सुव्रत उवाच -
पुरे तत्र त्रयोऽमात्या राज्ञा आसन् द्विजातयः । कुबेरजिज्जगज्जीवो रामचन्द्र इति श्रुताः ।। १
सनाभयो महाशाक्ता एतेऽर्जितमहाधनाः । मदोद्धता मानिनश्च हिंस्रयज्ञाप्रियाः खलाः ।। २
तत्र ज्येष्ठः सोमयागं कर्तुं सौत्रामणिं तथा । आरेभे भूरिसम्भारान् सम्पाद्य नृपदुर्लभान् ।। ३
देशान्तरेभ्यो बहवो ब्राह्मणा यज्ञाकोविदाः । शास्त्रज्ञाश्चागतास्तत्र तेनाहूता बहुश्रुताः ।। ४
स च नारायणमुनिं वेदशास्त्रार्थपारगम् । जानन्भूरिप्रतापं च यज्ञामण्डप आह्वयत् ।। ५
अनाहूतोऽध्वरं गच्छेत् आहूतः किं पुनस्तदा । इति स्मृतेः स्वयं स्वामी सह शिष्यैस्तमभ्यगात् ।। ६
यथार्हं मानयित्वा तं यजमानः शुभासने । उपवेश्याग्रतस्तस्य निषसाद प्रणम्य च ।। ७
देशान्तरीया विद्वांसः तद्देशीयाश्च सर्वशः । नत्वा तं चाग्रतो राजन् निषेदुर्वह्निवर्चसः ।। ८
उपविष्टेषु सर्वेषु यथार्हं तत्र संसदि । कुबेरजित्तं प्रणम्य प्रोवाच प्राञ्जलिर्वचः ।। ९
स्वामिंस्त्वं वेदशास्त्रार्थपारगोऽसि बृहद्व्रतः । समाप्त्यवधि यज्ञास्य स्थातुमत्र पुरेऽर्हसि ।। १०
सानुगस्य तवान्नाद्यैः अहं तावच्च सेवनम् । करिष्यामि त्वादृशा हि महायज्ञास्य भूषणम् ।। ११
इह हि ब्राह्मणा वर्णिन् ! नानादेशेभ्य आगताः । सन्त्येते वेदशास्त्रज्ञाः पात्रभूताः कुलोद्बवाः ।। १२
काश्याः केचिद्द्रविडाश्च महाराष्ट्राश्च केचन । केचिच्च गौडदेशीयाः सन्ति केचिच्च गौर्जराः ।। १३
अतस्त्वमपि सद्बुद्धे ! वसात्र स्थिरमानसः । एष एवास्ति सर्वेषामस्माकं हि मनोरथः ।। १४
सुव्रत उवाच -
श्रुत्वेति तस्य वचनं तत्र बद्धानजान् बहून् । वध्यांश्च क्रोशतः पश्यन् दयालुर्हरिरब्रवीत् ।। १५
श्रीनारायणमुनिरुवाच -
शृणु त्वं सानुजो विप्र ! शृण्वन्त्वन्ये च वाडवाः । हितं वदामि सर्वेषां युष्माकं धर्मचारिणाम् ।। १६
सज्जनो न सभां गच्छेत् गतश्चेत्प्रवदेदृतम् । अब्रुवन्विब्रुवन्वापि पापी स्यात्तद्ब्रवीम्यृतम् ।। १७
साक्षात्पश्वालम्भहीनः सर्वेषामुचितो मखः । ब्राह्मणानां विशेषेण सात्विकानां तथा नृणाम् ।। १८
यज्ञाशेषामिषप्राशः सहिंसे हि मखे भवेत् । स नोचितो ब्राह्मणानां धार्मिकाणां द्विजोत्तम ! ।। १९
आक्रोशतः पशोर्हिंसा प्रसभं तद्विदारणम् । अशक्यं द्रष्टुमपि वै ब्राह्मणैस्तु दयालुभिः ।। २०
एते विप्राः पात्रभूता इति वक्षि कुबेरजित् ! । त एते तत्कथं कर्म करिष्यन्त्यस्रपा इव ।। २१
तत्कृतौ पात्रतैतेषां ब्राह्मणत्वं च नंक्ष्यति । वृत्तं विना तद्द्वयं तु न स्याद्बूरिश्रुतादिभिः ।। २२
अत्रार्थे स्मृतिवाक्यानि विप्र ! हेमाद्रिसूरिणा । सन्त्युद्धृतानि भूरीणि तेषां ते कतिचिद्ब्रुवे ।। २३
न जातिर्न कुलं राजन् न स्वाध्यायः श्रुतं न च । कारणानि द्विजत्वस्य वृत्तमेव तु कारणम् ।। २४
