एकविंशोऽध्यायः

सुव्रत उवाच -

तत्र राजकुमारौ द्वौ सिषेवाते तमादरात् । तुङ्गजिद्वैरिजित्संज्ञाौ तत्पदाब्जदृढाश्रयौ ।। १ 

तत्राद्यः कृष्णपादाब्जरेणूनां स्वाङ्गधारणे । अक्रूरोपम एवासीत् द्वितीयो विदुरोपमः ।। २ 

तथा वैरिभयो भीमो हिक्वजित्प्रमुखा अपि । क्षत्रवीरा असेवन्त भक्तास्तं परया मुदा ।। ३ 

करिमो मूकहसनौ रयो हयजिदादयः । यवना अपि तं प्रीत्या भेजिरे दृढनिश्चयाः ।। ४ 

निजांस्तान् प्रीणयन्भक्तान् वसंस्तुङ्गजिदालये । अज्ञानमहरन्नणां तिमिरं तरणिर्यथा ।। ५ 

भक्तैः सम्प्रार्थितस्तत्र चातुर्मास्यमुवास सः । महान्तमुत्सवं चक्रे जन्माष्टभ्यां च पूर्ववत् ।। ६ 

देशान्तरेभ्यो भक्ताश्च तत्राजग्मुः सहस्रशः । सगृहा अगृहाश्चापि तद्दिदृक्षाहृतान्तराः ।। ७ 

उपवासं जागरं च निशि कृष्णार्चनं तथा । भक्तैः सह हरिश्चक्रे सेतूनां परिपालकः ।। ८ 

साधून्विप्रांश्च सन्तर्प्य नवम्यां कृतपारणः । आससाद सभां रम्यामपरो सतांपतिः ।। ९ 

अथोपविष्टं परमासने तं प्रणम्य विप्रा नृप ! साधवश्च ।
यथोचितं तस्य पुरो निषेदुः अन्ये जनास्तानभितश्च सर्वे ।। १० 

शृण्वत्सु सर्वेषु सदःस्थितेषु प्रणम्य तं तन्निकषोपविश्य ।
बद्धाञ्जलिस्तुङ्गजिदूर्जितश्रीः पप्रच्छ सर्वानुमतेन राजा ।। ११

तुङ्गजिदुवाच -

भगवन्निह दृश्यन्ते सर्वेषामपि देहिनाम् । कामः क्रोधस्तथा लोभ इति वै वैरिणस्त्रयः ।। १२ 

बलिष्ठस्तेषु कः स्वामिन् ! योऽवश्यं हि मुमुक्षुभिः । सर्वैरुपायैर्जेतव्यः तन्नः कथय तत्त्वतः ।। १३

सुव्रत उवाच -

इति पृष्टः स भगवान् भूभुजा तेन संशयम् । मनोभिरामया वाचा तं जगाद जगत्पतिः ।। १४

श्रीनारायणमुनिरुवाच -

त्रयोऽपि शत्रवो ह्येते नणां प्राणहरा मताः । मन्ये बलाधिकं तेषु लोभमेव दुरासदम् ।। १५ 

विजेतव्यः प्रयत्नेन स एवात्र मुमुक्षुभिः । पापस्वरूपो गृहिभिः त्यागिभिस्तु विशेषतः ।। १६ 

सांसारिकपदार्थेषु ये लुब्धा नितरां नराः । अचिरेण विनश्यन्ति ते नूनं हतबुद्धयः ।। १७ 

लोभनिष्ठाः सन्ति दोषा महान्तो निरयप्रदाः । अधिष्ठानं हि पापस्य लोभश्चाघप्रवर्तकः ।। १८ 

लोभात्कामः प्रभवति क्रोधो लोभाच्च जायते । मोहश्चेर्ष्या मत्सरश्च सर्वं लोभात्प्रवर्तते ।। १९ 

