चतुर्विंशोऽध्यायः

खड्वाङ्ग उवाच -

कोसलेषूत्तरेष्वस्ति ग्रामश्छुप्पयआह्वयः । तत्र धर्मावतारोऽभूत् देवशर्मा द्विजः सुधीः ।। १ 

सावर्णिगोत्रसम्भूतिः सामगो धर्मसंस्थितिः । भक्तयाख्या तस्य भार्याऽऽसीत् साध्वी धर्मे दृढस्थितिः २ 

श्रीकृष्णं स सपत्नीको विष्णुयागेन भूयसा । वृन्दावने परमया भक्तयाऽऽराधयदादृतः ।। ३ 

प्रसन्नो भगवांस्तस्मै भुवि धर्मप्रवृत्तये । अधर्मोच्छेदनार्थं च जज्ञो तस्मात्तु तत्स्त्रियाम् ।। ४ 

हरिनाम्ना स विख्यातो बाल्यात्सर्वमनोहरः । निजेक्षणादिभिर्जीवान् बहून् पापादमोचयत् ।। ५ 

सोऽनिर्दशाहो बालः स्वं जिघांसूनर्भकग्रहान् । कोटराप्रमुखान् सद्यो दहन्नद्रावयद्दृशा ।। ६ 

कृत्यासृजं त्रिवर्षोऽसौ कालीदत्तं महासुरम् । व्यमोहयद्दृशा तेन स ममार परिभ्रमन् ।। ७ 

कृत्योत्पातादिभीतेन ततः पित्रा स बालकः । अयोध्यायां समानिन्ये प्राक्तनं निजकेतनम् ।। ८ 

मानुष्यनाटयसञ्छन्ननिजैश्वर्य उदारधीः । आनन्दयामास जनांस्तत्र कौमारलीलया ।। ९ 

सम्पन्नोऽभूत्स पौगण्डे सर्वैः साधुगुणैरपि । पित्रा कृतोपनयनो नैष्ठिकं व्रतमास्थितः ।। १० 

गुरुं विस्मापयन्विद्याः सकला निगमादिकाः । अध्यैताल्पेन कालेन गृह एव वसन्निजे ।। ११ 

जनन्यै जनकायाथ ददौ दिव्यगतिं प्रभुः । एकादशाब्दिको गेहात् विरक्तः प्राव्रजत्ततः ।। १२ 

स्वयमाचरणेनैव नैष्ठिकब्रह्मचारिणाम् । धर्मान् स दर्शयामास तीर्थानि विचरन्भुवि ।। १३ 

तपस्विभ्यस्तपोरीतिं तपस्तप्त्वा ह्यदर्शयत् । योगरीतिं च योगिभ्यो युञ्जन् योगमदर्शयत् ।। १४ 

सिद्धाभिमानिशाक्तानां जहे सीरपुरे मदम् । दुष्प्रतिग्रहकृष्णाङ्गं विप्रं दृष्टयाकरोत्सितम् ।। १५ 

वीरान् कृत्या महाशाक्तान्निर्जिगाय सहस्रशः । सहस्रशः स्वाश्रितानां पापकर्माण्यहापयत् ।। १६ 

असुराणां सहस्राणि शतानि च दुरात्मनाम् । जगन्नाथपुरेऽन्योन्यं विमोह्यासावघातयत् ।। १७ 

धर्मद्रुहां चासुराणां सहस्रं मानसे पुरे । सत्रधर्मनृपद्वारा धर्मगुप्त्या अजीघनत् ।। १८ 

नानातीर्थानि विचरंस्तत्र तत्र जनान्बहून् । स्ववीक्षास्पर्शभाष्याद्यैः मोचयामास संसृतेः ।। १९ 

उच्छेदयन्नधर्मं च धर्मं संस्थापयन्निह । लोजाख्यं पुरमागच्छत् सौराष्ट्रेषु स सन्मते ! ।। २० 

कृष्णभक्तेः प्रथयितू रामानन्दमहामुनेः । वैष्णवाचार्यवर्यस्य शिष्यैस्तत्र स मानितः ।। २१ 

धर्मज्ञानतपोयोगविद्यावैराग्यभक्तिभिः । सर्वातिशायिभिः सर्वाः तद्वतस्तानचित्रयत् ।। २२ 

साकं तैः पिप्पलग्रामे तमाचार्यमुपेयिवान् । उद्धवस्यैवावतारं वृतं शिष्यैः सहस्रशः ।। २३ 

दीक्षारीतिप्रवृत्त्यर्थं भुवि तस्मात्स वैष्णवीम् । महतीमग्रहीद्दीक्षां गुरूणां गुरुरप्यसौ ।। २४ 

सहजानन्द इत्याख्या गुरुणा विदधेऽस्य च । तेन नारायणमुनिरिति चार्थवती मुदा ।। २५ 

सम्पन्ने सग्दुणैः सर्वैः तस्मिन्धर्मधुरं निजाम् । विन्यस्य भगवद्धाम कालेन प्राप्तवान्स च ।। २६ 