किं कुलं वृत्तहीनस्य करिष्यति दुरात्मनः । कृमयः किं न जायन्ते कुसुमेषु सुगन्धिषु ।। २५
नैकमेकान्ततो ग्राह्यं पठनं हि विशाम्पते ! । वृत्तमन्विष्यतां तात ! रक्षोभिः किं न पठयते ।। २६
बहुना किमधीतेन नटस्येव दुरात्मनः । तेनाधीतं श्रुतं वापि यः क्रियामनुतिष्ठति ।। २७
कपालस्थं यथा तोयं श्वदृतौ च यथा पयः । दूष्यं स्यात्स्थानदोषेण वृत्तहीनं तथा श्रुतम् ।। २८
तस्माद्विद्धि महाराज ! वृत्तं ब्राह्मणलक्षणम् । चतुर्वेदोऽपि दुर्वृत्तः शूद्रादल्पतरः स्मृतः ।। २९
सत्यं दमस्तपो दानमहिंसेन्द्रियनिग्रहः । दृश्यन्ते यत्र राजेन्द्र ! स ब्राह्मण इति स्मृतः ।। ३०
अहिंसानिरतो नित्यं जुह्वानो जातवेदसम् । स्वदारनिरतो दाता स वै ब्राह्मण उच्यते ।। ३१
सत्यं दानं क्षमा शीलमनृशंस्यं दया घृणा । दृश्यन्ते यत्र लोकेऽस्मिंस्तं देवा ब्राह्मणं विदुः ।। ३२
तपो धर्मो दमो दानं सत्यं शौचं श्रुतं घृणा । विद्या विनयमस्तेयम् एतद्ब्राह्मणलक्षणम् ।। ३३
यागस्तपो दया दानं सत्यं शौचं श्रुतं घृणा । विद्या विज्ञानमास्तिक्यम् एतद्ब्राह्मणलक्षणम् ।। ३४
ये क्षान्तदान्ताः श्रुतपूर्णकर्णा जितेन्द्रियाः प्राणिवधान्निवृत्ताः ।
प्रतिग्रहे सङ्कुचिताग्रहस्तास्ते ब्राह्मणास्तारयितुं समर्थाः ।। ३५
क्षान्तिर्दान्तिर्दया सत्यं दानं शीलं तपः श्रुतम् । एतदष्टाङ्गमुद्दिष्टं परमं पात्रलक्षणम् ।। ३६
न विद्यया केवलया तपसा वापि पात्रता । यत्र वृत्तमिमे चोभे तद्धि पात्रं प्रकीर्तितम् ।। ३७
इत्यादीनि बहून्येव दयालुत्वेऽग्रजन्मनाम् । वाक्यानि सन्ति विप्रेन्द्र ! सन्तस्तानि च मन्वते ।। ३८
यज्ञोऽयं भवता तस्मात् रहितः पशुहिंसया । कर्तव्यस्तेन सर्वेषां श्रेय एव भविष्यति ।। ३९
एतादृशाः पात्रविप्रा यत्र स्युस्तत्र वाडव ! । मनसापि हि जीवानां स्याद्धिंसासम्भवः कथम् ।। ४०
आक्रोशतः पशूनेतान् निबद्धान् पश्यतो मम । भृशं सञ्जायते खेदो मानसे हि दयावशात् ।। ४१
अन्नैर्व्रीह्यादिभिर्यज्ञाः पयोदधिघृतादिभिः । रसैश्च क्रियतां तेन तृप्तिं यास्यन्ति देवताः ।। ४२
सात्विका देवताः प्रोक्ताः तामसा असुरास्तथा । राजसा मनुजाः शास्त्रे ह्यूर्ध्वाधोमध्यवासिनः ।। ४३
मद्यमांसप्रिया दैत्याः तामसत्वाद्बवन्ति च । देवास्तु सात्विका ब्रह्मन्नन्नाज्यादिरसप्रियाः ।। ४४
देवानां यजनं मांसैः अनापदि तु नोचितम् । सर्वथाऽन्नाद्यभावे तु कर्तव्यं तैरपि क्वचित् ।। ४५
नानान्नरससत्त्वेऽपि युष्माभिरापदं विना । क्रियते हिंस्रयज्ञोऽयं लोकशास्त्रविगर्हितः ।। ४६
मोचयित्वा पशूनेतान् हव्यैश्चेत्पायसादिभिः । यूयं करिष्यथ मखं तर्हि स्थास्याम्यहं त्विह ।। ४७
सुव्रत उवाच -
इति श्रुत्वा हरेर्वाक्यं साशङ्कः स द्विजोऽभवत् । केचिच्च सात्विका विप्राः सदित्येव स्म मन्वते ।। ४८