विद्याविनयसम्पन्ना विख्याताश्च तपस्विनः । महर्षयोऽपि लोभेन बहवो दुर्गतिं ययुः ।। २० 

तथा हिरण्यकशिपुः प्रमुखा ये सुरद्विषः । इन्द्रादयो देवताश्च लोभेनैव क्षयं ययुः ।। २१ 

कौरवाणां क्षयो जातो लोभेन च महामते ! । अन्येऽपि बहवो भूपा लोभेन भुवि चिक्षियुः ।। २२ 

तस्मान्मदीयैर्न क्वापि लोभः कार्यो हि वस्तुनि । अर्था अनर्थैर्निभृताः सन्त्येवेत्यपि वेत्थ च ।। २३ 

चौर्यं हिंसाऽनृतं दम्भः कामः क्रोधः स्मयो मदः । भेदो वैरमविश्वासः संस्पर्धा व्यसनत्रयम् ।। २४ 

एते पञ्चदशानर्था वर्तन्तेऽर्थेषु भूपते ! । अन्येऽपि बहवः सन्ति दोषा ह्यर्थाश्रिताः खलु ।। २५ 

तस्मादनर्थमर्थाख्यं विदित्वैव मदाश्रितः । तत्रासक्तिं न कुर्वीत कुष्णभक्तयन्तरायके ।। २६

सुव्रत उवाच -

दौरात्म्यमिति लोभस्य श्रुत्वा भगवतोदितम् । स राजा मुनयश्चान्ये गृहिणोऽपि मुदं ययुः ।। २७ 

तत आज्ञापयामास भक्तान् देशान्तरागतान् । प्रातर्यायात विषयान् स्वस्वान्सर्व इति प्रभुः ।। २८ 

तदा कार्यायनग्रामात् आगतस्तत्र सन्मतिः । खट्वाङ्गो नाम राजर्षिः तं प्रार्थयितुमुत्थितः ।। २९ 

स हि भक्तो धर्मनिष्ठो नैष्ठिकं व्रतमास्थितः । मकरालयपुर्यां प्राग् जन्माष्टम्यामुपागतः ।। ३० 

तत्र प्रतापं च हरेः दृा तच्छिष्यतां गतः । कृष्णवार्तासु निपुणो जितेन्द्रिय उदारधीः ।। ३१ 

मणिभद्रपुरे चासौ जन्माष्टम्यां पुनर्नृप ! । आगतोऽप्याज्ञायेशस्य गतो निजनिकेतनम् ।। ३२ 

पुनरत्रागतस्तं च नेतुकामो निजालयम् । तदन्तिकमुपेत्यासौ नत्वा प्राञ्जलिरब्रवीत् ।। ३३

खट्वाङ्ग उवाच -

भगवंस्तव दासोऽस्मि त्वं चास्यात्मीयवत्सलः । आयातुमर्हसि ग्रामं मदीयं कृपया मयि ।। ३४ 

सेवनेन तव स्वीयं सानुगस्य धनादिकम् । सफलं हि विधित्सामि मानुषं च जनुर्निजम् ।। ३५

सुव्रत उवाच -

एवं सम्प्रार्थितस्तेन प्रसन्नो हरिरब्रवीत् । यास्यामि तव ग्रामं राजर्षे ! नात्र संशयः ।। ३६ 

साम्प्रतं तु मया स्थातुं प्रतिज्ञातमिहास्त्यतः । प्रबोधन्युत्सवं कृत्वा तत्रायास्याम्यहं खलु ।। ३७ 

इत्थं प्रसन्नमनसा हरिणोदिते तं नत्वा प्रहृष्ट उदिते तरणौ दशम्याम् ।
गन्तुं ततः स निरगान्नृपते ! स्वखेटं प्रापच्च दुर्गपुरमध्वगतं परेद्युः ।। ३८

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे लोभदोषनिरूपणनामैकविंशोऽध्यायः ।। २१ ।।