विंशोऽध्यायः

सुव्रत उवाच -

राजासील्लब्धजिन्नामा धमकाख्यपुरे नृप ! । स्वालये प्रभुमावास्य सिषेवे तं स दासवत् ।। १ 

कल्याण इन्दुभो रामस्तथा राजधनाभिधः । पुत्रास्तस्य मुदा चक्रुः चत्वारः सेवनं हरेः ।। २ 

जिज्जा मान्या वायुजीवा मोटिनी कर्णिकादयः । योषितोऽपि प्रभोर्भक्तया विदधुस्तस्य सेवनम् ।। ३ 

उषित्वा द्वे दिने तत्र भूचायग्राममाययौ । जयरामः कार्मणाद्या भक्ताः पर्यचरंश्च तम् ।। ४ 

देविकाद्याः स्त्रियस्तं च भक्तिमत्यः सिषेविरे । तत्रोषित्वा स घस्रौ द्वौ कन्थकूटपुरं ययौ ।। ५ 

मूलजित्कचराद्यैश्च तत्र भक्तैः स सेवितः । वायवीहरिबालादियोषाभिश्चावसद्दिनम् ।। ६ 

ततोऽब्धिखाडीमुत्तीर्य देशमाभीरमभ्यगात् । तत्रासौ पिप्पलीग्राममियायात्मीयतुष्टये ।। ७ 

तत्र देवगणेशाद्याः समसेवन्त तं विशः । स्त्रियश्च मान्यारामाद्याः स्वस्वशक्तयनुसारतः ।। ८ 

तत्रोषित्वा दिने द्वे च राजकूटं स आययौ । लक्ष्म्याख्या राजकन्या तं तत्रानर्चातिभावतः ।। ९ 

स प्रसादाद्धरेः सर्वाः प्राप योगकला नृप ! । तत्रोषित्वा दिनं त्वेकं निर्ययौ भगवांस्ततः ।। १० 

क्रोधं संयमयन्मदं च दमयन्कामं समुन्मूलयन्मानं । सन्नमयन् स्पृहामपनयँल्लोभं च विच्छेदयन् । 

पापौघं दलयन्कलिं व्यपनयन् पाषण्डमुच्छेदयन्सत्यं । निर्मलयंश्चचार भगवान्धर्मं समुत्तेजयन् ।। ११ 

आश्चर्यं जनयन्नणां प्रतापं प्रथयन्भुवि । हरन्नज्ञानतिमिरं सोऽराजज्ज्ञाानभास्करः ।। १२ 

दृष्टश्रुतप्रतापं तं धर्मवर्त्मप्रवर्तकम् । आशिश्रियुश्च बहवो नरा नार्यश्च भूपते ! ।। १३ 

उत्साहार्थं सोऽपि तेषां मतिदाढर्याय चात्मनि । स्वैश्वर्यं दर्शयामास यदनन्याश्रयं प्रभुः ।। १४ 

अनेकेषां स जीवानां प्राणवृत्तिनिरोधनम् । अचीकरद्ब्रह्मरूपे निजात्मनि समाधिना ।। १५ 

दर्शयामास तत्रैव गोलोकं धाम चाक्षरम् । श्वेतद्वीपं च वैकुण्ठं सकलैश्वर्यसम्भृतम् ।। १६ 

अव्याकृताख्यं लोकं च दिव्यं बदरिकावनम् । अग्निबिम्बं चार्कबिम्बं धाम च क्षीरसागरम् ।। १७ 

तत्र तत्र निजामेव दिव्यां मूर्तिमदीदृशत् । सदैश्वर्येण जुष्टां च तत्तत्पार्षदशक्तिभिः ।। १८ 

अश्रावयच्च केभ्यश्चित् सहसा प्रणवध्वनीन् । कोटिकोटयर्कसङ्काशं निजं तेजोऽप्यदीदृशत् ।। १९ 

परं यज्जाग्रदादिभ्यः सच्चिदानन्दलक्षणम् । द्रष्ट्राख्यं ब्रह्म तद्रूपं केभ्यश्चित्स्वमदीदृशत् ।। २० 

भूगोले च खगोले च देवतानां हरेस्तथा । स्थानैश्वर्याणि यान्यासन् केभ्यश्चित्तान्यदीदृशत् ।। २१ 

आधारादिषु चक्रेषु गणेशाद्याश्च देवताः । केभ्यश्चिद्दर्शयामास संस्थिताः स पृथक् पृथक् ।। २२ 

केभ्यश्चिदपि भक्तेभ्यो विराड्रूपमदीदृशत् । क्वचित्पुरुषसूक्तोक्तं ब्रह्माण्डाधारमीश्वरः ।। २३ 

शतयोजनदूरस्थभक्तेभ्योऽपि क्वचित्क्वचित् । स्वदर्शनं स प्रददौ प्रीतः प्रत्यक्षमेव हि ।। २४ 

