सुव्रत उवाच -
श्रुतात्यद्बुतचारित्रं प्रत्यक्षं वीक्ष्य तं प्रभुम् । पौरास्तद्वीक्षणोत्कण्ठा लेभिरे परमं सुखम् ।। १
परिचर्यां मुदा तस्य तेऽथ चक्रुरतन्द्रिताः । तेषां कतिपयानां ते नामानि नृपते ! ब्रुवे ।। २
आद्यः सुन्दरजित्तत्र हीरश्च भगवांस्ततः । जीवः प्रागो देवरामः तथा नारायणः सुधीः ।। ३
राघवप्रमुखाश्चान्ये तक्षाणस्तं सिषेविरे । तथा प्रयागजिन्मुख्या ब्राह्मणाश्चातिभावतः ।। ४
शिवरामश्च हरजित् उत्करो वल्लभादयः । शूद्रा मल्लाश्च गाङ्गेयमुख्याः पर्यचरन्हरिम् ।। ५
पुञ्जाऽमरी तथा लब्धा लहरी सूरजादयः । योषितोऽपि न्यषेवन्त तमतिप्रेमतो नृप ! ।। ६
मधौ नवम्यां शुक्लायां तत्राभूत्सुमहोत्सवः । नानादेशपुरादिभ्यो जनास्तत्र समाययुः ।। ७
महान्तं मण्डपं स्वामी कारयित्वा सुशोभनम् । त्राऽऽर्चच्छ्रीरामचन्द्रं मध्याह्ने विधिवन्नृप ! ।। ८
उपवासं दिने तस्मिन् गृहस्थास्त्यागिनस्तथा । स्वयं हरिर्जनाश्चान्ये चक्रुश्च निशि जागरम् ।। ९
राममभ्यर्च्य वर्णीन्द्रः सतो विप्रांस्तथाऽऽर्चयत् । स्थापयन्धर्ममर्यादां पूर्णकामोऽपि भूतले ।। १०
अपरो सभायां तं हेमपीठमधिष्ठितम् । नत्वा भक्तजनास्तस्य कर्तुमारेभिरेऽर्चनम् ।। ११
प्रयागजिद्विप्रवरो वेदशास्त्रविशारदः । प्रणम्य तं गन्धपुष्पनूत्नवासोभिरार्चयत् ।। १२
सम्पूज्य भक्तया तं पश्यन् समाधिं प्राप तत्क्षणम् । ब्रह्मप्रकाशे तत्रामुं वर्णिवेषं ददर्श सः ।। १३
क्षणान्ते तं कृष्णमेव गोलोके धाम्नयवैक्षत । वर्णिवेषं पुनः पश्यन् व्युत्तस्थौ तस्य हीच्छया ।। १४
ततस्तुष्टाव तं प्रीत्या बद्धाञ्जलिपुटः सुधीः । ब्राह्मणः स महाबुद्धिः तत्पादाब्जदृढाश्रयः ।। १५
प्रयागजिदुवाच -
नमो दिव्यगोलोकधाम्नि प्रकाशे समं राधिकागोपिकाभिर्विलासम् ।
सदा तन्वते वेणुवाद्याय तस्मै कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। १६
नमो वासुदेवाय कृष्णाय नित्यं नमस्तेऽस्तु शुद्धाय बुद्धिप्रदाय ।
हरे ! भक्तरक्षार्थनित्योद्यताय कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। १७
नमो भक्तिधर्मात्मजायार्तिहन्त्रे महावर्णिवेषाय धर्मैकपात्रे ।
अधर्मान्ववायस्य मूलोत्खनित्रे कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। १८
नमो देवदेवेन्द्रवन्द्याय तुभ्यं नमः पद्मयोनित्रिनेत्रार्चिताय ।
अनेकाण्डकोटयाश्रयैकैकरोम्णे कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। १९
त्वमेवासि लोकस्य धाता विधाता सुखप्रेप्सुभिः सर्वदा चिन्तनीयः ।
क्षरादक्षराच्चोत्तमः पूरुषस्त्वं कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। २०
त्वमेवेश ! मत्स्यश्च कूर्मो वराहो नृसिंहस्तथा वामनः पर्शुरामः ।
अभूस्त्वं हि रामश्च कृष्णोऽवितुं स्वान् कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। २१
त्वमेवावतारानधर्मस्य शान्त्यै प्रवृत्त्यै च धर्मस्य धत्सेऽनुकालम् ।
