षड्विंशोऽध्यायः

सुव्रत उवाच -

विधाय पारणां प्रातः स्वग्रामं यान्तमादरात् । अभयः प्राह खट्वाङ्गं विनीतोऽथाश्रुलोचनः ।। १ 

त्वद्बक्तिवशतो ग्राममायायात्ते यदा हरिः । तर्हि नः सूचनां कुर्याः सद्यो दूतेन सुव्रत ! ।। २ 

वयं तु साम्प्रतं भद्र ! तुदतां निर्निमित्तकम् । अधार्मिकाणां शत्रूणां प्राप्ताः स्मो वा उपद्रवम् ।। ३ 

बहिर्गंतुमतो युक्तं नैवास्ति हि पुरादितः । नोचेदद्यैव गच्छेम शरधारं तमीक्षितुम् ।। ४ 

सपत्नादिभयं नश्येद्येनोपायेन सत्वरम् । तं वेत्सि चेत्तदा ब्रूहि शीघ्रं पश्येम यद्धरिम् ।। ५ 

बहुश्रुतोऽथ खट्वाङ्गस्तमाह शृणु सत्तम ! । दशावतारस्तोत्रं ते हरेर्वच्म्यवधारय ।। ६ 

कृष्णमभ्यर्च्य तन्नित्यं पठनीयं त्वयादरात् । सर्वेभ्योऽपि भयेभ्यस्त्वं तेन मुक्तो भविष्यसि ।। ७ 

इत्युक्त्वोपादिशत्स्तोत्रं तत्सर्वभयभञ्जनम् । अभयो धारयामास तच्च बुद्धिमतां वरः ।। ८ 

मात्स्यं रूपमलौकिकं भुवि दधत्कल्पान्तकाले नृपं साकं भूतरणौ महर्षिभिरपात्सत्यव्रतं तोयगः ।
तस्मै मत्स्यपुराणमाह च हयग्रीवं निहत्यासुरं धात्रेऽदान्निगमांश्च यः स हरतात्कष्टं समग्रं हरिः ।। ९ 

पीयूषाय पयोनिधिं स्वमहसा देवासुराणामनाधारं चोन्मथतां तु मन्दरगिरिं मज्जन्तमम्भोनिधौ ।
पृष्ठे कूर्मतनुर्दधार सहसा कारुण्यतो यो जगौ सद्धर्मांश्च मुनिभ्य एष हरतात्कष्टं समग्रं हरिः ।। १० 

यो वाराहतनू रसातलगतां क्षोणीं क्षणादुद्दधौ दैतेयं च जघान संयति हिरण्याक्षं तनुस्थाध्वरं ।
धर्मानाह भुवेऽभवाय च नृणां यज्ञान्वितत्याखिलान्कल्पादौ प्रतिवासरं स हरतात्कष्टं समग्रं हरिः ।११ 

दैत्यानामधिपं हिरण्यकशिपुं हत्वा नृसिंहाकृतिः प्रह्लादं च ततोऽभिरक्ष्य परमं भक्तं निजं निर्जरान् ।
इन्द्रादीन्सुरसद्मसौख्यमुदितांश्चक्रे य उग्रेक्षणो भक्ताभीष्टफलप्रदः स हरतात्कष्टं समग्रं हरिः ।। १२ 

याचित्वा त्रिपदच्छलेन च बलिं त्रैलोक्यमिन्द्राय यः प्रादाद्वामनमूर्तिरस्य च पुनर्दौवारिकत्वं स्वयम् ।
चक्रेऽथ त्रिदिवस्थितोऽपि च मनोवैंवस्वतस्यावनं सुत्रामावरजः स मेऽपहरतात्कष्टं समग्रं हरिः । १३ 

क्षत्रं घोरतरं च कापथगतं त्रिःसप्तकृत्वश्च यो हत्वा सान्वयकार्तवीर्यनृपतिप्राणापहृद्बार्गवः ।
रामः पर्शुकरो धरामरकरप्रत्तासमुद्रक्षितिः सिद्धर्षिस्तुतसद्यशाः स हरतात्कष्टं समग्रं हरिः ।। १४ 

