अथ पञ्चचत्वारिंशोऽध्यायः

सुव्रत उवाच-


अथ ता भगवद्बक्ता योषितः सकला नृप ! ।
समेता अभवन्सायं ललितायास्तु मन्दिरे ।। १

विशाले मन्दिरे तत्र हरिनामध्वनिं ततः ।
मुहूर्तं चक्रिरे हर्षात्कुर्वन्त्यस्तालिकाध्वनिम् ।। २

नाममन्त्रं भगवतो जप्तुं ताः शुचयः स्त्रियः ।
गृहीतमालिकाः सर्वा निषेदुश्चासनेष्वथ ।। ३

धौतवस्त्रपरीधानाः स्वस्तिकासनमास्थिताः ।
ऋजुकायाश्चिन्तयन्त्यो यथादृष्टं हरिं हृदि ।। ४

विशुद्धहृत्प्रस्फुरिते भगवद्वपुषि स्वकम् ।
मनः संयोज्य तन्मन्त्रं जपन्ति स्म स्थिरेक्षणाः ।। ५

ध्यानस्थिता रमा तत्र जया च ललिताऽमरी ।
अमला कमलाद्यास्ताश्चित्रयोषा इवाभवन् ।। ६

भगवन्मूर्तिसंलग्नमनःसु स्त्रीषु तासु च ।
इत्थं स्थितासु तत्रैकमाश्चर्यं नृपतेऽभवत् ।। ७

तासां तपःस्थभक्तानां मध्य आविर्बभूव ह ।
सहसा तेजसः पुञ्जः स च द्राग्व्याप तद्गृहम् ।। ८

अयुतेन्दुप्रतीकाशं घनीभूतं च तन्महः ।
बभौ पिञ्जितकार्पासचयश्वेतं मनोहरम् ।। ९

तस्मिन् गृहेऽथ तत्तेजो वियत्याकस्मिकाभ्रवत् ।
प्रादुर्भूतमपि स्थैर्यं प्राप विद्योतयद्दिशः ।। १०

सप्तस्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः ।
नादो बहुविधश्चासीत्तस्मिञ्छ्रोतृमनोहरः ।। ११

स्वमाधुर्येणाचकृषत् स तासामपि योषिताम् ।
मानसं भगवन्मूर्तेर्बहिरित्यद्बुतं महत् ।। १२

ससम्भ्रमं ततस्ताश्च ददृशुस्तन्महन्महः ।
साश्चर्यं शुश्रुवुर्नादान् तस्मिंश्च मधुरान्नृप ! ।। १३

सादरं वीक्षमाणासु योषास्वित्थं रमादिषु ।
तस्मिन्नदृश्यतैका स्त्री दिव्यरूपा मनःप्रीया ।। १४

दिव्यकौसुम्भवसना दिव्यालङ्कारमण्डिता ।
रूपानुरूपावयवा प्रसन्नमुखपङ्कजा ।। १५

सुवर्णगौरी तन्वङ्गी सर्वावयवसुन्दरा ।
समानकर्णाभरणा सुकपोलोन्नसानना ।। १६

नवयौवननिर्वृत्तस्तनभारकृशोदरी ।
मुखामोदानुरक्तालिझङ्कारोद्विग्नलोचना ।। १७

बिभ्रती केशभारेण मालामुत्फुल्लमल्लिकाम् ।
सव्रीडसुस्मितोत्क्षिप्तभ्रूविलासावलोकना ।। १८

विरजाम्बरसंवीतनितम्बद्वीपशोभया ।
काञ्च्याऽतिशोभना वल्गुचरणस्वर्णनूपुरा ।। १९

रत्नेन्द्रकण्ठाभरणा करकङ्कणभूषिता ।
मोहयन्ती मनांसि स्वलावण्येनापि योषिताम् ।। २०

वादयन्ती विपञ्चीं स्वां सख्यानुपूरितस्वरा ।
मानं हरन्ती गीत्येव गन्धर्वाप्सरसामपि ।। २१

प्राक्तनानि चरित्राणि नारायणमुनेर्मुदा ।
गायन्तीं तां समीक्ष्यैव मुमुहुः सकलाः स्त्रियः ।। २२

ततो वितर्कयन्ति स्म दिव्यां तां प्रमदां प्रति ।
इयं किंनु भवेल्लक्ष्मी राधा वापि सरस्वती ।। २३

सावित्री वापि शर्वाणी स्वर्गलक्ष्मीश्च वा किमु ।
अन्या वा देवता काचित्समायातेयमत्र किम् ।। २४

नारायणमुनेः किंवा निरता पादसेवने ।
साक्षान्मुक्तिरियं दत्ते कृपया नः स्वदर्शनम् ।। २५