जगज्जीवो महामानी तदा काश्यादिभिर्द्विजैः । रजस्तमःप्रकृतिभिः प्रेरितस्तादृशोऽब्रवीत् ।। ४९
यज्ञार्थं पशवः सृष्टा इति वै वैदिकी श्रुतिः । यज्ञानन्यत्र ये घ्नन्ति पशूंस्तेऽतोऽसुरा मताः ।। ५०
या वेदविहिता हिंसा न सा हिंसा मता बुधैः । हिंस्रयज्ञास्ततो वर्णिन् ! कृताः पूर्वैः सहस्रशः ।। ५१
पन्थानं वैदिकं प्रत्नं विधातुं कोऽन्यथा क्षमः । वयं देवोक्तरीत्यैव करिष्यामोऽध्वरं किल ।। ५२
सुव्रत उवाच -
इति हिंसारुचेर्वेदतात्पर्यं चाविजानतः । श्रुत्वा तस्य वचः स्वामी पुनस्तद्धितमब्रवीत् ।। ५३
श्रीनारायणमुनिरुवाच -
नहि वेदस्य तात्पर्यं हिंसायां वर्तते द्विज ! । किन्तु रागप्राप्तहिंसा सङ्कोचे सर्वथैव हि ।। ५४
राजसानां तामसानां स्वाभाविक्येव वर्तते । प्रवृत्तिर्जीवहिंसायां चोदना नास्ति तत्र वै ।। ५५
हिंसायां यदि रागः स्यात् कार्या सा तर्हि तु क्रतौ । इति वेदो वदन् हिंसां सङ्कोचयति वाडव ! ।। ५६
निवृत्तावेव तात्पर्यं वर्तते निगमस्य हि । कृतोऽस्ति निर्णयश्चास्य श्रीमद्बागवते शृणु ।। ५७
लोके व्यवायामिषमद्यसेवा नित्यास्तु जन्तोर्नहि तत्र चोदना ।
व्यवस्थितिस्तेषु विवाहयज्ञासुराग्रहैरासु निवृत्तिरिष्टा ।। ५८
परोक्षवादो वेदोऽयं बालानामनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते ह्यगदं यथा ।। ५९
हिंसापरं ततो वेदं मा जानीहि कदाचन । महाननर्थो भविता ह्यन्यथा तु न संशयः ।। ६०
पुरा राजोपरिचरो वसुनामाऽभवद्द्विज ! । तं देवा ऋषयश्चापि समपृच्छन्त संशयम् ।। ६१
वेदो हिंसापरो नो वा पृष्ट इत्यब्रवीन्नृपः । हिंसापरो वेद इति ततोऽसावपतद्बुवि ।। ६२
अधोगतिः सद्य आसीत् अन्तरिक्षचरोऽप्यसौ । कथैषा वायवीयेऽस्ति मात्स्येऽथो भारतादिषु ।। ६३
यदि वेदस्य हिंसेष्टा भवेत्तर्हि वसुर्नृपः । तथोक्तिमात्रतः सद्यः पतेत्कथमधो द्विज ! ।। ६४
हिंसानिवृत्तितात्पर्यं वेदं वेत्तु ततो भवान् । इत्युक्तः स पुनः कृष्णमाचिक्षेप रुषाज्वलन् ।। ६५
यज्ञो समन्त्रं निहता याज्ञिाकैः पशवोऽखिलाः । तिर्यग्योनिविनिर्मुक्ताः प्राप्नुवन्ति दिवं किल ।। ६६
हिंसाऽतो यज्ञिाया वर्णिन् ! धर्म एवास्ति निश्चितम् । तामधर्मं ब्रुवन्नैव विद्वत्सदसि शोभसे ।। ६७
यज्ञाशेषामिषाद्याशे प्रमाणं भगवद्वचः । यज्ञाशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः ।। ६८
सुव्रत उवाच -
मांसाशनप्रियस्येत्थं यज्ञादम्भस्य तस्य ताम् । वाचं श्रुत्वाऽब्रवीत् स्वामी ह्यधर्मे धर्ममानिनः ।। ६९
नारायणमुनिरुवाच -
पशुघातो धर्म इति त्वन्मतं न सतां मतम् । फलं धर्मस्य हि सुखं दुःखं पापस्य कर्मणः ।। ७०
दुःखमेव फलं प्रोक्तं पशुघातस्य कर्मणः । श्रीमद्बागवते विप्र ! नारदेन वदामि तत् ।। ७१