वशोऽसि स्वतन्त्रोऽपि भक्तस्य नूनं कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। २२
यथा बालकानां हितं स्वस्य कुर्यात् पिता वा सखा स्वस्य सख्युस्तथा त्वम् ।
हितं कर्तुमर्होऽसि चाप्रेरितं मे कृपानाथ ! तुभ्यं नमस्त्वं प्रसीद ।। २३
सुव्रत उवाच -
इति स्तुवन्तं तं ज्ञात्वा पुराणनिपुणं हरिः । वाचनार्थं पुराणादेः स्वान्तिके समतिष्ठिपत् ।। २४
ततः सुन्दरजित्तं च नृपार्हगृहवैभवः । शिल्पे त्वष्टा नृपामात्योऽम्बरीषोपम आर्चयत् ।। २५
सुगन्धिना चन्दनेन पौष्पैर्हारैश्च शेखरैः । नानाविधैः सुवसनैः तं पुपूज विभूषणैः ।। २६
सहस्रशो हेममुद्रा निधाय पुरतो हरेः । नीराजयामास साकं भार्यापुत्रसनाभिभिः ।। २७
ततः प्रणम्य साष्टाङ्गं बद्धाञ्जलिपुटः स तम् । दर्शनीयतमं पश्यन् बभूवानन्दनिर्भृतः ।। २८
पश्यंस्तं सहसा प्राप समाधिं स परं नृप ! । तत्रापश्यन्महत्तेजो वर्णिवेषं च तत्र तम् ।। २९
ततोऽपश्यत्स गोलोकं तत्र च ब्रह्मतेजसि । मुरलीं वादयन्तं तं श्रीकृष्णं रासमण्डले ।। ३०
ततस्तमेव भूमानं धाम्नयव्याकृत ऐक्षत । अष्टबाहुं दर्शनीयं शेषपर्यङ्कशायिनम् ।। ३१
अमृताख्ये च तं धाम्नि महापुरुषरूपिणम् । निरन्नश्वेतमुक्तानां निकरैरुपसेवितम् ।। ३२
विष्णुं वैकुण्ठलोके च रमया सेवितं ततः । तं चैक्षत क्षीरनिधौ योगेशं शेषशायिनम् ।। ३३
यज्ञानारायणं चाग्नौ स्रुक्स्रुवाद्युपलक्षितम् । हिरण्मयं च पुरुषम् अर्कबिम्बे तमैक्षत ।। ३४
तं चापश्यद्विशालायां नरनारायणं ततः । वर्णिवेषं यथापूर्वं ततस्तं हरिमैक्षत ।। ३५
व्युत्थितोऽथेक्षया तस्य प्रभोस्तं सर्वकारणम् । विदित्वा स नमस्कृत्य तुष्टाव परया मुदा ।। ३६
सुन्दरजिदुवाच –
गोलोकेश ! परेश ! कृष्ण ! भगवंस्त्वं कालमायेश्वरः ।
सर्वेषां च नियामकोऽक्षरपरो दिव्याकृतिः स्वप्रभः ।।
सर्वात्मा पुरुषोत्तमोऽसि सकलैश्वर्याभिजुष्टः सदा ।
वन्दे भक्तजनेष्टकल्पतरवे वर्णीन्द्रवेषाय ते ।। ३७
भूमाऽव्याकृतघाम्नि चामृतपदे त्वं वै महापूरुषो ।
वैकुण्ठेऽपि च विष्णुरस्यथ पयोम्भोधौ च योगेश्वरः ।।
वह्नौ यज्ञापतिर्हिरण्मयवपुश्चादित्यबिम्बान्तरे ।
मेदिन्यां बदरीवनेऽपि च नरो नारायणो वर्तसे ।। ३८
मायाकालयमादिभीतिशमनप्रौढाश्रयः स स्वयं ।
तत्तद्धामसमग्रशक्तयनुचरस्वैश्वर्यवृन्दैः सह ।।
जातो न्राकृतिरत्र वै करुणया कल्याणहेतोर्नृणां ।
तत्तद्दिव्यवपुः समाधिषु नरान् सन्दर्शयन् राजसे ।। ३९ ।।
सुव्रत उवाच -
एवं स्तुत्वा पुनर्नत्वा निजभ्रातृसुतादिभिः । तमार्चिचद्यथावच्च पृथक्पृथगुदारधीः ।। ४०
उपहारैर्महद्बिस्ते तमभ्यर्च्यातिभावतः । पृथक् पृथक् स्तुवन्ति स्म साक्षाद्दृष्टतदोजसः ।। ४१
विरुद्धधर्मखण्डनं विशुद्धबुद्धिमण्डनं सकोपलोभतण्डनं रसस्पृहावकण्डनम् ।
कुसङ्गसङ्गिदण्डनं सदाभिमानिभण्डनं कुवर्त्ममूलकुण्डनं सकाममोहमुण्डनम् ।। ४२
सदीश ! विश्वकारणं प्रपन्नजीवतारणं निजान्तरारिमारणं समग्रधर्मधारणम् ।