किंवा भगवता पूर्वं मोहनार्थ शिवस्य यत् ।
गृहीतं मोहिनीरूपं तत्तेनैव प्रदर्श्यते ।। २६

तद्रूपगानमाधुर्यमोहिता इति ताः स्त्रियः ।
बहुधा तर्कयन्त्योऽपि निश्चयं नापुरञ्जसा ।। २७

उत्सुका अपि तां प्रष्टुं तेजसाऽस्याः प्रधर्षिताः ।
ताः स्त्रियः शेकिरे नैव वक्तुं किञ्चिदपि ध्रुवम् ।। २८

विरक्तास्वग्रगण्याथ रमापि स्वं मनोहरिम् ।
विहाय तग्दतं बुद्ध्वा चिन्तयामास चेतसि ।। २९

अहो अत्यद्बुतं ह्येतन्ममापि सुदृढं मनः ।
अस्यां योषित्यभूल्लुब्धं सद्यो दर्शनमात्रतः ।। ३०

एकं हरिं विना क्वापि ब्रह्माण्डेऽत्र नराकृतौ ।
क्वापि मोहं न यत्प्राप मोहितं कत्कथं स्त्रियाम् ।। ३१

ऐहिके च सुखे क्वापि तथा वै पारलौकिके ।
विरक्तं मानसं यन्मे तत्कथं मुह्यति स्त्रियाम् ।। ३२

अलौकिकेषु यत्पुंसु स्त्रीषु धामसु भूरिषु ।
नाभूत्समाधिदृष्टेषु सक्तं क्वापि मनो मम ।। ३३

तदस्यां योषिति कथं त्यक्त्वैव हरिचिन्तनम् ।
सद्य एवाभवल्लुब्धामित्याश्चर्यं महन्ननु ।। ३४

हरेरन्यत्र मे चित्तं जयाललितयोरपि ।
अमर्यादेश्च न क्वापि सज्जेतेत्यस्ति निश्चयः ।। ३५

तस्मादिदं हरेरेव किञ्चित्कर्तव्यमस्ति वै ।
अन्यथा कः समर्थः स्यान्मनो मोहयितुं हि नः ।। ३६

सान्निध्येऽपि स्त्रिया नित्यं स्वचित्ताक्षोभसम्भवम् ।
दर्पं यथाहरच्छम्बोर्मोहिनीरूपधृद्धरिः ।। ३७

तथैवास्मत्परीक्षार्थं तादृग्रूपधरः पुनः ।
हरिरेव मनो नूनमस्माकं मोहयत्यसौ ।। ३८

छलयन्तं निजा भक्ता अस्मान्रूपान्तरेण हि ।
पृच्छेयैनां कस्य पुत्री कस्य भार्येति नर्मणा ।। ३९

इति निश्चित्य मनसा सा रमाऽतिदृढव्रता ।
पप्रच्छ नत्वा विनयाग्दायन्तीं तां हरेर्गुणान् ।। ४०


रमोवाच- 

नारायणि ! नमस्तुभ्यं मनोनयननन्दिनि ! ।
कासि कस्यासि पुत्री त्वं भार्या कस्यासि सुन्दरी ।। ४१

भक्तानां स्वात्मनि मनः कर्षन्ती कापि देवता ।
नूनं भवसि मातस्त्वं ब्रूहि नः स्वचिकीर्षितम् ।। ४२

अस्माकं भगवद्धयाने विक्षेपो जायते ध्रुवम् ।
उक्त्वातः खस्य कर्तव्यं गच्छ मातर्यथागतम् ।। ४३

इति पृष्टा महाबुद्धया तीव्रवैराग्यसम्पदा ।
तया सा मधुरं प्राह धर्मपट्टाङ्गनावचः ।। ४४


भक्तिरुवाच- 

रमाद्या योषितो भक्ताः ! सर्वाः शृणुत मद्वचः ।
साक्षाच्छ्रीधर्मदेवस्य पत्नीं भक्तिमवैत माम् ।। ४५

नारायणमुनेर्नित्यमन्तिकेऽहं सभर्तृका ।
वसामि दिव्यदेहेति न मां पश्यन्ति मानवाः ।। ४६

प्रीणिताहं किल जयाललिताभ्यां विशेषतः ।
अन्नकूटे प्रबोधन्यामुत्सवेन च भूयसा ।। ४७

भवतीभिश्च सर्वाभिरनादृत्य निजास्तनूः ।
श्रमः कृतो महानेव सादरं ह्युत्सवद्वये ।। ४८

अत आभ्यां च युष्मभ्यं सर्वाभ्योऽपि प्रसन्नया ।
मया स्वदर्शनं दत्तमिति वित्त तदाज्ञाया ।। ४९

