त्रयोविंशोऽध्यायः

सुव्रत उवाच 

सन्मानितं तं नृपते ! स्वागतासनवारिभिः । फलाहारेण चोपेत्य निषसादाभयो नृपः ।। १ 

सुखोपविष्टं विश्रान्तं खट्वाङ्गं स महामतिः । अनूपविष्टस्त्रीपुत्रपुत्र्यादिः समपृच्छत ।। २ 

कुत आगम्यते धीमंस्त्वया धर्मविदाऽधुना । स्वजनानां हितायैव त्वदागमनमस्ति नः ।। ३ 

इति पृष्टः स तं प्राह शरधाराख्यपत्तने । सहजानन्दनामाऽस्मग्दुरुरस्ति समागतः ।। ४ 

तद्दर्शनार्थमगममहं परिमितानुगः । सहस्रशो जनास्तत्र मिलिता अभयाभवन् ।। ५ 

तत्र तेन महांश्चक्रे कृष्णजन्माष्टमीतिथौ । उत्सवस्तमहं दृा स्वग्रामं यन्निहागमम् ।। ६ 

खट्वाङ्गेनैवमुक्तोऽसौ नृपः प्रोवाच तं पुनः । सम्पन्नः कैर्गुणैः सोऽस्ति गुरुस्तव महाव्रत ! ।। ७ 

महानेव पुमान्कश्चित्स भवेदिति तर्कये । त्वादृग्वर्षास्वन्यथा तं द्रष्टुं गच्छेत्कथं सुधीः ।। ८ 

सामान्यः स गुरुर्नेति ततः सम्भावयाम्यहम् । वक्तुमर्हसि तस्य त्वं गुणानस्मान्सुहृत्तम ! ।। ९

खट्वाङ्ग उवाच -

कथयिष्ये गुणांस्तस्य किन्तु ते भवदादिभिः । मन्येरन्सत्यभावेनेत्यत्र मे त्वस्ति संशयः ।। १०

अभय उवाच -

प्रतीतिर्धर्मनिष्ठस्य तव सत्यगिरोऽस्ति नः । मन्यामहे भवन्तं तु ज्येष्ठपाण्डववद्वयम् ।। ११ 

अतस्तस्य प्रतापादि स्वसुतानिव नो भवान् । वक्तुमर्हति राजर्षे ! वयं स्मो हि मुमुक्षवः ।। १२ 

खट्वाङ्ग ऊचे भद्र ! त्वं मनो दत्त्वा निशामय । शृण्वन्त्वन्ये बन्धवोऽपि वच आश्चर्यकृन्मम ।। १३ 

इत्युक्त्वा कथयामास प्रतापं तस्य सोऽखिलम् । यथावलोकितं स्वेन संश्रुतं च सतां मुखात् ।। १४ 

मकरालयपुर्यादौ प्रतापो यः प्रदर्शितः । तेन तं कथयामास तस्य साधुगुणांस्तथा ।। १५ 

अलौकिकं तदैश्वर्यं स निशम्य धरापतिः । साश्चर्यः सकुटुम्बोऽभूद्धृष्टरोमा जहर्ष च ।। १६ 

अवतारो भगवतो जात एष न संशयः । इति निश्चित्य मनसा तं पप्रच्छ पुनः स च ।। १७ 

महामते ! त्वया प्रोक्तं यद्वचः सत्यमेव तत् । स कृष्णोपासकः स्वामी कृष्ण एव न संशयः ।। १८ 

कस्य पुत्रोऽभवत्सोऽत्र कस्मिन्देशे च सत्तम ! । सौराष्ट्रानागतः कर्हि कं च देशं गमिष्यति ।। १९ 

जन्मकर्माणि तस्य त्वं वक्तुमर्हसि तत्त्वतः । अस्मद्बाग्यवशादेव त्वमत्रासि समागतः ।। २० 

कुर्वे विष्ण्ववतारस्य चिन्तनं ह्यहमन्वहम् । तद्वार्ताऽद्य श्रुता दिष्टया तां वदाऽऽदित एव मे ।। २१ 

अस्मत्सम्बन्धिनोऽप्येते शुश्रूषन्तीदमुत्सुकाः । प्रामाण्यादाप्तवाक्यस्य त्वं तद्वद हितोऽसि नः ।। २२

सुव्रत उवाच -

इत्थं स भक्तऋषभः परमादरेण पृष्टोऽभयेन सह बन्धुजनैः प्रसन्नः ।
श्रीनीलकण्ठचरितस्मृतिसम्भवायाम् आनन्दसारसरिति प्रममज्ज सद्यः ।। २३ 

स्वान्तःस्फुरद्धरिपदाम्बुजलग्नचेतां तूष्णीं मुहूर्तमभवच्च गतस्मृतिः सः ।
देहस्मृतिं त्वथ शनैः समवाप्य भक्तया हर्षाश्रुदृक् पुलकिताङ्गरुहोऽवदत्तम् ।। २४

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे खट्वाङ्गाभयसंवादनामा त्रयोविंशोऽध्यायः ।। २३ ।।