भवन्तमूर्मिदारणं विकारहेतुवारणं कृपारसप्रसारणं नमामि दुःखहारणम् ।। ४३
जय जय धर्मधुरन्धर ! सन्नतकन्धरवर्णिपुरन्दरसेवित ! सुन्दरमन्दिरवास ! सुखाधिपते ! । जय जय लोकविलक्षणबोधविचक्षण ! लक्षितलक्षण ! भक्तसुरक्षण ! पद्मदलेक्षण ! कुम्भिगते ! ।। जय जय निर्मदनन्दन ! शर्मदवन्दन ! नाशितबन्धन ! दुष्कृतरन्धन ! बोधसमिन्धननामतते ! । जय जय सन्मतिजोषण ! कापथरोषण ! सत्पथपूषण ! सज्जनभूषण ! दूषणमुक्त ! सदात्मरते ! ।। ४४
जयजय कष्टविभञ्जन ! नित्यनिरञ्जन ! मुक्तसुरञ्जन ! चारुविलोचन ! बद्धविमोचन ! मुक्तपते ! । जयजय जीवदयाकर ! बोधसुधाकर ! योगकलाधर ! भक्तमहादर ! काममनोहर ! भक्तपते ! ।। जयजय मन्दविखेदन ! दम्भविभेदन ! पापविनाशन ! धर्मविकाशन ! कामितदाशन ! भुक्तिपते ! । जयजय सन्ततसङ्गतदिक्पतिसन्नत ! विश्वपवन्दित ! नन्दितपण्डित ! खण्डितसंशय ! मुक्तिपते ! ४५
पूर्णेन्दुबिम्बनखमण्डलराजिराजच्छुभ्रांशुकान्तिहृतभक्तहृदन्धकारम् ।
निःश्रेयसैकनिलयं लसदूर्ध्वरेखं पादाम्बुजं तव नमामि हरे ! प्रसीद ।। ४६
सुव्रत उवाच -
इति स्तुत्वा हरिं भक्तया निषेदुस्ते प्रणम्य तम् । भुक्तिं मुक्तिं च यच्छन्तं विना साधनसम्पदम् ।। ४७
ततः सर्वेऽपि गृहिणः स्वस्वशक्तयनुसारतः । पूजां विदधिरे तस्य वासोभूषाधनादिभिः ।। ४८
पूजां विधाय तन्मूर्तिं पश्यन्तः सकला अपि । भक्ताः प्रपेदिरे सद्यः समाधिं तत्कृपाबलात् ।। ४९
तत्र गोलोकमुख्येषु दिव्यधामसु संस्थितम् । तमेव ददृशुः साक्षात् सच्चिदानन्दविग्रहम् ।। ५०
आनन्दं परमं सर्वे प्राप्य तं परमेश्वरम् । असंशयं च निश्चिक्युः तत्पद्दृढसमाश्रयाः ।। ५१
ततो बद्धाञ्जलिपुटा वीक्षमाणास्तदाननम् । सर्वे ते प्रार्थयामासुः भक्तचिन्तामणिं प्रभुम् ।। ५२
विभो ! भवाभिधाम्बुधौ धनादिगर्धनभ्रमभ्रमत्कलत्रपुत्रमित्रनक्रचक्रकर्षणे ।
षडन्तरङ्गदुर्हृदुत्तरङ्गपातमज्जने नृदेहनावि खिद्यतस्त्वमेव कर्णधारकः ।। ५३
यदीयनाममात्रमुच्चरन्तमुद्बटा भटा यमस्य यान्त्युदस्य दूरतोऽन्तकाल एकदा ।
भवन्तमेव तं मतं सतां च सन्ततं नता वयं भजामहे हरे ! जय त्वमुद्धराधमान् ।। ५४
सुव्रत उवाच -
इति संस्तूय ते भक्ता निजस्वामिनमादरात् । नत्वोपविविशुः सर्वे प्राप्तानन्दभरा नृप ! ।। ५५
भक्तैरथार्पितं स्वस्मै वासोभूषाधनादि यत् । विप्रेभ्यस्तत्सर्वमपि हरिः सद्यः प्रदत्तवान् ।। ५६
तद्दृा विस्मयं प्रापुः असुरा अपि तद्द्विषः । वशेष्टदेवः कोऽप्येष महानिति च तेऽविदन् ।। ५७
ततः प्रातर्हरिर्विप्रांस्त्यागिनश्च सहस्रशः । भोजयामास विप्रेभ्यो ददौ विपुलदक्षिणाः ।। ५८
एवं हि पौराः पुरुषोत्तमस्य साक्षात्समीक्षार्चनसेवनैश्च । चक्रुः स्वकीयं सफलं नृजन्म क्षमादयानीरनिधेर्धरेश ! ।। ५९
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे रामनवम्युत्सवे सुन्दरजिदादिकृतहरिस्तुतिनिरूपणनामाऽष्टादशोऽध्यायः ।। १८ ।।