तस्याज्ञायामवर्तन्त सतीर्थ्याः सकला अपि । नारायणमुनेर्नित्यं गृहिणस्त्यागिनोऽपि च ।। २७ 

सद्धर्मस्य प्रवृत्त्यर्थं ततोऽसौ व्यचरद्बुवि । आदावगादब्धितटे मकरालयपत्तनम् ।। २८ 

विक्रमार्कशकस्याब्दे वसुभूतगजेन्दुभिः । प्रमिते तत्पुरं ह्यायात् स पौषे पूर्णिमातिथौ ।। २९ 

अधर्मादवितुं जीवान् स्वप्रतापं प्रदर्शयन् । तत्र मासानुवासाष्टौ धर्मं चाद्यं प्रवर्तयन् ।। ३० 

पूर्तकर्मोत्सवे प्रादात् विप्रेभ्यः स्वस्य दर्शनम् । विष्णुरूपेण तेऽथाऽऽर्चन् मन्त्रैस्तं वैदिकैर्मुदा ।। ३१ 

महान्तमुत्सवं चक्रे जन्माष्टम्यां स तत्र च । प्रादर्शयत्कृष्णरूपं सर्वान्स्वीयमलौकिकम् ।। ३२ 

रामानन्दमुनेः शिष्याः स्वोपास्यं राधिकापतिम् । तदा तमेव निश्चित्य तं समाश्रित्य भेजिरे ।। ३३ 

मुमुक्षवोऽन्येऽपि नरा नार्यश्च बहवस्तदा । तमेव शरणं प्राप्य भेजिरे परमादरात् ।। ३४ 

तदा सदःस्थेन मया साक्षात्कृष्णोऽयमेव हि । इति निश्चित्य मनसा भेजे तच्छिष्यताऽनघ ! ।। ३५ 

स्वैश्वर्यं प्रकटीकुर्वन् निजमूर्तावकारयत् । प्राणवृत्तिनिरोधं स स्त्रीपुंसां च सहस्रशः ।। ३६ 

तत्राधिकारिणो ह्येते सन्त्येतेऽनधिकारिणः । नापश्यदित्यसौ किञ्चित् प्रावृषीव घनाघनः ।। ३७ 

अत्याश्चर्यं जनाः प्रापुः तेनैवाद्बुतकर्मणा । तस्याश्रयं ततः कृत्वा तस्थुः सद्धर्मवर्त्मनि ।। ३८ 

सर्वेभ्यो मतवादिभ्यः तत्तदिष्टामरात्मना । ददौ स दर्शनं तेन विस्मितास्ते तमाश्रयन् ।। ३९ 

कालवाण्यां स बहुधा योगैश्वर्यमलौकिकम् । दर्शयामास भगवान् सर्वसंशयनुत्तये ।। ४० 

सहस्रशः स्वभक्तानां समाधौ च स्वतन्त्रताम् । कृपयाऽचीकरत्स्वामी विना साधनसम्पदम् ।। ४१ 

महान्तं विष्णुयागं च चक्र ओजस्वतीतटे । यथेष्टं भोजयामास वत्सरार्धं स वाडवान् ।। ४२ 

द्रविणं हेमरूप्यादि विप्रेभ्यश्च ददौ भृशम् । घनाघन इवाम्बूनि यानानि वसनानि च ।। ४३ 

उत्सवान्महतः कुर्वन् प्रतिग्रामं स मानद ! । साम्प्रतं शरधाराख्यं पुरमेत्योषितोऽस्ति हि ।। ४४ 

मया स्वग्राममानेतुं प्रार्थितो जनसंसदि । कार्तिक्यामागमिष्यामीत्येवं प्रत्यशृणोत्किल ।। ४५ 

सैष नारायणमुनिः सहजानन्दनामकः । स्वामिनारायणाख्यश्च स्वाम्याख्यश्च विराजते ।। ४६ 

हरिकृष्णो हरिः कृष्णो नीलकण्ठश्च स श्रुतः । गौणानि तस्य नामानि सन्त्यन्यानि बहूनि च ।। ४७ 

सहस्रशस्त्यागिजनैः गृहिभिश्च सहस्रशः । योषाभिर्धर्मनिष्ठाभिः सेव्यते स च भक्तितः ।। ४८ 

भक्तिधर्मादयोऽप्येनं सेवन्ते दिव्यविग्रहाः । केचित्तान् पुण्यवन्तोऽत्र वीक्षन्त इति शुश्रुम ।। ४९ 

केभ्यश्चित्कृष्णरूपेण राधिकापार्षदादिभिः । ददाति दर्शनं स्वामी गोलोकेन सहैव च ।। ५० 

केभ्यश्चिद्विष्णुरूपेण साकं लक्ष्म्या च पार्षदैः । ददाति दर्शनं स्वामी वैकुण्ठेन च स प्रभुः ।। ५१ 

