द्वाविंशोऽध्यायः

सुव्रत उवाच -

अस्ति पश्चिमपञ्चालदेशेषु जनपावनी । उन्मत्तगङ्गेति नदी विख्याता निर्मलोदका ।। १ 

यस्यां चक्रे जलक्रीडां मुनिभिः सह सोऽच्युतः । स्ननं च बहुशस्तेन महापातकहृज्जला ।। २ 

तस्यास्तटेऽतिपुण्यायाः सरितो दुर्गसंज्ञिातम् । पुरं तदस्ति नृपते ! चातुर्वर्ण्यजनाश्रयम् ।। ३ 

द्वारिकानगरस्यासीत् यच्छाखानगरं पुरा । क्रीडास्थानं भगवतो वसुदेवात्मजस्य च ।। ४ 

तत्रासीदभयो नाम्ना नृपतिर्भक्तिमान्हरौ । क्षात्रधर्मरतः शूरः सच्छास्त्रश्रवणादरः ।। ५ 

करियानपुरेशस्य नागेशनृपतेः सुताम् । स पूर्णाख्यस्त्रियां जातामुपयेमे सुरप्रभाम् ।। ६ 

बुट्टदाख्यपुरेशस्य तनयां रणगामिनः । सोमादेवीति विख्याताम् उपयेमेऽपरां च सः ।। ७ 

पतिव्रताधर्मनिष्ठे उभे अपि बभूवतुः । सुरप्रभायां तत्रासीत् तस्य कन्याचतुष्टयम् ।। ८ 

आद्या तत्र जयासंज्ञा द्वितीया ललिता तथा । पाञ्चाली च तृतीयोक्ता नानीसंज्ञा तथान्तिमा ।। ९ 

सोमादेव्यां बभूवैको गुणवानुत्तमः सुतः । सुशीलो मृदुवाक् शान्तः प्रह्लाद इव सन्मतिः ।। १० 

जया च ललिता तत्र भगिन्यौ द्वे महामती । बाल्ये वैधव्यमापन्ने विरक्ते विषयेषु च ।। ११ 

उरीकृतब्रह्मचर्ये कृच्छ्रादिव्रततत्परे । आस्तां स्वधर्मनिष्ठे च पितृवेश्मकृतस्थिती ।। १२ 

राज्ञाः स्वसाऽऽसीत्सोमाख्या शालको गालवाभिधः । सर्वेऽप्येते स्वधर्मस्थाः कृष्णभक्तिपरास्तथा १३ 

एतैः सह स भूपालः प्रत्यहं नियमेन च । श्रीमद्बागवतं राजन् शुश्राव परमादरात् ।। १४ 

श्रुतां कथां भगवतः सङ्गत्य निशि तैः सह । कथयामास चित्ते च मुहुस्तां स व्यचिन्तयत् ।। १५ 

श्रुत्वा पुराणं सकलं दत्त्वा विप्राय दक्षिणाम् । पुनस्तदशृणोत्प्रीत्या चक्र एवं स सप्तशः ।। १६ 

यर्हि यर्ह्यशृणोत्तच्च तर्हि तर्हि व्यचिन्तयत् । यदा यदा हि धर्मस्येत्यादिपद्यार्थमात्मनि ।। १७ 

अधर्मोपचयो यर्हि स्याद्धर्मापचयो भुवि । तदावतारं भगवान् गृातीत्येव निश्चयः ।। १८ 

अधर्मः साम्प्रतं भूमौ विवृद्धो दृश्यते नृषु । अतो हर्यवतारस्य कालोऽयमित्यवैद् हृदि ।। १९ 

अयमेव प्रतिदिनं विचारस्तस्य चेतसि । अवर्तत नरेशस्य विरक्तिं समुपेयुषः ।। २० 

एकदा श्रावणे मासि कृष्णैकादशिकादिने । महोपचारैः कृष्णस्य पूजां स विधिनाऽकरोत् ।। २१ 

एकादशीव्रतप्रोक्तान् नियमान् पालयन् स च । पूजान्ते कृष्णपद्यानि गापयामास भूरिशः ।। २२ 

अपरो भागवतीं गीतां शुश्राव सादरम् । कथान्ते भगवद्वार्ताम् अकरोत्स्वयमेव च ।। २३ 

शृण्वन्तु बन्धवः सर्वे वदामि स्वमनोगतम् । श्रेयः स्यादिह सर्वेषां भक्तया कृष्णस्य वै नृणाम् २४ 

प्रत्यक्षकृष्णे भक्तिस्तु सद्य एव फलप्रदा । प्रतिमायां तस्य सा च चिरेण फलदा मता ।। २५ 

