ञोयं चान्यद्बाह्यतस्तु भक्तयाटोपप्रदर्शनम् ।। १५ 

कृष्णतद्बक्तमाहात्म्यचरित्रेष्वद्बुतेष्वपि । दोषदृष्टिरिति ज्ञोयमन्यच्चासुरलक्षणम् ।। १६ 

हिंसासुरापलप्रेष्ठदेवदेवीषु निश्चला । इष्टधीस्तन्मन्त्रजपस्तदर्चा तद्व्रतक्रिया ।। १७ 

तदीयग्रन्थपठनश्रवणादिप्रसक्तता । तद्दीक्षाधारणं चेति लक्ष्माण्यमरविद्विषाम् ।। १८ 

बुद्धिपूर्वं जीवहिंसा सुरापानं पलाशनम् । स्वीयेतरस्त्रीगमनं लक्षणं विद्धि चासुरम् ।। १९ 

उद्धतत्वं च कामेन रुषा लोभेन वा द्विज ! । मानेन वा मदेनापि लक्षणं ह्यासुरं हि तत् ।। २० 

रसास्वादे लोलुपत्वं वर्णसङ्करकारिता । स्ववर्णाश्रमधर्मस्य बाह्यतश्च प्रदर्शनम् ।। २१ 

एवमादीनि लक्ष्माणि ज्ञातव्यानि सुरद्विषाम् । संक्षेपेण मयोक्तानि येषु स्युस्तानि तेऽसुराः ।। २२ 

सङ्गस्तेषां न कर्तव्यः कृष्णभक्तैरनापदि । ये करिष्यन्ति ते भ्रष्टा भाव्याः स्वश्रेयसोऽध्वनः ।। २३

सुव्रत उवाच -

इति शिक्षावचः श्रुत्वा मूलशर्मा हरेर्द्विजः । सदःस्थाश्चेतरे भक्ताः प्रत्यगृस्तथेति तत् ।। २४ 

एवं शिक्षावचोभिः स्वान्बोधयन् प्रत्यहं प्रभुः । दिनान्युषित्वा षट् तत्र ययावम्बुधिखाडिकाम् २५ 

नौभिरुत्तीर्य तां प्रायादञ्जाराख्यं पुरं ततः । पुपूजुः कचराद्यास्तं तत्र विप्रा महामुदः ।। २६ 

दिनान्युषित्वा कतिचित्स तत्र स्वामी भुजङ्गाख्यपुरं ततोऽगात् ।
सद्धर्मसंस्थापन उद्यतोऽसावधर्ममूलोत्खनने पटीयान् ।। २७ 

सम्प्राप्तमाकर्ण्य च पौरभक्ता विचित्रवादित्ररवैः सहाशु ।
यानै रथाश्वादिभिरभ्युपेत्य दृा च साष्टाङ्गममुं प्रणेमुः ।। २८ 

तान्मानयित्वाऽनुगतान् यथार्हं विचित्रयानेषु निषादयित्वा ।
भक्तान् स्वयं सैन्धववर्यमीश आरुह्य तैः साकमुपाविशत्तत् ।। २९ 

तत्र सुन्दरजितो निकेतने त्वष्टुरात्मवसतिं चकार सः ।
स्वानुगांश्च समवासयत् पुरे भक्तवेश्मसु यथार्हमीशिता ।। ३०

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे असुरलक्षण-भुजङ्गपुरागमननामा सप्तदशोऽध्यायः ।। १७ ।।