प्राचीनबर्हिषं भूपं कर्मस्वासक्तमानसम् । नारदोऽध्यात्मतत्त्वज्ञाः कृपालुः प्रत्यबोधयत् ।। ७२
भो भो प्रजापते ! राजन् ! पश्य त्वयाऽध्वरे । संज्ञापिताञ्जीवसङ्घान् निर्घृणेन सहस्रशः ।। ७३
एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वैशसं तव । सम्परेतमयःकूटैश्छिन्दन्त्युत्थितमन्यवः ।। ७४
तं यज्ञापशवोऽनेन संज्ञाप्ता येऽदयालुना । कुठारैश्चिच्छिदुः क्रुद्धाः स्मरन्तोऽमीवमस्य तत् ।। ७५
इत्यादि नारदेनोक्तं स निशम्य नराधिपः । सहिंसयज्ञानुत्सृज्य ह्यहिंसं धर्ममाश्रयत् ।। ७६
तस्मात्त्वमपि सुज्ञोऽसि विश्रुतो यशसा भुवि । पशुहिंसामृते यज्ञां कर्तुमर्हस्यशेषतः ।। ७७
सुव्रत उवाच -
एवमुक्तेऽपि हरिणा स्वमतं स तु नात्यजत् । सद्यस्तदाऽगात्स्वस्थानं स तन्मदभरं विदन् ।। ७८
द्वितीयेऽह्नि ततः स्थातुं धर्म आज्ञाप्य स स्वकान् । निर्ययौ नगरात्स्वामी ते च दूरं तमन्वयुः ।। ७९
तान्निवर्त्य निजान्मार्गे जनान्सम्प्रीणयन्निजान् । दिनैः कतिपयैः प्रापद्धमकापुरमीश्वरः ।। ८०
हरेरुल्लङ्घय वचनं सोऽथ विप्रो निजं मखम् । समारेभे पशूंश्चाहन्मदमानविमूढधीः ।। ८१
हरिवाक्यातिक्रमतो वेदस्य च जनाधिप ! । हिंसापरत्वकथनात्तस्याभद्रमभून्महत् ।। ८२
राज्ञाः कोपोऽभवत्तस्मिन्सहसैवेश्वरेच्छया । क्रुद्धः स तस्य तं यज्ञामुच्चिच्छेद ससैनिकः ।। ८३
शिवावमन्तुर्यज्ञाः प्राग्यथा दक्षप्रजापतेः । उच्छिन्नो वीरभद्रेण तथा तेनैष भूभुजा ।। ८४
तस्य वित्तं च यानानि गृहोपकरणानि च । यज्ञापात्राणि पक्वान्नराशीन्सैन्यास्त्वपाहरन् ।। ८५
तेऽपि क्रुद्धास्त्रयस्तर्हि सोदरा भूरिमानिनः । युद्धं कुबेरजिन्मुख्याश्चक्रुस्तैः सह सानुगाः ।। ८६
सन्ताडयमाना विप्राश्च श्मश्रुलैर्यवनादिभिः । रुदन्त उच्चैः काश्याद्यास्ततश्चक्रुः पलायनम् ।। ८७
क्रोशतो द्रवतो भीत्या हृतस्वांश्च द्विजाननु । धावतः सैनिकान् राजा न्यषेधत्कालसन्निभान् ।। ८८
तस्मिन् युद्धे शस्त्रपाणीं स्त्रींस्तानरुणलोचनान् । जघ्नू राजभटाः क्रूरा घ्नतः स्वानसिपाणयः । ८९
हतास्त्रयोऽपि ते तत्र भक्ष्यन्ते स्मामिषाशिभिः । कङ्कगृध्रादिभिः सद्यः ससुताश्च सहानुगाः ।। ९०
हाहाकारो महानासीत् पुरे तस्मिंस्तु सर्वतः । हरिवाक्यातिक्रमस्य फलं तद्विविदुर्जनाः ।। ९१
उद्धोषः सर्वदेशेषु बभूव च ततो नृप ! । देवार्था जीवहिंसापि सर्वोच्छेदकरीति ह ।। ९२
तत आरभ्य धरणौ धार्मिकाः पुरुषा नृप ! । तत्यजुर्जीवहिंसां च मद्यमांसाशनं तथा ।। ९३
प्रताप इत्थं प्रथितो धरायां नारायणस्याऽऽसुरकर्महर्तुः । धर्मः सभार्यः ससुतश्च तेन प्रमोदमापातितरां प्रपुष्यन् ।। ९४
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे अहिंसाधर्मस्थापननामैकोनविंशोऽध्यायः ।। १९ ।।