धन्या हि पुरुषा लोके यैः साक्षात्कृष्ण ईक्षितः । पूजितश्च यथाशक्ति प्राप्तास्ते तु परां गतिम् ।। २६ 

अवतारो भवेद्यर्हि कृष्णस्य धरणीतले । तर्हि प्रत्यक्षभक्तिः स्याद्दुर्लभा सा तु देहिनाम् ।। २७ 

अवतारस्य हेतुस्तु कृष्णस्याधर्मपुष्टता । भुवि धर्मस्य च ग्लानिः अत्र कृष्णवचो ब्रुवे ।। २८ 

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत ! । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ।। २९ 

परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।। ३० 

आरम्भे हि कलेः पूर्वम् अधर्मोऽतिव्यवर्धत । तदा कृष्णः स्वयं जज्ञो देवक्यां वसुदेवतः ।। ३१ 

अधर्माश्रयिणो हत्वा सोऽसुरांश्च सहस्रशः । वर्णाश्रमोचितं धर्मं भूमौ सम्यगपप्रथत् ।। ३२ 

परीक्षित्सहदेवाद्यै रिपुञ्जयसमापनैः । चन्द्रवंश्यै रक्षिता वै तन्मर्यादा ततो नृपैः ।। ३३ 

बृहद्रणादिभिर्भूपैः सुमित्रचरमैस्तथा । रक्षिता सूर्यवंश्यैश्च मर्यादा सा स्वशक्तितः ।। ३४ 

कालेन क्षीयमाणाऽथ विक्रमार्केण भूभुजा । शालिवाहननाम्ना च यथावत्सा सुरक्षिता ।। ३५ 

ततः श्रीशङ्कराचार्यो नास्तिकादीन्विजित्य च । धरण्यां स्वप्रतापेन धर्मसेतूनतिष्ठिपत् ।। ३६ 

विष्णुस्वामी ततो रामानुजाचार्यश्च वीर्यवान् । मध्वाचार्यश्च निम्बार्को धर्माध्वानमपीपलन् ।। ३७

ततः श्रीवल्लभाचार्यः सह गोस्वामिना भुवि । अपालयद्धर्मसेतून् कृष्णभक्तिं प्रवर्तयन् ।। ३८ 

तयोरितोऽन्तर्हितयोः कलिः प्राप्तबलोऽद्य तु । साधर्मः सम्प्रवृत्तोऽस्ति गृहित्यागिनृपादिषु ।। ३९ 

प्राप्तोऽस्ति धर्मः साङ्कर्यं नृषु वर्णाश्रमात्मकः । अधर्मरुचयः सन्ति प्रायशो ह्युत्तमा जनाः ।। ४० 

शूद्रा द्विजसमाचाराः शूद्राचारा द्विजातयः । त्यागिनः सगृहाः प्रायो गृहिणो भिक्षुका इव ।। ४१ 

पतिव्रताधर्महीना व्यभिचारपराः स्त्रियः । सन्त्युत्तमाश्चापि नरा हिंसामांससुराप्रियाः ।। ४२ 

स्त्रीरसद्रविणाद्याप्त्यै दम्भप्रायैव दृश्यते । भक्तिस्तथा तपोयोगौ धर्माचारश्च बन्धवः ।। ४३ 

पुम्भिर्हास्यविनोदादौ तत्स्पर्शे चाधवाः स्त्रियः । रसाशने च सक्ताः सद्वासोभूषादिधारणे ।। ४४ 

एवं बहुविधा भूमौ सम्प्रवृत्तिर्हि दृश्यते । अधर्मस्य कलेश्चापि दुर्दृश्या भगवज्जनैः ।। ४५ 

तत्कृष्णस्यावतारस्य कालोऽयं शास्त्रदर्शितः । धर्मरक्षाव्रतधृतः प्राप्तोऽस्तीत्येव भाति मे ।। ४६ 

यत्र कुत्रापि भगवान् प्रादुर्भूत इति ध्रुवम् । सच्छास्त्रवाक्यप्रामाण्यात् अधर्मोन्मूलनोद्यतः ।। ४७ 

कृष्णः स भगवानस्मान् स्वकीयानिति वेत्तु च । रक्षत्वधर्मपाषण्डात् दत्ताच्च कृपयेक्षणम् ।। ४८

सुव्रत उवाच -

इत्थं वदत्यभयभूमिपतौ तदैव खट्वाङ्गराजऋषिरस्य गृहं स आयात् ।
वृद्धस्य चात्मसुहृदः स च तस्य सम्यगातिथ्यमात्महितकारिण आचचार ।। ४९

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे अभयराजगृहे खट्वाङ्गागमननामा द्वाविंशोऽध्यायः ।। २२ ।।