खट्वाङ्ग उवाच -
शुचिर्भूत्वा शुचौ देशे मुमुक्षुर्निरुपद्रवे । स्वस्तिकासनमासीन ऋजुकायो भवेन्मुनिः ।। १
हस्तौ स्वोत्सङ्ग आधाय स्वनासाग्रनिरीक्षणः । अव्यग्रमनसा ध्यायेत्तं स्वीयहृदयाम्बुजे ।। २
आसीनं वा स्थितं ध्यायेन्नारायणमुनिं पुरः । अतिरम्यनराकारं तारुण्ये वयसि स्थितम् ।। ३
रूपानुरूपावयवं नवपद्मदलेक्षणम् । अतीव दर्शनीयं च शान्तं कोमलभाषणम् ।। ४
नूत्नरक्तारविन्दाभहस्ताङ्घ्रितलशोभितम् । चञ्चत्तुङ्गारुणनखचन्द्रावलिविराजितम् ।। ५
मितस्मितस्फुरत्तुल्यदन्तमुक्तावलिप्रभम् । प्रलम्बपीवरभुजं विशालहृदयस्थलम् ।। ६
पृथुतुङ्गललाटं च सुकपोलारुणाधरम् । दधतं कैसरे पुण्ड्रे भाले कुङ्कुमचन्द्रकम् ।। ७
घनश्यामं च तुलसीमालिकां दक्षिणे करे । दधतं च द्वितीयेन ददतं पाणिनाऽभयम् ।। ८
बिभ्रतं तुलसीकाष्ठसूक्ष्ममालाद्वयं गले । शुभ्रं यज्ञोपवीतं च वामस्कन्धे सुशोभनम् ।। ९
वासः शुभ्रं मुदुपरिदधतं दृढकच्छकम् । वसानमुत्तरपटं हंसपक्षसितं तथा ।। १०
सूक्ष्मं सितं च पटकं बध्नन्तं शीर्ष्णि मञ्जुलम् । उत्सवं भक्तसम्प्रीत्यै दधानं भूरिभूषणम् ।। ११
नानाविधैः पुष्पहारैश्चन्दनेनार्चितं निजैः । लम्बद्बिः शेखरै रम्यं मन्दस्मितमनोहरम् ।। १२
तारामण्डलमध्यस्थपूर्णचन्द्रमिवोदितम् । भक्तमण्डलमध्यस्थं सर्वलोकनमस्कृतम् ।। १३
हृदयानि हरन्तं च निजानां करचेष्टया । करुणाभृतया दृष्टया वीक्षमाणं च चिन्तयेत् ।। १४
अथ मनसि शनैः स्थिरत्वमाप्ते भगवति मानुषमूर्तिवासुदेवे ।
निजहृदि पृथगेकमेकमङ्गं चरणतलादि विचिन्त्यमस्य पुंसा ।। १५
निजहृदि दृशि गोचरे तदीये ह्यवयव एकक एकके पृथक् च ।
चपलमपि मनः स्थिरं विधेयं व्रजति लयं खलु तेन तन्मलौघः ।। १६
ध्वजकमलयवाङ्कुशोर्ध्वरेखाप्रमुखसुलक्षणलक्षिते च रम्ये ।
अतिशयमृदुले च यावकाभे चरणतले मनसाऽस्य चिन्तनीये ।। १७
अरुणनखशशाङ्कराजिकान्त्या हृतनिजचिन्तकहृत्तमोऽङ्घ्रियुग्मम् ।
क्रमलघुसमकोमलाङ्गुलीभिर्हृतनवपल्लवकान्ति चास्य चिन्त्यम् ।। १८
निजजनमनसः प्रहर्षणार्थं परिधृतनूपुरशिञ्जितातिरम्यम् ।
स्वगतनिजजनाक्षिवृत्तिचोरं चरणयुगं हृदि चिन्तनीयमस्य ।। १९
किसलयमृदुले सुवृत्तजङ्घे क्रमपृथुलेऽथ सुवर्तुलौ च जानू ।
करिकरसदृशं समं च पीनं निजहृदि सक्थियुगं च चिन्त्यमस्य ।। २०
मृदुघनसितसूक्ष्मदीर्घवासः परिदधदुत्तमहैमकाञ्चिनद्धम् ।
पृथुलकटियुगं च चिन्तनीयं निजहृदये चिरमस्य भक्तभर्तुः ।। २१
उदरमपि लसद्वलित्रयान्तर्गतशुभसभ्रमनिम्ननाभिकूपम् ।
हृदयमुरुसुगन्धिपुष्पहारं समविततं हृदि चिन्त्यमस्य तुङ्गम् ।। २२
कनककटकशृङ्खलोर्मिकाभिर्लसदरुणाब्जनिभं करद्वयं च ।
दृढतरमतिरम्यबाहुयुग्मं निजहृदयेऽस्य विचिन्त्यमङ्गदार्ढयम् ।। २३
विविधमणिविशुद्धहेमसूत्रग्रथितसुमौक्तिकहारहारिकण्ठः ।
विगतशशकलङ्क आस्यचन्द्रः स्थिरमनसाऽस्य चिरं च चिन्तनीयः ।। २४
मितहसितविसर्पिदन्तकान्तिप्रथनसमुज्ज्वलगण्डयुग्ममस्य ।
नवनलिनदलायतं विचिन्त्यं निजहृदि चञ्चललोचनद्वयं च ।। २५
श्रवणयुगलमस्य कुण्डलश्रीबहुविधपुष्पमयावतंसरम्यम् ।
तरदलघुविशालभालराजत्सतिलककुङ्कुमचन्द्रकश्च चिन्त्यः ।। २६
असिततिलकलक्ष्म दक्षगण्डे तिलकुसुमोत्तमनासिकान्तिकेऽस्ति ।
विलसदसितबिन्दुरस्य वामे श्रवणपुटे भवतीति चिन्तनीयः ।। २७
विविधकुसुमशेखरालिराजत्पटमुकुटं च शिरोऽस्य चिन्तयित्वा ।
वदनकमलमेव चिन्तकेन स्मितमधुरं चिरकालमस्य चिन्त्यम् ।। २८
इति ध्यानं भगवतो नारायणमुनेर्मया । कथितं तत्तथा यूयं नित्यं कुर्यात सद्धियः ! ।। २९
ध्यायन्त इत्थं नित्यं ते श्रीकृष्णेति मनोर्जपम् । कुर्वतोऽल्पेन कालेन यूयं प्राप्स्यथ तं ध्रुवम् ।। ३०
सुव्रत उवाच -
एवमुक्त्वा स राजर्षिस्तूष्णीमासीन्नराधिप ! । तद्वचो धारयामासुर्हृदि तेऽप्यभयादयः ।। ३१
कुर्वाणानामादरात्कृष्णवार्ता इत्थं तेषां सा व्यतीयाय सर्वा ।
एकादश्या यामिनीव क्षणार्धं क्षोणीपालात्यन्तशुद्धान्तराणाम् ।। ३२
इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे श्रीहरिस्वरूपध्याननिरूपणनामा पञ्चविंशोऽध्यायः ।। २५ ।।