धर्मात्मा पितुराज्ञाया सदयितासौमित्रिराप्तो वनं बद्ध्वा सेतुमपांनिधौ स्वमहसा लङ्केश्वरं सान्वयम् ।
योषाहारिणमाशु यो निहतवान्धर्मेण सर्वाः प्रजा रामः स्मावति पुत्रवत्स हरतात्कष्टं समग्रं हरिः ।। १५ 

कंसादीनसुरान्निहत्य नृपतीन्भारान्भुवो भूरिशो गोभूसाधुधरामरामरवृषान् पाति स्म यः सर्वतः ।
लोकक्षेमकरस्वरूपचरितो विघ्नौघविद्रावणः श्रीकृष्णः स यदूत्तमोऽपहरतात्कष्टं समग्रं हरिः ।। १६ 

श्रीबुद्धोऽसुरबुद्धिमोहचरितः सद्धर्मसंस्थापकः पाषण्डादवितात्मभक्तनिकरः कारुण्यवारांनिधिः ।
हिंसाहीनमखप्रवर्तनयशा यः शुद्धबुद्धिप्रदः संसारार्णवतारकः स हरतात्कष्टं समग्रं हरिः ।। १७ 

आरुह्याश्वममर्त्यदत्तमवनौ निस्त्रिंशपाणिश्चरन्कल्की पापिनराधिपांश्च बहुशो हत्वाऽवसाने कलेः ।
धर्मं स्थापयिता विशुद्धमखिलं यः स्वाङ्गसङ्गानिलस्पर्शोच्छिन्नकुबुद्धिरेष हरतात्कष्टं समग्रं हरिः ।१८ 

स्तोत्रस्य श्रवणाद्दशाकृतिधृतः स्यान्नास्य पाठाच्च
भीस्तोयार्तेर्निरयार्तितोऽसुरगणाद्व्याघ्रादितो दुःस्थलात् ।
राजभ्यश्च कदध्वतो रिपुगणादज्ञानतोऽथो कलेर्देहान्ते
सुगतिर्नृणां करुणया स्याद्दीनबन्धोर्हरेः ।। १९

सुव्रत उवाच -

इत्युक्त्वा स तु राजर्षिर्ययौ कार्यायनं नृप ! । सकुटुम्बोऽभयोऽप्यासीद्धर्याराधनतत्परः ।। २० 

घृतदुग्धैक्षवान् हित्वा धारणापारणाव्रतम् । हरीक्षणावधि दधौ यमैः सह निजैः सह ।। २१ 

सर्वान्तरात्मा भगवान् सर्वभावविदीश्वरः । दर्शनं दास्यतेऽत्रैव स आगत्य दयानिधिः ।। २२ 

निश्चित्येत्थं निजगृहे श्रीकृष्णं तं जगग्दुरुम् । कृतावतारं हि भुवि सम्यगाराधयंश्च ते ।। २३ 

खट्वाङ्गोक्तप्रकारेण ध्यायन्तो नियतव्रताः । भेजिरे स्वामिनं भक्तया भक्तवत्सलमादृताः ।। २४ 

तपोदग्धाङ्गरुधिरा विशुद्धहृदयाश्च ते । निराहारा मिताहारा फलाहाराश्च कुत्रचित् ।। २५ 

लोष्टादिवदनादृत्य राजभोगोचितास्तनूः । आराधनं भगवतो विदधुर्वनिनो यथा ।। २६ 

राज्यं स्वं मन्त्रिसात्कृत्वा तत्कथाश्रवणादिषु । प्रसक्तोऽभून्नृपः स्तोत्रं कृष्णार्चान्ते च तत्पठन् ।। २७ 

ध्यायन्तस्तं जपन्तश्च सर्वे ते हृदयाम्बुजे । यथाश्रुतं तं ददृशुः प्रत्यहं स्फुरितं हरिम् ।। २८ 

प्रत्यक्षदर्शनेच्छा तु तथाप्यन्वहमैधत । तदर्थमेव देहांश्च शोषयन्ति स्म ते निजान् ।। २९ 

इत्थं हरिं तमनुवासरमेव तेषां भक्तया नरेन्द्र ! भजतां विमलाशयानाम् ।
साक्षात्तदाप्तिमनसां व्यगमत्तु सार्धमासद्वयं निजसपत्नभयेन साकम् ।। ३०

इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे द्वितीयप्रकरणे सङ्कष्टहरस्तोत्रोपदेशहर्याराधननिरूपणनामा षड्विंशोऽध्यायः ।। २६ ।।