नान्यथा दर्शनं मे स्यात्प्रत्यक्षं योगिनामपि ।
वरं वृणीत तुष्टाया यूयं मत्स्वाभिवाञ्छितम् ।। ५०


सुव्रत उवाच-

इति भक्तेर्वचः श्रुत्वा प्रहृष्टा गतसंशयाः ।
साश्चर्यं च सरोमाञ्चं प्रणेमुस्तां रमादयः ।। ५१

ततो बद्धाञ्जलिपुटाः प्रसन्नमुखपङ्कजाः ।
तामूचुर्योषितः सर्वा नारायणमनःप्रियाम् ।। ५२


रमादय ऊचुः- 

नमस्ते सर्वकल्याणि ! भक्ते ! भगवति ! ध्रवे ! ।
त्वद्दर्शनान्महानेव हृद्यानन्दोदयोऽस्ति नः ।। ५३

यदि प्रसन्ना भवसि तर्हि त्वं सर्वमङ्गले ! ।
कुरु स्थितिं हृत्स्वस्माकं सर्वासामपि सर्वदा ।। ५४

एतमेव वरं देहि महाराज्ञिा ! त्वमद्य नः ।
एतदन्यत्तु नास्माकं प्रार्थनीयं त्वदीश्वरि ! ।। ५५

गाने त्वदीये चित्तं नो लुब्धं भवति वै भृशम् ।
तस्मात्त्वं ब्रूहि किं मातर्गायस्यतिमनोहरम् ।। ५६

इति ताभिः प्रार्थिता सा प्रसन्ना भक्तिराह ताः ।
श्रूयतां वचनं भद्रा ! यथार्थं मम निश्चितम् ।। ५७

यत्र धर्मो वसेत्तत्र वासो भवति मे ध्रुवम् ।
यतश्चापसरेद्धर्मस्ततो गच्छामि तत्क्षणम् ।। ५८

पतिव्रताया मम वै प्रतिज्ञौषास्ति योषितः ! ।
नाहं जहामि तं स्न्ग्धिं स्न्ग्धिां मां न जहाति सः ।। ५९

वशीकृतोऽस्ति स तु वै भवतीभिर्यतात्मभिः ।
यमैश्च नियमैस्तस्मादहमस्मि वशीकृता ।। ६०

अतः सहैव पत्याहं वासं युष्मास्वभीप्सता ।
भवतीनामपि हृदि स्थास्याम्यत्र न संशयः ।। ६१

किं गायसीति यत्पृष्टं श्रूयतां च तदुत्तरम् ।
सुखयेत्स्वं यस्तु तस्य गेयं यश इति स्थितिः ।। ६२

अत्र नारायणमुनिः साक्षात्कृष्णो हि वर्तते ।
सोऽरक्षदसुरेभ्यो नः प्राक्तेभ्योऽद्य च रक्षति ।। ६३

प्राक्तनानि चरित्राणि व्यासस्तस्य जुगुम्फ ह ।
गायामि तान्यहं नित्यं मनआनन्ददानि हि ।। ६४

अग्रे त्वद्यतनान्यस्य चरित्राणि महामुनिः ।
गुम्फिष्यति शतानन्दस्तानि गास्यामि च स्त्रियः ! ।। ६५


सुव्रत उवाच-

इति ताभ्यो वरं दत्वा तत्पश्नस्य च सोत्तरम् ।
तिरोबभूव सहसा विघुल्लेखेव भूपते ! ।। ६६

साश्चंर्य भृशमानन्दं प्राप्तास्ताश्च तदीक्षणे ।
हेतुं तु श्रीहरेरेव प्रसादं मेनिरेऽबलाः ।। ६७

एवं भगवता तेन स्वभक्तानां मनोरथाः ।
पूर्यन्ते सकला राजन् ! रक्ष्यन्ते ते च सर्वतः ।। ६८

एतादृशान्भूरिश एव तत्र महोत्सवान्भक्तमनोभिरामः ।
स कारयामास नृप ! स्वभक्तैर्निषेव्यमाणः प्रथयन् यशः स्वम् ।। ६९

पवित्रमेतद्बगवच्चरित्रं यः श्रावयेद्यः शृणुयाच्च भक्तया ।
विमुच्य तौ संसृतिसंज्ञापाशाद्धित्वा वपुर्ब्रह्मगतिं लभेताम् ।। ७०


इति श्रीसत्सङ्गिजीवने नारायणचरित्रे धर्मशास्त्रे तृतीयप्रकरणे प्रबोधन्युत्सवे रमादीनां भक्तेः प्रत्यक्षदर्शनादिनिरूपणनामा पञ्चचत्वारिंशोऽध्यायः।।४५।।