साकं निरन्नमुक्तैश्च श्वेतद्वीपेन भास्वता । महापुरुषरूपेण दत्ते केभ्यश्च दर्शनम् ।। ५२ 

केभ्यश्चिद्बूमरूपेण सह लक्ष्म्यादिशक्तिभिः । पार्षदैश्चेक्षणं दत्ते सहैवाव्याकृतेन सः ।। ५३ 

केभ्यश्चिद्दर्शनं दत्ते नरनारायणात्मना । विशालया च मुनिभिः सहानेकैस्तपस्विभिः ।। ५४ 

योगेश्वरस्वरूपेण सह शेषेण च श्रिया । केभ्यश्चिद्दर्शनं स्वस्य दत्ते क्षीराब्धिना च सः ।। ५५ 

हिरण्मयस्वरूपेण केभ्यश्चित्स्वस्य दर्शनम् । दत्ते सहार्कबिम्बेन भगवान्स सतां पतिः ।। ५६ 

ददाति यज्ञापुरुषस्वरूपेणात्मदर्शनम् । सहाग्निमण्डलेनासौ केभ्यश्चिद्बक्तवत्सलः ।। ५७ 

तस्मात्साक्षाद्धि भगवान्स एवास्ति जगत्प्रभुः । तस्मात्परतरं किञ्चिन्नैवास्तीति विनिश्चयः ।। ५८ 

विनैवाष्टाङ्गयोगं च समाधावीदृशं स वै । नाडीप्राणान्निरोध्यैव ददाति स्वस्य दर्शनम् ।। ५९ 

तेन सर्वेऽपि मनुजा आश्रर्यं प्राप्नुवन्ति हि । मुमुक्षवस्तु ये तत्र ते भजन्ति च तं प्रभुम् ।। ६० 

प्रतापमन्यमप्यस्य प्रसिद्धं भूतलेऽखिले । कथयामि महाभाग ! प्रत्यक्षं योऽनुभूयते ।। ६१ 

ये केचिद्बुवि तद्बक्ता ज्ञानिनोऽज्ञानिनोऽपि वा । शिशवस्तरुणा वृद्धा नरा योषाश्च षण्डकाः ।। ६२

साक्षात्तद्दर्शनं प्राप्ता न प्राप्ता वा कदाचन । स्मरन्ति केवलं तं तद्बक्तवाक्प्राप्तनिश्चयाः ।। ६३ 

सर्व एतेऽप्यन्तकाले दुःखमप्राप्य किञ्चन । विमानस्थं तमेवेशं वीक्षन्ते सहपार्षदम् ।। ६४ 

आरोपिता विमानं ते पार्षदैर्दिव्यमद्बुतम् । धाम तस्य प्रयान्त्येव योगिनामपि वाञ्छितम् ।। ६५ 

म्रियमाणा जना एव वीक्षन्ते तं न केवलम् । अन्येऽप्यभक्ता अपि तं तत्रेक्षन्ते क्वचित्क्वचित् ।। ६६ 

साश्चर्यं तमवेक्ष्यैव गतानीश्वरसंशयाः । तस्यैवाश्रयणं सद्यः सुधियो ह्यत्र कुर्वते ।। ६७ 

ईदृक् सामर्थ्यमन्यस्य न भवेद्धरिमन्तरा । अतो यूयं च तं वित्त सर्वेऽसौ भगवानिति ।। ६८ 

ततश्च तस्य ध्यानेन यूयं स्वहृदये प्रभुम् । तथाविधं द्रक्ष्यथेति निश्चयो नात्र संशयः ।। ६९


सुव्रत उवाच -

इति तद्वाक्यमाश्रुत्य स राजा चास्य बन्धवः । कृष्ण एवैष इत्येव निश्चयं चक्रिरे दृढम् ।। ७० 

ततोऽतिहृष्टास्ते तस्य प्रशंसां बहुधा नृप ! । चक्रुस्तं पुनरप्राक्षीदभयः सर्वसम्मतात् ।। ७१

अभय उवाच -

राजर्षे ! यत्त्वया प्रोक्तं सर्वं तत्तथ्यमेव हि । धन्योऽसि येन साक्षाच्छ्रीकृष्णो दृष्टश्च निश्चितः ।। ७२ 

अद्यप्रभृति तस्य स्मो वयं सर्व इति ध्रुवम् । तस्य ध्यानं यथाकार्यं वक्तुमर्हसि नस्तथा ।। ७३

सुव्रत उवाच -

सम्पृष्ट इत्थमभयेन महादरेण हृष्टः स कृष्णपदपद्मषडंघ्रिचेताः ।
ध्यानं हरेर्गदितुमारभतोर्ध्वरेताः सम्प्रीणयन्सपरिवारममुं नरेश ! ।। ७४

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे संक्षेपेण हरिचरित्रवर्णननामा चतुर्विंशोऽध्यायः ।। २४ ।।