अपि दूरस्थितैर्भक्तैः स्वगृहे प्रतिमान्तिके । नैवेद्यमर्पितं क्वापि ह्यश्नाद्विस्मापयञ्जनान् ।। २५ 

म्रियमाणान्निजान् क्वापि निनीषुर्धाम चात्मनः । अप्यन्येभ्यः स तद्ग्रामे साक्षात्प्रादात्स्वदर्शनम् ।। २६ 

मुमुक्षूनितरांश्चेत्थं दर्शयन्तमलौकिकम् । स्वैश्वर्यं वीक्ष्य तं प्रापुः अभक्ता अपि विस्मयम् ।। २७ 

तेन साकं विवादार्थं बहवो मतवादिनः । आगता अपि वादैस्तं जेतुं नैवाशकन् क्वचित् ।। २८ 

तं कार्ष्णा ददृशुश्च कृष्णमवनौ रामं च रामार्चकाः 
शक्तिं शक्तिपरायणा रविमथो सौराश्च शैवाः शिवम् ।
विष्णुं वैष्णवधर्मिणः खलु तदा जैनाश्च तीर्थङ्करान्
दृाऽऽसन्स्वसमाधिना च यवनाः पिङ्गाम्बरान्विस्मिताः ।। २९ 

एवं यो यस्तमभ्यागात्स स सद्यः समाधिना । स्वेष्टदेवं तमेवेशं विलोक्यासीत्सुविस्मितः ।। ३० 

त्यक्त्वा स्वस्वमतान्येव ततस्ते तमुपाश्रिताः । भक्तया नारायणं नित्यं भेजिरे धर्मसंस्थिताः ।। ३१ 

मद्यमांसादिसंसर्गं त्यक्त्वा सर्वे तदाश्रिताः । ज्ञानवैराग्यसम्पन्ना बभूवुः प्राकृता अपि ।। ३२ 

हीनं जात्यापि तच्छिष्यमनधीतमपि क्वचित् । न शेकेऽधीतशास्त्रोऽपि विजेतुं ब्रह्मविद्यया ।। ३३ 

इत्थं निजप्रतापेन मूलाज्ञानं विनाशयन् । सद्धर्मं स्थापयामास विनष्टं धरणीतले ।। ३४ 

तत्र तत्रान्नसत्राणि कारयामास भूरिशः । यत्रागतानामन्यत्र नासीज्जिगमिषा नृणाम् ।। ३५ 

यज्ञौश्च वैष्णवैर्विष्णुं याजयामास स प्रभुः । आढयान्निजजनान्प्रीत्या मुख्यकल्पैर्नरेश्वर ! ।। ३६ 

विष्णुयागमहारुद्रादियज्ञोषु सहस्रशः । मिष्टान्नैस्तर्पयामास ब्राह्मणान्बहुवासरान् ।। ३७ 

अदीदपच्च बहुशो विप्रेभ्यस्तत्र तत्र च । हेममुद्रा रूप्यमुद्रा उदारः स इवैकराट् ।। ३८ 

घृतक्षीरादिभिर्यज्ञान् हविष्यान्नैश्च कारयन् । मकारपञ्चकविधिं वेदबाह्यमनीनशत् ।। ३९ 

साधुभूदेवदेवानाम् अर्चनं प्रीणनं च सः । मुहुश्चकार चाधर्मपाषण्डोच्छेदनं प्रभुः ।। ४० 

धर्मज्ञानविरक्तीनां भक्तेर्भेदांश्च सर्वशः । तत्त्वतो बोधयामास तत्र तत्र स विस्तरात् ।। ४१ 

सच्छास्त्रैः स्वप्रतापेन जित्वा चाधर्मिणो गुरून् । तेभ्यो मुमुक्षून् रक्षित्वा धर्मसर्गे ह्ययोजयत् ।। ४२ 

चतुर्णामपि वर्णानाम् आश्रमाणां सनातनम् । धर्मं संस्थापयामास भगवान् धर्मरक्षकः ।। ४३ 

नैष्ठिकव्रतिनां धर्मान् प्रभुः सोऽथ प्रवर्तयन् । स्वयं नैष्ठिकधर्मेषु भेजे राजाधिराजताम् ।। ४४ 

यथेष्टं पोष्यमाणाश्च भक्तिधर्मादयोऽपि तम् । सेवमाना नित्यमेव विरेजुः परया श्रिया ।। ४५ 

दृश्या आसन् पुण्यवद्बिः दिव्याकृतिधरास्तु ते । क्वचिदेवेच्छया तस्य प्रभोर्न तु सदाऽखिलैः ।। ४६ 

इति दिव्यचरित्रचित्रकृत्करुणावारिनिधिर्धरातले । विचरञ्छुचिमास आययौ शरधाराख्यपुरं हरिर्नृप ! ।। ४७

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे विविधैश्चर्यप्रदर्शनेन नानाविधभक्तजनानन्दनं नाम विंशोऽध्यायः ।। २० ।।